लेबनदेशे आक्रमणं तीव्रं कृत्वा इस्रायलेन; बैरूतं प्रति विमानानि रुद्धानि; अमेरिकया नागरिकाः देशं त्यक्तुं निर्दिष्टाः।
लेबनदेशे इस्रायलेन आक्रमणं तीव्रं कृतमिति कारणेन विभिन्नैः राष्ट्रैः बैरूतं प्रति विमानयात्राः रुद्धाः। अमेरिकया, फ्रान्स् देशेन, जर्मनीदेशेन च बैरूतं प्रति विमानसेवाः रुद्धाः। गल्फ् एरलाइन्स्, एमिरेट्स्, खतर् एयर्वेस् इत्यादयः अपि सेवाः रुद्धाः। लेबनेदेशे स्थितानन् स्वनागरिकान् प्रति देशं त्यक्तुम् अमेरिकया निर्दिष्टम्।
इस्रायलस्य व्योमाक्रमणेन ५० शिशवः ९४ स्त्रियाः च समेत्य ५५८ जनाः हताः तथा १८३५ जनाः व्रणिताश्च।