OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 30, 2024

 तमिलनाटे उदयनिधेः उपमुख्यमन्त्रिपदम्। 

नूतनाः त्रयः मन्त्रिणः शपथवाचनं कृतवन्तः। 

चेन्नई> तमिलनाटराज्ये एम् के स्टालिनस्य मन्त्रिमण्डलस्य विकासः सम्पन्नः। कायिकमन्त्री तथा च मुख्यमन्त्रिणः पुत्रः उदयनिधिः स्टालिन् उपमुख्यमन्त्रिपदं प्राप्तवान्। अलीकधनप्रकरणे मन्त्रिस्थानात् निष्कासितः सेन्तिल् बालाजी इत्यस्य पुनःप्रवेशः लब्धः। नूतनाः त्रयः मन्त्रिणश्च शपथवाचनं कृतवन्तः। एस् एम् नासरः, डो गोवि चेष़ियः, आर् राजेन्द्रः इत्येते नूतनाः मन्त्रिणः।

 हिस्बुल्लानेता हसन् नस्रल्लः इस्रायेलेन निहतः। 

जरुसलेमः>  लेबलनस्य सायुधसंघस्य तथा राजनैतिकशक्तेः हिस्बुल्ला नामकस्य मुख्यनेता हसन् नस्रल्लः [६४] निहतः इति इस्रायेलेन निगदितम्। शुक्रवासरस्य रात्रौ बय्रूते दहियास्थं हिस्बुल्लायाः आस्थानं लक्ष्यीकृत्य कृते व्यामाक्रमणे आसीत् नस्रल्लस्य मृत्युरिति दृढीकृतम्। संघस्य इतरे नेतारः अपि आक्रमणे हता इति च इस्रयेलसेनया निगदितम्।

 नेपालदेशे २४ होराभ्यन्तरे १२९ मरणानि अभवन्। ५४ संवत्सरेषु आपन्ना अतितीव्रवृष्टिः।

      प्रवर्षणे भूस्खलने च नेपालदेशे १२९ जनाः मृताः। ६९ जनाः अप्रत्यक्षाः अभवन्। जलोपप्लवे निबद्धाः सहस्राधिकाः जनाः रक्षिताः इति सर्वकारेण विज्ञापिताः। मृतानां मध्ये ३४ जनाः काठ्माण्डुतलस्थाः आसन्। नेपालदेशे त्रिदिनपर्यन्तं विद्यालयाः संवृताः। विश्वविद्यालयेषु विद्यालयवास्तुषु च महती हानिः जाता इति वार्तासंस्थाभिः निवेदिता।

Sunday, September 29, 2024

 प्रधानमार्गाः अवरुद्धाः। जनाः क्लिष्टाः।

    हमीरपुरम्> जनपद मुख्यालयस्य मुख्यमार्गाः रविवासरे निर्माणसामग्रीणां संग्रहक्षेत्रमिव दृश्यन्ते। प्रतिरविवासरे अपि व्यापारीभिः भवननिर्माणकार्याय मार्गाः अवरुद्धाः भवन्ति। तेन मार्गेण गच्छतां वाहनचालकानां यात्रिकाणां च कठिनताः समुपतिष्ठन्ति। रविवासरे मुख्ये व्यापारप्रदेशे हंमीरपुरनगरे गान्धीचौकस्मारकात् डंगक्वालिमार्गपर्यन्तं व्यापारीभिः भवननिर्माणकार्यस्य निमित्तं दिवसं सम्पूर्णतया मार्गः अवरुद्धः कृतः। तेन वाहनचालकाः यात्रिकाः च स्वामिदयानन्दचौकं मण्डलीकृत्वा एव मार्गं सम्पद्यन्ते स्म। अस्मात् पूर्वं अपि व्यापारीभिः भवननिर्माणकार्याय मार्गाः अवरुद्धाः कृताः सन्ति, परन्तु प्रशासनस्य पक्षतः किंचनापि कार्यं न कृतं अत एव व्यापारिभिः अनस्यूततया मार्गान् अवरुद्धान् कर्तुम् प्रवृत्ताः सन्ति। नगरवासिनः प्रकाशचन्दसेनः, अश्विनिशर्मा, कार्तिकराणः, शान्तिवर्मा, प्रदीपराणः इत्यादयः अवदन् यत् व्यापारकेन्द्र-प्रदेशेषु व्यापारीभिः भवननिर्माणकार्याय रविवासरे मुख्यमार्गः

 ओस्कार् पुरस्कारजेत्री मागि स्मित् दिवंगता। 


लण्टनं> द्विवारं ओस्कार् पुरस्कारेण समादृता विख्याता ब्रिटीष् चलच्चित्राभिनेत्री मागि स्मित् [८९] दिवंगता। हारिपोटर्, डौण् टौण् अबे इत्येतयोः आधुनिककालचलच्चित्रयोः अभिनयेन अस्मिन् शतकेSपि बहवः आराधकाः  जाताः। १९६९ वर्षस्य 'The Prime of Mis.Jeen Brody' नामके चलच्चित्रे अभिनयेन श्रेष्ठतमा नटी, 'कैलिफोर्निया स्यूट्'  इत्यस्मिन् चलच्चित्रे श्रेष्ठतमा सहनटी इति च ओस्कार् पुरस्कारेण समादृता आसीत्। तदनन्तरं बहुवारम् ओस्कार् पुरस्काराय नामनिर्देशोSपि सम्पन्नः।

 केरले एकस्यापि वानरवसूरिबाधा - विमाननिलये निरीक्षणे जागरूकता निर्दिष्टा।

कोच्चि> अस्मिन् मासे २३ तमे दिनाङ्के षार्जातः केरलं प्राप्तस्य एरणाकुलं मुलन्तुरुत्तिप्रदेशीयस्य युवकस्य 'एम् पोक्स्' रोगः [वानरवसूरिः] दृढीकृतः। षार्जायां वर्तमाने सति अस्वास्थ्यानुभूतः सः वैद्यमुपगम्य प्राथमिकचिकित्सां स्वीकृत्य एव स्वदेशं प्राप्तवान्। अनन्तरम् आतुरालयं प्रविष्टः से निरीक्षणे आसीत्। वानरवसूरिं दृढीकरणात् परं ये तेन सम्पर्के अभवन् तान् एकान्तवासाय निर्देशः कृतः। 

  प्रत्युत रोगव्यापनस्य आशङ्का न वर्तते इति राज्यस्वास्थ्यविभागेन निगदितम्। केरलस्य  विमानपत्तनेषु अतिजागरूकता निर्दिष्टा च। 

 मुख्य-निर्वाचनायुक्तः राजीवकुमारः निर्वाचनसम्बन्धेन पत्रकारसम्मेलनं कृतवान्।

    मुख्य-निर्वाचनायुक्तः (CEC) राजीवकुमारः शनिवासरे  महाराष्ट्रविधानसभानिर्वाचनस्य सम्बन्धेन पत्रकारसम्मेलनं कृतवान्। सः अवदत् यत् महाराष्ट्रविधानसभाया: कार्यकालः २६ नवम्बर समाप्तः भवति। तस्मात् पूर्वं निर्वाचनप्रक्रिया समाप्ता भविष्यति। तिथीनाम् उद्घोषणम् आगामिमासे भविष्यतीति।


   राजीवकुमारः तथा निर्वाचनायुक्तौ ज्ञानेशकुमारः एवं एस. एस. संधुः च द्विदिवसीये महाराष्ट्रयात्रायाम् सन्ति। ते विधानसभानिर्वाचनस्य  सज्जतासम्बन्धेन समीक्षा कृतवन्तः। ते जिलानिर्वाचनाधिकारिणा, आरक्षकाधिकारिणा  अन्याधिकारिणा च साकं मेलनं कृतवन्तः।

   एतदधिकं शिवसेनाम्, शिवसेना UBT, महाराष्ट्र नवनिर्माणसेना, बि एस् पी, आम आदमी इत्येताः ११ दलाः च ताभिः मिलितवन्तः। सन्दर्भेऽस्मिन् सर्वे दलाः दिवाली, देवदिवाली, छठपूजा इत्यादीन् उत्सवान् परिगणय्य निर्वाचनतिथीनाम् उद्घोषणं कर्तुं याचितवन्तः।

Saturday, September 28, 2024

 गङ्गावाली नद्यगाधतायां विलयितः अर्जुनः स्वगृहाङ्कणे नित्यनिद्रां प्राप्तवान्। 

अर्जुनः। 

कोष़िक्कोट्> कर्णाटकस्थे षिरूरे गङ्गावाली नद्यां जूलाय् १६ तमे दिनाङ्के दुरापन्नेन भूस्खलनेन भारवाहकयानेन समं तिरोभूतः यानचालकः कोष़िक्कोट् कण्णाटिकल् ग्रामवासी अर्जुनः ७५ दिनानामनन्तरं सहस्रशः जनानां स्नेहाञ्जलिं स्वीकृत्य स्वगृहाङ्कणे नित्यनिद्रां प्राप। 

   दिनत्रयात्पूर्वं नद्याः अगाधतः भारवाहयानेन सह अर्जुनस्य शरीरावशिष्टानि सन्दृष्टानि। औद्योगिकप्रक्रमानन्तरं ह्यः सायं भौतिकशरीरमूढ्वा आम्बुलन्स् यानं केरले अर्जुनस्य जन्मग्रामं प्रति प्रस्थितम्। अर्जुनस्य सोदरः अभिजितः स्यालः जितिनश्च याने उपस्थितौ आस्ताम्। ७२ दिनानि दीर्घिते अन्वेषणदौत्ये दुरन्तस्थानमुपस्थाय नेतृत्वमावहन् कार्वारस्य सदस्यः सतीश् कृष्ण सेयिलः ,  प्रथमसोपाने आत्मसमर्पणरीत्या अन्वेषणं कृतवान् मज्जनकुशलः ईश्वर माल्पे, सर्वाणि च दिनानि दुर्घटनास्थानं स्थित्वा अन्वेषणे सहयोगं कृतवान् भारवाहकस्वामी मनाफः च  भौतिकशरीरमनुगतवन्तः। 

  प्रभाते षट्वादने कोष़िक्कोट् जनपदसीमायां केरलसर्वकाराय मन्त्री ए के शशीन्द्रस्य नेतृत्वे जनपदाधिकारिणः मृतशरीरं स्वीकृत्य कण्णाटिक्कल् ग्राममनयन्। मार्गस्य पार्श्वयोः अनेके जनाः अन्त्याञ्जलिं समर्पयितुं प्रतीक्षितवन्तः। गृहे प्राप्ते सहस्रशः जनाः स्नेहाञ्जलिं समर्पितवन्तः। मध्याह्ने अन्त्येष्टिक्रियाः पूर्तीकृत्य सहोदरः अभिजितः अर्जुनस्य भौतिकशरीरम् अग्नये समार्पयत्।

 हिस्बुल्ला आस्थानमाक्रम्य इस्रयेलः। 

जरुसलेमः> इरानस्य सहयोगेन प्रवर्तमानस्य लबनीयसायुधसंघस्य हिस्बुल्ला नामकस्य आस्थानं ह्यः इस्रयेलेन आक्रमितम्। लबननस्य राजनगरी बेय्रूट् इत्यस्य दक्षिणभागे दहियास्थाने  वर्तमानमास्थानमेव आक्रमणाधीनमभवदिति इस्रयेलस्य सैनिकवक्ता डानियल् हगारी न्यगादीत्। 

  हिस्बुल्लायाः नेतृमुख्यः हस्सन् नस्रल्ला आसीत् इस्रयेलस्य लक्ष्यमिति लबनीसवार्तामाध्यमैः प्रस्तुतम्।

Friday, September 27, 2024

 यू एन् रक्षासमितिः - भारतस्य स्थिराङ्गत्वे सहयोगेन इमानुवल् मक्रोणः। 

न्यूयोर्क्>  ऐक्यराष्ट्रसभायाः रक्षासमित्यां भारतस्य स्थिराङ्गत्वाय सहयोगं कुर्वन् फ्रञ्च् राष्ट्रपतिः इमानुवल् मक्रोणः। रक्षासमित्याः परिष्करणाय इतोSपि अङ्गाः आवश्यकाः। तस्मात् भारतं जापानं जर्मनी ब्रसीलम् इत्येतानि राष्ट्राण्यपि स्थिराङ्गाः करणीयाः इति मक्रोणेन यू एन् सामान्यसभायायाम् अभ्यर्थितम्।

 बिहारे जीवित पुत्रिका उत्सवकार्यक्रमे ४३ जनाः जले निमज्य मृताः। 

पट्ना> बिहार राज्ये सम्पन्ने जीवित पुत्रिकानाम्नि उत्सवकार्यक्रमे ४३ जनाः मृत्युमुपगताः। १५ जनपदेषु विभिन्नदुर्घटनायामेवेयं दुर्गतिः। मृतेषु ३७ बालकाः भवन्ति। 

  उत्सवस्य अंशतया विविधनदीषु स्नानार्थम् अवतारिताः दुर्घटनालग्नाः जाताः। अपत्यानाम् ऐश्वर्याय महिलाभिः आयोज्यमानः उत्सवो भवति 'जीवित् पुत्रिका'। मृतानां परिवाराय मुख्यमन्त्रिणा नितीशकुमारेण चतुर्लक्षं रूप्यकाणां राशिसाह्यं प्रख्यापितम्।

 लबनने युद्धविरामाय निर्देशः इस्रयेलेन निरस्तः। 

यू एन्> लबनने सायुधसंघः हिस्बुल्ला इत्यमुं विरुद्ध्य २१ दिनानि यावत् युद्धविरामाय अमेरिका, फ्रान्स् इत्यादीनां लोकराष्ट्राणां निर्देशः इस्रयेलेन निराकृतः। लबनने इस्रयेलेन स्थलयुद्धमारप्स्यते  इत्याशङ्कायां वर्तितायां २१ दिनाभ्यन्तरे नयतन्त्रचर्चाभिः  युद्धनिवृत्तिरासीत् लोकराष्ट्राणां लक्ष्यम्। 

   किन्तु हिस्बुल्लां विरुध्य अन्तिमविजयपर्यन्तं युद्धमनुवर्तिष्यते इति इस्रयेलप्रधानमन्त्रिणा बञ्चमिन नेतन्याहुना उक्तम्।

 भारतीयजनानां कृते नूतना 'वीसा' योजना: अस्मिन् मार्गे कार्यं कर्तुं, वासं कर्तुं तथा अध्ययनं कर्तुं च अवसरः।

   उभयोः राष्ट्रयोः मध्ये हस्ताक्षरीकृतस्य व्यापार-सम्मतिं आधृत्य, ऑस्ट्रेलिया राष्ट्रेण ज्ञापितं यत् भारतात् सहस्रं जनेभ्यः  कार्य-आन्‍ड-हॉलिडे वीसा इति प्रकल्पः अष्टोत्तरशततमे दिने आरभ्य (१ ओक्टोबर्) अनुमोदितः भविष्यति। केन्द्रीयवाणिज्यविभागस्य मन्त्रिणः पीयूषगोयलस्य त्रिदिनसन्दर्शनस्य अनन्तरम् अयं निर्णयः अभवत्। अयं निर्णयः महत्तमं लाभम् इति केन्द्रीयमन्त्री उक्तवान्। भारत-ऑस्ट्रेलिया आर्थिक-सहकार्य-व्यापार-सम्मतिः २०२२ वर्षस्य दिसम्बरमासे प्रवृत्ता। अस्मिन् अन्तर्गतं कार्य-आन्‍ड-हॉलिडे वीसा इत्यस्य हस्ताक्षरः कृतः, यः अत्यन्तं महत्वपूर्णः अस्ति। अस्य अनुसारं, अष्टादश-त्रिंशद्वयोः मध्ये वयः यः अस्ति, तेषां जनानां कृते अध्ययनाय, कार्याय, यात्रा च कर्तुं ऑस्ट्रेलियायाम् आवेदनं कर्तुं शक्यते। एवम् वीसा प्राप्ताः जनाः एकं वर्षं यावत् तत्र तत्कालिकरूपेण वासं कर्तुं शक्नुवन्ति। अस्य हेतोः मानदण्डाः ऑस्ट्रेलियया निश्चिताः भविष्यन्ति।

Thursday, September 26, 2024

 दिल्लिसर्वकारेण असंघटितक्षेत्रे न्यूनातिन्यूनं वेतनं वर्धितम्। 

नवदिल्ली> दिल्ल्याम् असंघटितक्षेत्रे ये कर्म कुर्वन्ति तेषां न्यूनातिन्यूनं वेतनं वर्धयितुं सर्वकारेण निश्चितम्। मुख्यमन्त्रिपदप्राप्त्यनन्तरं अतिषि वर्यया कृते प्रथमपत्रकारमेलने आसीदिदं प्रख्यापनम्। 

  अकुशलकर्मकराणां कृते प्रतिमासं १८,०६६ रूप्यकाणि, अर्धकुशलकर्मकराणां कृते १९,९२९ रूप्यकाणि, कुशलकर्मकराणां कृते २१,९१७ रूप्यकाणि इत्येवं प्रकारेण अस्ति परिष्कृतवेतनम्।

 काश्मीरनिर्वाचनं - द्वितीयचरणे ५६% मतदानम्। 

श्रीनगरं> जम्मु-काश्मीरस्य विधानसभायाः निर्वाचनस्य ह्यः सम्पन्ने द्वितीयचरणे ५६% मतदायकाः स्वाभिमतम् अङ्कितवन्तः। मतदानप्रक्रिया शान्तियुक्ता आसीत्। 

  षट् जनपदेषु २६ मण्डलेषु आसीत् जनविधिः। अक्रमं बहिष्करणं वा विना जम्मु-काश्मीरजनाः जनाधिपत्यप्रक्रियायां उत्साहेन भागं कृत्वा चरित्रमालिखितवन्तः इति मुख्यनिर्वाचनाधिकारी राजीवकुमारः दिल्याम् उक्तवान्।

 'षिरूर् दौत्यस्य' विजयप्राप्तिः।

अर्जुनस्य भारवाहकं शरीरावशिष्टं च अधिगतम्। 

अर्जुनस्य भारवाहके गङ्गावाली नद्याः अधिगते। 

अङ्कोला> ७२ दिनानां प्रार्थनापूर्वकप्रयत्नस्य विजयप्राप्तिः। जूलै १६ तमे दिनाङ्के दुरापन्ने भूस्खलने कर्णाटकस्य षिरूर् जनपदस्थायाः गङ्गावाली नद्याः अगाधतां निपत्य तिरोभूतं भारवाहकं तस्य चालकेन केरले कोष़िक्कोट् प्रदेशीयेन  अर्जुनेन सह  ह्यः अधिगतम्। अर्जुनस्य भौतिकावशिष्टानि  भारवाहकस्य अन्तः लग्नानि आसन्। भारवाहकं भौतिकावशिष्टानि च बन्धुभिः भारवाहकस्वामिना च प्रत्यभिज्ञातानि। 

  मृतदेहांशाः कार्वारस्थे जनपदीयातुरालयं नीताः। डि एन् ए परीशोधनादिकं पूर्तीकृत्य बान्धवेभ्यः दास्यन्ते। केरल-कर्णाटकसर्वकारयोः अधिकारिवृन्दस्य  ऐकमत्येन एकोपनं, अनेकेषां कर्मकराणां सन्नद्धसेवकानां समर्पणपूर्वकं प्रयत्नं च अस्याः सफलतायाः निदानं भवति। तिरोभूतयोः द्वयोरपि अधिगमनाय अन्वेषणम् अनुवर्तिष्यते इति कर्णाटकसर्वकारेण निगदितम्।

Wednesday, September 25, 2024

 "मुड भूमि व्यवहारप्रकरणे सिद्धरामय्यं विरुद्ध्य लोकायुक्तः अन्वेषणम् करोति।"

    मैसूरु 'मुड' भूमि-व्यवहारप्रकरणे कर्नाटकराज्यस्य मुख्यमन्त्रिणं सिद्धरामय्यं विरुद्ध्य लोकायुक्तेन अन्वेषणं घोषितम्। बङ्गलूरु देशस्य जनप्रतिनिधीनां विशेषन्यायालयेन एव अन्वेषणाय आदेशः प्रदत्तः। मैयसूरु लोकायुक्तस्य आरक्षकैः एव प्रकरणस्य अन्वेषणं कर्तव्यम् इति निश्चितम्। त्रिमासाभ्यन्तरे अन्वेषणं कृत्वा प्रतिवेदनं दातव्यम् इति न्यायालयस्य आदेशः अस्ति।

    ह्यः सिद्धरामय्येन राज्यपालं विरुद्ध्य दत्ता याचिका कर्णाटकस्य उच्चन्यायालयेन निरस्ता आसीत्।

 हरिणी अमरसूर्या श्रीलङ्कायाः प्रधानमन्त्री। 

कोलम्बो> श्रीलङ्कायाः नूतनप्रधानमन्त्रिरूपेण हरिणी अमरसूर्या गतदिने शपथवाचनं कृत्वा पदं प्राप्तवती। राष्ट्रपतिः अरुणकुमार दिशनायके शपथं कारितवान्। 

  श्रीलङ्कायाः तृतीया महिलाप्रधानमन्त्री भवति हरिणी। नूतने मन्त्रिमण्डले चत्वारः अङ्गाः वर्तन्ते। नवम्बरमासे प्रतीक्ष्यमाणं सामान्यनिर्वाचनपर्यन्तं संरक्षकमन्त्रिसभारूपेण एव प्रवर्तनमिति सूच्यते।

 लेबनदेशे आक्रमणं तीव्रं कृत्वा इस्रायलेन; बैरूतं प्रति विमानानि रुद्धानि; अमेरिकया नागरिकाः देशं त्यक्तुं निर्दिष्टाः।

      लेबनदेशे इस्रायलेन आक्रमणं तीव्रं कृतमिति कारणेन विभिन्नैः राष्ट्रैः बैरूतं प्रति विमानयात्राः रुद्धाः। अमेरिकया, फ्रान्स् देशेन, जर्मनीदेशेन च बैरूतं प्रति विमानसेवाः रुद्धाः। गल्फ् एरलाइन्स्, एमिरेट्स्, खतर् एयर्वेस् इत्यादयः अपि सेवाः रुद्धाः। लेबनेदेशे स्थितानन् स्वनागरिकान् प्रति देशं त्यक्तुम् अमेरिकया  निर्दिष्टम्।

      इस्रायलस्य व्योमाक्रमणेन  ५० शिशवः ९४ स्त्रियाः च समेत्य  ५५८ जनाः हताः तथा १८३५ जनाः व्रणिताश्च।

Tuesday, September 24, 2024

 भारत-बङ्गलादेशयोः क्रिकेट निकषस्पर्धा - भारतस्य विजयः। 

चेन्नै> बङ्गलादेशं विरुध्य भारतस्य प्रथमक्रिकट् निकषस्पर्धायां भारतं २८० धावनाङ्कैः विजितवत्। उपलब्धिः - प्रथमपादे भारतं ३७६, बङ्गलादेशः १४९ ; द्वितीयपादे भारतं २८७/४ -समाप्तिज्ञापनं, बङ्गलादेशः २३४। 

  निर्णायके काले शतकप्राप्त्या ६ द्वारकसम्पादनेन च प्रशोभितः आर् अश्विनः श्रेष्ठक्रीडकपदं प्राप्तवान्। द्वितीया निकषस्पर्धा २७तमदिनाङ्कतः आरभ्य काण्पुरे सम्पत्स्यते।

 कोटैकनाले पलास्तिककूपीनां २० रूप्यकाणि हरितकरम्।

चेन्नै> तमिलनाटस्थे प्रसिद्धे विनोदसञ्चारकेन्द्रे कोटैकनाले पञ्चलिटर् न्यूनात्मकानां जल-पानीयकूप्यानाम् उपयोगाय २० रूप्यकाणि कररूपेण आहर्तुं राज्यसर्वकारस्य आदेशः। विनोदसञ्चारकेन्द्रं पलास्तिकमालिन्यमुक्तं कर्तुम् उच्चन्यायालयस्य निर्देशमनुसृत्य एवायमादेशः। रविवासरे नूतनोSयं प्रक्षेपः प्रवृत्तिपथमागतः।

 'चतुरङ्ग ओलिम्प्याडे' भारतस्य युगलकिरीटप्राप्तिः। 

चतुरङ्ग ओलिम्प्याडे युगलकिरीटं प्राप्तवत् भारतीयदलम्। 

बुदापेस्ट्> विश्वचतरङ्गक्षेत्रे भारतस्य नूतनाश्वमेधस्य प्रारम्भः। हंगरी राष्ट्रे बुदापेस्ट् राजधानीनगरे सम्पन्ने चतुरङ्गस्य ओलिम्प्याड् स्पर्धासु सामान्यविभागे [Open Category] वनिताविभागे च भारतस्य सुवर्णकिरीटप्राप्तिः। प्रप्पथममेन भारतस्य विभागद्वये विजयः। 

  सामान्यविभागे ११ चक्रेभ्यः २१ अङ्कान् सम्प्राप्य एव भारतं वीरपदं प्राप्नोत्। महिलाविभागस्य अन्तिमचक्रे अज़र्बैजानं पराजित्य १९ अङ्कैः भारतेन प्रथमस्थानं प्राप्तम्। 

  स्पर्धापरम्परायां सर्वत्र अपराजिताः डि गुकेशः, अर्जुन एरिगासि, दिव्या देशमुखः, वन्तिका अगर्वालः इत्येते वैयक्तिकानि सुवर्णपतकानि प्राप्तवन्तः।

Monday, September 23, 2024

 'मार्क्सिस्ट्' अनुयायी दिशनायके श्रीलङ्कायाः राष्ट्रपतिः। 

दिशनायके।

कोलम्बो> श्रीलङ्कायां शनिवासरे सम्पन्ने राष्ट्रपतिनिर्वाचने 'मार्क्सिस्ट्' अनुयायी अनुरकुमार दिशनायके ४२. ३१% मतदानोपलब्ध्या विजयीभूतः। मार्क्सिस्ट् दलस्य जनता विमुक्ति पेरुमुना इत्यस्य नेतृत्वे वर्तमाने सख्ये अन्तर्भूतस्य एन् पि पि इत्यस्य स्थानाशी आसीत् दिशनायकः। सः अद्य राष्ट्रपतिभवने सम्पन्ने समारोहे शपथवाचनं कृतवान्।

जम्मुकश्मीरदेशे आतङ्कवादस्य अन्त्यपर्यन्तं पाकिस्तानदेशेन सह शान्तिसंवादः न भविष्यति: - अमित शाहः।

   जम्मुकश्मीरदेशे आतङ्कवादस्य अन्त्यं विना पाकिस्तानदेशेन सह शान्तिसंवादः न भविष्यति इति केन्द्रगृहमन्त्री अमित शाहः अवदत् जम्मुकश्मीर-विधानसभा-निर्वाचनप्रचाराय नौशेरायाम् आयोजितायां निर्वाचनीय-पथसञ्चलने भाषमाणः आसीत् सः। विपक्षदलीयाः राष्ट्रिय-संमेलनदलः कांग्रेसदलः च विषयेऽस्मिन् समाश्रित्यैव सततम् आग्रहम् अकरोत्, परन्तु भाजपा-नेता अमितः शाहः पुनः अपि स्वस्य अभिमतं अवदत्।

    ‘‘अनुच्छेदः ३७० पुनरागमियिष्यते इति फरोख अब्दुल्ला कथयति। किन्तु

Sunday, September 22, 2024

 'क्वाड्' उच्चशिखरं - नरेन्द्रमोदी अमेरिकां प्राप।

नवदिल्ली> क्वाड् नामक संयुक्तराष्ट्राणाम् उच्चशिखरमेलनाय भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे यू एस् प्राप्तवान्। इन्डो - पसफिक् क्षेत्रे   शान्तिं अभिवृद्धिं च  संस्थापयितुं चतुर्णाम् अङ्गराष्ट्राणां भागभागित्वं श्रेष्ठतरमिति प्रधानमन्त्रिणा उक्तम्। यू एस् राष्ट्रपतिना जो बैडनेन सह नयतन्त्रमेलनमपि विधास्यतीति प्रधानमन्त्रिणः कार्यालयेन निगदितम्।

 त्रिदिनसन्दर्शनार्थं यू एस् प्राप्तवान् नरेन्द्रमोदी संयुक्तराष्ट्रस्य सामान्यसभां न्यूयोर्कस्थं भारतीयजनसमाजं च अभिसम्बोधयिष्यति।

 भारतस्य ऐ एस् संघटनात् भीषा वर्तते। 

नवदिल्ली> भारतं प्रमुखतया जम्मु काश्मीरे परिसरप्रदेशेषु च सजीवं वर्तमानेभ्यः इस्लामिक स्टेट् [ऐ एस्], अल् खायिदा इत्येतयोः अनुबन्धसंघटनेभ्यः भीषाम् अभिमुखीक्रियते इति एफ् ए टि एफ् [Financial Action Task Force] इत्यस्य आवेदनम्। भीकरप्रवर्तनेभ्यः आर्थिकसाह्यं निरीक्षमाणं पारीस् आस्थानीभूतं संघटनं भवति एफ् ए टि एफ्।

Saturday, September 21, 2024

 उच्चशिक्षायाः कृते नवीनशिक्षानीतौ समाविष्टानां तकनीकी-नैतिकमूल्यानां निरन्तरप्रशिक्षणम् आवश्यकम् - प्रो. इन्दुपाण्डेयखण्डूरी

वार्ताहर:- कुलदीपमैन्दोला।श्रीनगरम्।

     विश्वविद्यालयानुदनायोगान्तर्गतं- मालवीयमिशनशिक्षक- प्रशिक्षणकेन्द्रे सेवारतशिक्षकाणां प्रशिक्षणार्थं 'एन-आई-टी' इत्यनेन कार्यक्रमः समायोजित: आसीत् । 21 अगस्तत: 19 सितम्बर 2024 दिनांकं यावत्, अन्तर्जालमाध्यमेन गुरुदक्षता-संकायप्रेरण आसीत् कार्यक्रमः।

 उत्तराखण्डं, उत्तरप्रदेश:, दिल्ली, बिहारं, उड़ीसा, राजस्थानं तथा झारखण्ड: इत्यादीनाम् राज्यानां शिक्षकप्रतिभागिनः प्रशिक्षणं प्राप्तवन्तः 

   मालवीयकेन्द्रद्वारा आयोजितेस्मिन् गुरुदक्षता कार्यक्रमस्य समापनसत्रस्य मुख्यातिथि: प्रो. एन. एस. पंवार: विश्वविद्यालयकुलसचिव: कौशलयुक्तान्, कुशलप्रबन्धनान् च संस्थानां कृते सम्पत्तिरूपेण मन्यते स्म। सः अवदत्

 चलच्चित्राभिनेत्री कवियूर् पोन्नम्मा दिवंगता। 

कैरलीचलच्चित्रलोकस्य मातृवदनम् अस्तं गतम्। 


कोच्ची> कैरलीचलच्चित्रमण्डले ६० वर्षाणि यावत् बहूभ्यः नायकेभ्यः पत्नीरूपेण मातृरूपेण च अतुल्यां अभिनयप्रतिभां प्राकट्य आस्वादकानां मनसि चिरप्रतिष्ठामुपलब्धवती अभिनेत्री कवियूर् पोन्नम्मा [७९] दिवंगता। कोच्चिनगरस्थे निजीयातुरालये ह्यः सायं पञ्चवादने आसीदन्त्यम्। 

  नाटकाभिनेत्रिरूपेण कलाक्षेत्रमागतवती पोन्नम्मा वर्या गायिकारूपेण च स्वपाटवं प्रदर्शितवती। १९६२ तमे वर्षे 'श्रीरामपट्टाभिषेकम्' इति चलच्चित्रे अभिनयं कृत्वा चलच्चित्रमण्डले पदक्षेपमकरोत्। १९६४ तमवर्षे प्रथमं मातृनटनं कृत्वा प्रशंसामार्जितवती। चतुश्शताधिकेषु चलच्चित्रेषु अभिनयं कृतवती। 

  चतुर्वारं श्रेष्ठसहनटीपुरस्कारेण समादृतायाः कवियूर् पोन्नम्मायाः अन्तिमं चित्रं २०२१ तमे वर्षे बहिरागतम् 'आणुं पेण्णुम्' [पुरुषः स्त्री च] आसीत्। तस्याः अन्त्योदकक्रियाः अद्य सायं आलुवायां करुमालूरस्थे गृहाङ्कणे सम्पत्स्यन्ते।

Friday, September 20, 2024

 विदेशछात्रान् न्यूनीकृत्य कानडाराष्ट्रम्। 

ओट्टावा> विदेशविद्यार्थिनां कृते दीयमानानां  शैक्षिकानुज्ञापत्राणां संख्यां न्यूनीकरिष्यतीति कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो इत्यनेन निगदितम्। गतवर्षात् ३५% न्यूनीकृतानुज्ञा एव अस्मिन् वर्षे दीयते। आगामि वर्षे ततः १०% न्यूनीकरिष्यति। 

  सहस्रशः भारतीयविद्यार्थिनां प्रतिकूलाय भविष्यत्ययं निर्णयः।

 बधिरायाः तनयायाः कृते हस्तसञ्चालनभाषां विना विद्यालयः, सम्प्रति सा कन्या तत्रत्याः प्रधानाचार्या अस्ति।

   श्रवणशक्तिहीनायाः तनयायाः, आयुः पूर्णतया हस्तसञ्चालनभाषाम् अधिष्ठ्य जीवितुम् अपेक्ष्यते इति ज्ञात्वा, पितरौ भाषणप्रणाल्या शिक्षां प्रदातुम् एकं विद्यालयं संस्थापितवन्तौ। इदानीं केरलराज्ये भाषणप्रणालीम् अनुसृत्य शिक्षां प्रदातुं समारब्धः प्रथमः विद्यालयः भवति अयम्। वाक्-श्रवण-परिमितिं याः प्राप्नुवन्ति तान् वाक्प्रयोगेण एव शिक्षयति अस्मिन् विद्यालये। अद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अस्ति सा कन्या। केरलराज्यस्य पालक्काट् जनपदस्य याक्करग्रामे स्थितस्य श्रवण-संवाद-महाविद्यालयस्य संस्थापकं कष़िम्ब्रं गोपिं तस्य तनयां दीप्तिं च सम्बद्ध्य एव कथ्यते अत्र। स्वस्य जातायाः दीप्त्याः श्रवणशक्तिः नास्ति इति गोपिः तस्य पत्नी शान्ताकुमार्या सह अवगच्छति। दुःखेन व्यथितोऽपि तस्यां सर्वप्रकारेण साहाय्यं प्रदातुं तौ पितरौ आस्ताम्। बधिरकन्यायाः कृते विद्यालयः तदा तस्मिन् प्रदेशे न आसीत्। अन्येषु केरलराज्यस्य विद्यालयेषु बधिरतां-मूकतां प्राप्नुवतां बालानां हस्तसञ्चालनभाषा एव प्रयुक्ता आसीत् शिक्षणाय। एवं गोपिः निनिश्चयम् अकरोत् यत् तस्याः तनयायाः जीवने हस्तसञ्चालनभाषायाः आधारः न स्यात्। 

   १९८१ तमे वर्षे यदा गोपिः विद्यालयं आरब्धवान्, तदानीं पुत्री दीप्तिः सार्धद्विवयस्का आसीत्। अद्य दीप्तिः एम.ए., पि एच् डि., बी.एड् इत्येतान् उपाधीन् संपाद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अभवत्। भारतस्य एतादृशविद्यालयेषु यः विद्यालयः त्रिषु भाषासु शिक्षां प्रददाति सः याकरग्रामस्य श्रवणसंवादमहाविद्यालयः एव इति गोपिः वदति। तत्रत्याः छात्राः हस्तसञ्चालनभाषाम् कदापि नोपयुज्यन्ते। अधुना विद्यालयेऽस्मिन्  प्राथमिकश्रेणीतः उच्चमाध्यमिकश्रेणीपर्यन्तं १०६ छात्राः शिक्षां प्राप्नुवन्ति। इदानीं ११ शिक्षकाः सन्ति। छात्राणां कृते छात्रालयसुविधा अपि अस्मिन् सर्वकार-संरक्षितविद्यालये अस्ति।

Thursday, September 19, 2024

 इराणस्य साहाय्येन नेतन्याहुं हन्तुं षड्यन्त्रं कृतम्। इस्रायेलीनागरिकः निग्रहीतः।

     इरानस्य साहाय्यं प्राप्य अस्याः षड्यन्त्रस्य आयोजनं कृतमिति सुरक्षा सेनया सूचितम्। प्रधानमंत्रिणं तथा अन्यान् च हन्तुम् एव अस्य लक्ष्यं आसीत्। इरानदेशे द्वयोः सम्मेलनयोः भागं गृहीत्वा तस्य षड्यन्त्रं कृतमिति ज्ञायते।

    तुर्किदेशेन सह सम्बन्धितः उद्योगी भवति एषः निग्रहीतः। आभ्यन्तरगुप्तचरसंस्थया शिन् बेतेन इज़रायेलस्य आरक्षकेन च गतमासे एषः निग्रहीतः अभवत्। लिबनदेशे हिस्बुल्लासंघटनस्य षड्यन्त्रेण एषा घटना सम्पन्नेत्यपि शिन् बेतेन प्रकाशिकृतम्। लिबानदेशे हिस्बुल्लायाः लिखित सन्देशग्राहीणां  चलसन्देशग्राहीणां (पेजर् वाकिटाकी) व्यापकविस्फोटानन्तरमेव अस्य व्यक्तेः निग्रहणम् अभवत् इति स्पष्टं कृतम्।

 चाम्प्यन्स् लीग् होकी - भारतस्य किरीटप्राप्तिः। 

हुलन् बुयर्> एष्यन् चाम्प्यन्स् लीग् इति होकीस्पर्धापरम्परायां भारतस्य अन्तिमविजयः। परम्परायाः अन्तिमस्पर्धायां चीनदलं १ - ० इति लक्ष्यकन्दुकरीत्यां पराजित्य भारतेन  किरीटं संरक्षितम्। क्रीडायाः ५१ तमे निमिषे जुगराजसिंहः विजयलक्ष्यं प्राप्तवान्।

 एकं राष्ट्रं एकं निर्वाचनम् इति निर्देशाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं दत्तम्।

   पूर्वराष्ट्रपतिः रामनाथः कोविन्दः अध्यक्षरूपेण स्थितस्य समितेः प्रतिवेदनाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं  दत्तम्। एषः विधेयकः शीतकालीने विधानसभा सत्रे प्रस्तूयते इति सूचना अस्ति। अद्य केन्द्रमन्त्रिमण्डलेन महत्त्वपूर्ण: निर्णय: स्वीकृत: इत्येतत् विशेषतया अत्र उल्लेखनीयं भवति। अस्य निर्णयस्य साहाय्येन २०२६ तमस्य निर्वाचनकाले एव युगपत् निर्वाचनार्थं व्यवस्थाथां  कर्तुं भाजपा-सर्वकारस्य लक्ष्यं अस्ति।

    २०२१ तमे वर्षे 'एकं राष्ट्रं एकं निर्वाचनम्' इति प्रस्तावः समुत्थितः। तदा 

Wednesday, September 18, 2024

 केज्रिवालेन त्यागपत्रं समर्पितम्; अतिषी नूतनमुख्यमन्त्रिणी।

अतिषी मर्लेनसिंहः। 

नवदिल्ली> राष्ट्पराजधान्यां मुख्यमन्त्रिपदे अरविन्द केज्रिवालस्य अनुगामिरूपेण  ए ए पि नेत्री ४३ वयस्का अतिषी मार्लेनसिंहः ऐककण्ठ्येन चिता। 

  ह्यः मुख्यमन्त्रिपदं त्यक्तवान् केज्रिवालः लफ्ट. राज्यपालः वि के सक्सेनः इत्यस्मै त्यागपत्रं समर्पितवान्। नूतनसर्वकाररूपीकरणाय अतिषी राज्यपालं प्रति स्वाधिकारवादम् उन्नीतवती।

 लबनने सिरियायां च विचित्रं 'इलकट्रोणिक्स् स्फोटनं' - १७ मरणानि उपत्रिसहस्रं आहताः। 

बय्रूट्>  लबननदेशे सिरियादेशे च गतदिने दुरापन्ने विचित्रे 'इलकट्रोणिक्स् स्फोटने' १७ जनाः मृत्युमुपगताः। लबनने नव सिरियायां अष्ट च जनाः मृताः इति सूच्यते। उपत्रिसहस्रं जनाः आहताः। 

  हिस् बुल् नामक सायुधसंघप्रवर्तकानां 'पेजर्'नामकवृत्तान्तविनिमययन्त्राणि राष्ट्रे सर्वत्र  एकस्मिन्नेव काले विस्फोटितानि। कश्चन हिस् बुल्  नेता अपि स्फोटने मृत इति सूच्यते।

  हिस्बुल्लां विरुध्य तीव्रमाक्रमणं कारयिष्यतीति इस्रयेलस्य प्रख्यापानन्तरं होराणामाभ्यन्तरे एव स्फोटनं जातमिति इस्रयेलं प्रति सन्देहसूचिः दिश्यते।

Tuesday, September 17, 2024

निवृत्ति-आयुः वृद्धीकृतवान्


१९५०-संवत्सरानन्तरं प्रथमतया निवृत्ति-आयुः वृद्धीकृतवान् चीनदेशः। राष्ट्रे वृद्धानां संख्या वर्धते, तथैव निवृत्तिनिधेः न्यूनताम् अवधार्य अस्ति अयं निर्णयः। विगते शुक्रवासरे निवृत्ति-आयुवृद्धये अनुशंसायै स्वीकृतिः लब्धा। शारीरिकश्रमः अपेक्षितः यः नीलकम्बलधरः (blue collar) कार्यम् कुर्वन्तीनां तासां स्त्रीणां निवृत्ति-आयुः ५० तः ५५ वर्षः इति वर्धनं कृतं, तथैव श्वेतकम्बलधरः (white collar) कार्येषु स्त्रीणां निवृत्ति-आयुः ५५ तः ५८ वर्षः इति च वर्धनं कृतम्। पुरुषाणां निवृत्ति-आयुः ६० तः ६३ वर्षः इत्यपि वर्धनं कृतम्।

     लोके न्यूनतम-निवृत्ति-आयुक्तः देशः अस्ति चीनदेशः। २०२५ जनवरिमासस्य प्रथमदिनाङ्कतः एषः निर्णयः प्रवर्तिष्यते। आगामि १५ वर्षेभ्यः प्रतिमासं निवृत्ति-आयुः क्रमशः वर्धिष्यते। कर्मकराणां निवृत्ति-आयुः वर्षत्रयपर्यन्तं वृद्धीकर्तुम् अनुमतिः अस्ति। २०३० पर्यन्तं प्रशासनस्य कर्मकराणां सामाजिकसुरक्षायोजनायाम् अधिकं धनं दातव्यम् भविष्यति। तदा एव निवृतिवेतनं प्राप्स्यते। राष्ट्रे जननमानः न्यूनतां प्राप्य, मरण-आयुः ७८.२ वर्षाणि इति अपि वर्धितम् अस्ति।

 अरविन्द केज्रिवालः स्थानं त्यजति। अनुगामिनम् अद्य प्रख्यापयिष्यति।

अरविन्द केज्रिवालः ।

नवदिल्ली> तिहार् कारागारात् विमोचितः सन् दिल्लीं प्राप्तवान् दिल्लीमुख्यमन्त्री अरविन्द केज्रिवालः स्थानं त्यक्तुं सन्नद्धः अभवत्। रविवासरे 'आम् आद्मी पार्टी' [AAP] कार्यालये दलप्रवर्तकान् अभिसम्बोधयितुं कृते सम्मेलने आसीत्  केज्रिवालस्य पदत्यागप्रख्यापनम्। जनानां अग्निपरीक्षां विजित्य एव मुख्यमन्त्रिपदं पुनःकांक्षतीति सः उक्तवान्। 

  अद्य सायं राज्यपालं मिलित्वा त्यागपत्रं समर्पयिष्यति। अनुगामिनं निश्चितुं स्वदलसदस्यानां सम्मेलनमपि अद्य भविष्यति।

Monday, September 16, 2024

 केरले 'निपा' बाधा - युवकः मृतः।

  मलप्पुरं जनपदे जागरूकनिर्देशः। 

मलप्पुरं> केरलस्य मलप्पुरं जनपदे निपावैराणुबाधा दृढीकृता। निपाबाधया प्रदेशीयः एको युवकः मृतः। 

  युवकेन सह सम्पर्कमापतितानां दशानां स्रवादर्शाः सङ्कलिताः कोष़िक्कोट् स्रवपरिशोधनालयं प्रति प्रेषिताश्च। जनपदस्य ग्रामद्वये अतिजागरूकता प्रख्यापिता।

 कृतकबुद्धिः - मार्गनिर्देशान् सज्जीकर्तुं जि - २० राष्ट्राणि। 

सावो पोलो> कृतकबुद्धेः [ए ऐ] सुरक्षितोपयोगमालक्ष्य मार्गनिर्देशान् रूपीकर्तुं जि - २० अङ्गराष्ट्रैः निर्णयः कृतः। 

  'डिजिटल् आर्थिकव्यवस्थाम्' अनुबन्ध्य  ब्रसीले मसियो प्रदेशे सम्पन्ने दिनत्रयात्मकसचिवस्तरोपवेशने आसीदयं निर्णयः। ए ऐ मण्डले धार्मिकतां सुतार्यतां च दृढीकरणीयमिति उपवेशनेन आदिष्टम्। 

  अलीकवृत्तान्तानां प्रचारणं विरुध्य ऐकमत्येन प्रवर्तयितुं च मेलनेSस्मिन् निश्चयः जातः। डिजिटल क्षेत्रे धर्मसुतार्यतादीनां आवश्यकता प्रप्रथममेव जि २० राष्ट्रैः उन्नीता।

Sunday, September 15, 2024

 उत्तराखण्डे द्वितीयराजभाषया संस्कृतेन नामोल्लेखनाय सर्वकारीयकार्यालया: समादिष्टा:।

    हरिद्वारम्> संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा भवति इति उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी अवदत्। संस्कृतभारत्याः अखिलभारतीयगोष्ठ्याः उद्घाटनं कृत्वा सभयां भाषमाणः आसीत् सः।  अखिलभारतीयगोष्ठीम् सम्बोधयन् उत्तराखण्डपक्षतः गोष्ठ्या: सम्पूर्णभारतीयप्रतिनिधिनां स्वागतं कृतवान्। सः अवदत् यत् अद्यत्वेऽपि संस्कृतं केवलं व्यञ्जनं न अपितु संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा अस्ति, संस्कृतं सर्वभाषाणां जननी अस्ति। प्राचीनकालात् एव अद्यपर्यन्तं संस्कृतम् अस्माकं ज्ञानभाषा अस्ति। वैश्विकसन्दर्भस्य प्रमाणरूपेण सः अवदत् यत् अन्ताष्ट्रियस्तरस्य ग्रहनक्षत्राणां कालगणनायाः औषधानां च कृते संस्कृतग्रन्थाः प्रमाणरूपेण उद्धृताः भवन्ति। संस्कृतभाषायाः अक्षरोच्चारणस्य वैज्ञानिकतां व्याख्याय सः अवदत् यत् संस्कृतस्य शब्दोच्चारणे कोऽपि अक्षरः नष्टः न भवति, आङ्ग्लभाषायां तु नष्ट: भवति। अपि च उक्तं यत् संस्कृतं सम्पूर्णतया शुद्धा वैज्ञानिकभाषा अस्ति। 

 अवसरेस्मिन् स्वामीचिदानंदसरस्वतीमहाराज: अध्यक्ष:, परमार्थनिकेतन-आश्रम-ऋषिकेशत:, कार्यक्रमाध्यक्ष: प्रो.गोपबंधुमिश्र:(अखिलभारतीयाध्यक्ष: संस्कृतभारतीत:), विशिष्टातिथि: श्रीमती जानकी त्रिपाठी (प्रान्ताध्यक्षा संस्कृतभारती-उत्तराञ्चलत:) दिनेशकामत: संस्कृतभारती-अखिलभारतीय-संगठनमंत्री, प्रो. वाचस्पति: मिश्र:, डॉ. अंकितवर्मा आदय: उपस्थिता: आसन्।


 

Saturday, September 14, 2024

 श्रावणोत्सवकालव्ययः - १५०० कोटि रूप्यकाण्यपि केरलसर्वकारेण ऋणायन्ते। 

अनन्तपुरी> केरलसर्वकारः तद्देशीयोत्सवस्य श्रावणोत्सवस्य व्ययाय १५०० कोटि रूप्यकाण्यपि   ऋणरूपेण समाहर्तुं निश्चिनोति स्म। एतदर्थम् ऋणपत्राणां 'स्पार्धिकः द्रव्यविक्रयः' [Auction] रिसर्वबाङ्कस्य मुम्बई आस्थाने १७ तमे दिनाङ्के विधास्यते। 

 श्रावणोत्सवकालसम्बन्धीनि सविशेषद्रव्यानुकूल्यानि, पूर्वनिश्चितानां पूर्वसेवावेतनानि च दातुं १५०० कोटि रूप्यकाणि आवश्यकानीति राज्यवित्तविभागेन निगदितम्।

 परीक्षामूल्यनिर्णयः तमिलनाटे कृत्रिममेधया क्रियते!

चेन्नै> तमिलनाटस्य विश्वविद्यालयेषु समाधानकागदानां मूल्यनिर्णयाय निर्मितमेधासुविधाम् [AI] उपयोक्तुं निश्चितम्। समयनष्टनिवारणं, सूक्ष्मता इत्यादीनि लक्ष्यीकृत्य एव ए ऐ सुविधां प्रयोजकीकर्तुम् उच्चशैक्षिकविभागेन निर्णीतम्। 

  न केवलं मूल्यनिर्णयः अङ्काः, श्रेणीकरणमित्यादीनि अनुबन्धप्रवर्तनान्यपि अतिशीघ्रं विधातुं शक्यते। विवरणात्मकानि उत्तराण्यपि अनया सुविधया मूल्यनिर्णयं करिष्यति।

Friday, September 13, 2024

 सीताराम येचूरी दिवंगतः। 


मृतदेहः वैद्यकशिक्षणाय समर्प्यते। 

नवदिल्ली> भारतस्य वामपक्षीयराजनैतिकसंघस्य वरिष्ठः नेता तथा च सि पि ऐ [एम्] इति राजनैतिकदलस्य अखिलभारतसचिवप्रमुखः सीताराम येचूरिः ह्यः सायं त्रिवादने दिवंगतः। ७२ वयस्कः सः ज्वरबाधितः सन् दिल्याम एयिंस् आतुरालये परिचर्यायामासीत्। 

  शनिवासरे दिल्लीस्थे ए के जी भवने सामान्यदर्शनार्थं मृतदेहः स्थापयिष्यते। तदनन्तरं मृतदेहं येचूरिवर्यस्य तात्पर्यमनुसृत्य वैद्यकशिक्षणाय एयिंस् आतुरालयाय समर्पयिष्यति।

 केन्द्रसर्वकारेण सप्तति उपरिवयस्केभ्यः आरभ्य निश्शुल्कजीवनरक्षा सुविधायाः अनुमतिः प्रदत्ता।

   नवदिल्ली> राष्ट्रे सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेभ्यः प्रौढजनेभ्यः ' आयुष्मान् भारत् ' नाम राष्ट्रिय जीवनरक्षासुविधायां समावेशनाय अनुमतिः प्रदत्ता। सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेषां कृते निश्शुल्कं प्रतिपरिवारं पञ्चलक्षरूप्यकाणि जीवनरक्षारूपेण दातुं योग्यायाः सुविधायाः अनुमतिः एव प्रदत्ता। एषः प्रक्रमः आराष्ट्रं षट्कोटि प्रौढजनान्तर्गत ४.५ कोटि परिवाराणां प्रयोजनप्रदः भविष्यति।

Wednesday, September 11, 2024

 वैश्विकस्तरे संस्कृतं जनभाषां कर्तुं हरिद्वारे भविष्यति संस्कृतभारत्या: वैचारिक मन्थनम्।

वार्ताहर:- कुलदीपमैन्दोला। 

हरिद्वारम्> संस्कृतभारत्या: त्रिदिवसीया अखिलभारतीया संगोष्ठी हरिद्वारे भविष्यति।  सितम्बरमासस्य १४-१५-१६ दिनाङ्केषु श्रीव्यासमन्दिरे गीताकुटीरसमीपे हरिपुरकलाहरिद्वारे सम्पत्स्यते संगोष्ठी।  १९८१ वर्षत: अद्यावधिपर्यन्तं स्कृतभारत्याः प्रवर्तनं  निरन्तरं संजायते। संस्कृतभारत्या: ४३ वर्षत: निरन्तर-सम्भाषणान्दोलनेन कोटिश: जना: संस्कृतेन वदन्ति।

      विभिन्नराज्यतः सहस्रश: कार्यकर्तारः अखिलभारतीयसम्मेलने भागं स्वीकरिष्यति। देशप्रदेशयो: संस्कृतविद्वांस: मन्त्रिगणाश्च सम्मेलने प्रतिभागं करिष्यन्ति। संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः च बालकाः अपि संगोष्ठ्यां  सम्मिलिता: भविष्यन्ति।

 वियट्नामे प्रचण्डचक्रवातः ६० मरणानि; महान् विनाशः। 

हनोय्> यागि इति कृतनामधेयस्य प्रचण्डचक्रवातस्य दुष्प्रभावेण वियट्नामराष्ट्रे महान् विनाशः। जलोपप्लवे भूस्खलने च ५९ जनाः मृत्युमुपगताः। 

  फु धो प्रदेशे अयोनिर्मितसेतुः विभञ्ज्य १० कार् यानानि द्वे द्विचक्रिके च नदीं निपत्य १३ जनाः तिरोभूताः। अभूतपूर्वे चक्रवातदुष्प्रभावे कोटिशः मूल्यानां विनाशोSभवदिति सूच्यते।

 भारत - यू ए ई राष्ट्राभ्यां पञ्च सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

नवदिल्ली> ऊर्जक्षेत्रे सहयोगशक्तीकरणाय भारत - यू ए ई राष्ट्राभ्याम् आणवोर्जः, द्रवीकृतप्रकृतिवातकं, पेट्रोलियम् इत्यादिषु मण्डलेषु  चतुर्षु सम्मतिपत्रेषु भोज्योद्यानं स्थापयितुम् अन्यस्मिन् सम्मतिपत्रे च हस्ताक्षरं सम्पन्नम्। 

  अबुदाबि राष्ट्रस्य अधिकारी शैख् खालिद् बिन् मुहम्मद बिन् सायिद् अल् नह्यान् इत्येषः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च नवदिल्यां सम्पन्ने उपवेशनान्तरमासीत् सम्मतिपत्रेषु हस्ताक्षरीकरणम्।

Tuesday, September 10, 2024

धरातलं प्रति आगच्छन्तः अपोफिस् नामकः उल्कापिण्डः, परिस्थितिः भीतिदा अस्ति इति इसरो संस्थायाः अध्यक्षः।

 अपोफिस् इति महद्भयंकरः उल्कापिण्डः भारतीय-अन्तरिक्ष-अनुसन्धान-संस्था (इसरो) द्वारा निरन्तरम् निरीक्ष्यते। पृथिव्याः समीपं प्रति आगच्छन् एषः उल्कापिण्डः 2029 तमे वर्षे अप्रिलमासस्य त्रयोदशे दिने पृथिव्याः अत्यन्तं समीपतः गमिष्यतीति अपेक्ष्यते। www.samprativartah.in

  उपग्रह-सञ्चालनानि तथा ग्रहान्तर-पर्यवेक्षण-कार्यक्रमैः सह विदेश-अन्तरिक्ष-संस्थानैः सहकार्यं कुर्वन्तः 'ग्रहीय-रक्षा' इति क्षेत्रे अपि इसरो संस्थया सक्रियता अस्ति। पृथिवीं प्रति भीषणं ददतः  अन्तरिक्षवस्तूनां निरीक्षणं, तेषां प्रति सुरक्षा-प्रविधेः विकासश्च अस्य लक्ष्यमस्ति।

  मानवजातेः वास्तविकं भीषणं महद्भिः उल्कापिण्डैः सह सम्भाव्यम् संघट्टनं भवति इति इसरो संस्थायाः अध्यक्षः श्रीमान् एस्. सोमनाथः एन् डि टि विं प्रति   कथितवान्। अस्य भीषणस्य सम्बन्धतया सक्रियतया कार्यं कुर्वतः इसरो संस्थायाः 'अन्तरिक्षवस्तूनां निरीक्षण-विमर्श-कार्यक्रम' (नॆत्र) इति योजनया अपोफिस् इति उल्कापिण्डः सूक्ष्मतया निरीक्ष्यते। अस्माकं जीवनाय एकैव पृथिवी अस्ति। अपोफिस् इत्यस्य जनितं भीषणं च भविष्ये सम्भाव्यम् अपि भीषणं निवारयितुं भारतस्य सर्वेषु राष्ट्रेषु सहकार्यं भविष्यति इति श्रीमान् एस्. सोमनाथः उक्तवान्।

  अर्बुदरोगौषधस्य मूल्यं न्यूनं भविष्यति। 

स्वास्थ्य-जीवन योगक्षेमस्य अग्रशुल्कं  तथा पण्य-सेवा-करस्य अपकर्षणस्य विषये च निर्णयः पश्चात् भविष्यति।

  नवदिल्ली> स्वास्थ्य-जीवन योगक्षेमस्य (insurance) अग्रशुल्कं/प्रागर्पितशुल्कं (premium) तथा पण्य-सेवा-करस्य (जी.एस्.टी.) न्यूनीकरणस्य विषये च निर्णयः नवम्बरमासे सम्पत्स्यमाने जी.एस्.टी. परिषदि निर्णयं स्वीकरिष्यति इति केन्द्रधनमन्त्रिणी निर्मला सीतारामः उक्तवती। अस्य विमर्शनाय मन्त्रिस्तरीयसमितिं नियुक्तवती।  www.samprativartah.in

    अर्बुदरोगस्य औषधीनां करः प्रतिशतं द्वादशात्  प्रतिशतं पञ्च पर्यन्तम् इति निर्णयः कृतः। किञ्चित् लघुभक्ष्याणां जी.एस्.टी.

 मणिप्पुरे संघर्षः न शाम्यते।

केन्द्रसेनां प्रति आक्रमणम्। 

इम्फाल्> मिसैल्, ड्रोण् आक्रमणेषु प्रतिषिध्य, सुरक्षाकार्यकर्तृत्वे परिवर्तनमादिश्य च छात्रैः कृतमान्दोलनं आक्रमणजनकमभवत्। मणिप्पुरविधानसौधं राजभवनं प्रति च कृतं प्रतिषेधान्दोलनमेव अक्रमासक्तं जातम्। 

  विविधस्थानेषु सर्वकारीयकार्यालयान् विरुध्य च अक्रमभवत्। इम्फाल्, तौबिल्, काक् चिङ् जनपदेष्वेव मुख्यतया अक्रमासक्तप्रतिषेधं सम्पन्नम्। प्रतिषेधे अक्रमासक्ते जाते छात्र- सुरक्षासेनयोर्मध्ये प्रतिद्वन्द्वः अभवत्।

Monday, September 9, 2024

 'एम् पोक्स्' सन्देहः - एकः आतुरालयं प्रविष्टः। 

 नवदिल्ली> 'एम् पोक्स्' इति वानरज्वरेण सन्दिह्यमानः विदेशादागतः कश्चन पुरुषः ह्यः नवदिल्याम् आतुरालयं प्रविष्टः। रोगव्यापनं स्थिरीकृतात् देशादेव सः भारतं प्राप्तः। 

  रोगिणः अवस्था तृप्तिजनका इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्।

 पारलिम्पिक्स् कायिकमहोत्सवस्य परिसमाप्तिः।

भारतं सर्वकालश्रेष्ठप्रकटनेन  १८ तमे स्थाने।

पारीस्> अङ्गवैकल्ययुक्तानां कायिकमहोत्सवः पारलिम्पिक्स् नामकः पारीसे समाप्तः। १२ दिनानि दीर्घिते महोत्सवे भारताय १८ तमं स्थानम्! ७ सुवर्णानि, ९ रजतानि, १३ कांस्यानि - एवं २९ पतकानि भारतस्य कायिकतारैः प्राप्तानि। पारलिम्पिक्स् चरित्रे भारतस्य सर्वश्रेष्ठं प्रकटनमासीत् पारीसे दृष्टम्।

 मणिप्पुरे पुनरपि सङ्घर्षः 

भुषुण्डिप्रयोगे षट् मरणानि। 

इम्फाल् > मणिप्पुरे जरिबाम जनपदे शनिवासरे दुरापन्ने वंशीयसंघर्षे ६ जनाः मृताः। प्रथमं गृहे निद्रावन्तं  पुरुषं केचन आयुधधारिणः गृहमतिक्रम्य भुषुण्डिप्रयोगेण निहतवन्तः। तदनन्तरं जाते संघर्षे भुषुण्डिप्रयोगे च चत्वारः अक्रमिणश्च हताः। इम्फालतः २२९ कि मी दूरस्थे नुङचापि ग्रामे आपन्ने सङ्घर्षे एकः मृतः। 

  मेय्ति-कुक्कि विभागयोः मिथः संघर्षः सप्ताहं यावत् वर्धमानः अस्ति। अद्यावधि विविधैः संघर्षैः २०० अधिके जनाः मृताः, सहस्रं जनाः भवनरहिताश्च।

Sunday, September 8, 2024

 कार्गिल् युद्धे भागं कृतं - पाकिस्थानम्। 

इस्लामबादः> १९९९ तमे वर्षे सम्पन्ने कार्गिल् युद्धे पाकिस्थानसैन्येन भागं स्वीकृतम् इति अङ्गीकरोति पाकिस्थानीयः कश्चित्। पाकिस्थानस्य सेनाधिपः जनरल् असीम मुनीर् इत्यनेन तस्य राष्ट्रस्य रक्षादिनमनुबन्ध्य रावल् पिण्टि मध्ये सम्पन्ने कार्यक्रमे एषा वस्तुता अङ्गीकृता। राष्ट्ररक्षणाय विविधेषु संघर्षेषु जननां सहयोगेन पाक्सैन्येन कृताः पदक्षेपाः तेन सूचिताः।

Saturday, September 7, 2024

 उत्तरध्रुवस्थे भारतीयगवेषणकेन्द्रे भारतसंघस्य गवेषणम् आरब्धम्। 

हिमाद्रिकेन्द्रं तत्रस्थाः भारतीयगवेषकाः च। 

संघे त्रयः केरलीयाः। 

कोच्चि> आर्टिक्ध्रुवस्य नोर्वे राष्ट्रस्थे भारतस्य 'हिमाद्रि' नामके केन्द्रे भारतस्य पर्यवेक्षणपरियोजना आरब्धा। भारतसंघे आहत्य अष्ट अङ्गाः सन्ति। तेषु त्रयः केरलीयाः भवन्ति। 

  अमृत विश्वविद्यालयस्य डो  एस् एन् रम्या, चिन्मय विश्वविद्यापीठं विश्वविद्यालयस्य अनुपमा जिम्सः, जयिन् विश्वविद्यालयस्य डो फेलिक्स् एम् फिलिपः इत्येते केरलीयाः। उत्तरध्रुवात् १२०० कि मी दूरे स्थापिते हिमाद्रिकेन्द्रे भारतस्य अष्टाङ्गसंघः सेप्टम्बर् द्वितीयदिने प्राप्तवान्। एकमासं यावत् संघः पर्यवेषणं करिष्यति। 'ग्लेषियर्' नामकहिमानिषु 'पेर्माफ्रोस्ट्' इति हिमखण्डेषु च पर्यावरणस्य स्वाधीनता, आर्टिक् प्रदेशस्य जैववैविध्यं, तत्रस्थं सूक्ष्मजीविवृन्दम् इत्यादिविषयेषु अस्ति तेषां गवेषणम्। 

  २००८ तमे वर्षे आसीत् हिमाद्रिकेन्द्रस्य प्रारम्भः। नोर्वे राष्ट्रस्थे स्वाल् बार्ड् इत्यत्र न्यू अलेसन्ड् नामकद्वीपे इदं केन्द्रं वर्तते।

 जंगमदूरवाण्युपयोगः शिरोSर्बुदस्य कारणं न भवति। 

कण्णूर्> जङ्गमदूरवाण्याः उपयोगेन शिरसि मस्तिष्के च  अर्बुदः न जायते इति विश्वस्वास्थ्यसंघटनेन निर्दिष्टस्य अनुसन्धानस्य फलम्। दीर्घकाले दीर्घसमये च दूरवाण्युपयोक्तृषु दुर्घटसाध्यता न दृष्टा। १९९४ तमवर्षादारभ्य २०२२ तमवर्षपर्यन्तं विश्वस्य विविधस्थानेषु कृतानां ६३ अनुसन्धानानां आधारे एवेदमावेदनम्। 

  Australian Radiation Protection and Nuclear Safety इति संस्थायाः नेतृत्वे आसीदनुसन्धानम्। १० राष्ट्रेभ्यः ११ कुशलाः अनुसन्धानस्य विशकलनं कृत्वा एव ईदृशनिगमनं प्राप्तम्।

Friday, September 6, 2024

 भारतं - सिंहपुरम् 

चत्वारि  सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

सिंहपुरं>  प्रधानमन्त्रिणः नरेन्द्रमोदिनः सिंहपुरसन्दर्शनवेलायां भारत-सिंहपुरराष्ट्रयोर्मध्ये चतुर्षु सम्मतिपत्रेषु हस्ताक्षरं कृतम्। 'सेमी कण्डक्टर्', डिजिटल् सङ्केतविद्या, नैपुणीविकासः, स्वास्थ्यरक्षा इत्येतेषु मण्डलेषु परस्परसहयोगाय सम्मतिपत्राण्येव हस्ताक्षरीकृतानि।

Thursday, September 5, 2024

 केरले श्रावणोत्सवः - हस्तघोषयात्रा श्वः। 

कोच्ची> केरलराज्ये श्रावणोत्सवस्य शुभारम्भः श्वः  क्रियते। तस्य अंशतया कोच्चीराजनगर्यां  विधत्तमाना 'हस्तघोषयात्रा' शुक्रवासरे विधास्यते। 

  तृप्पूणितुरा नगरसभायाः नेतृत्वे आयोज्यमाना इयं घोषयात्रा तृप्पूणितुरायाः राजवीथिषु हरितव्यवहारव्यवस्थाः परिपाल्य एव प्रचलिष्यति। ५९ संख्याकानि कलारूपाणि भविष्यन्ति। 

  श्वः प्रभाते पूर्वेदपुर्यां सर्वकारीयबालकविद्यालयाङ्कणे केरलविधानसभाध्यक्षः ए एन् षंसीरः हस्तोत्सवस्य उद्घाटनं करिष्यति। नियममन्त्री पि राजीवः, लोकसभासदस्यः हैबि ईडनः , विधानसभासदस्यः के बाबुः इत्यादयः कार्यक्रमे भागं स्वीकरिष्यन्ति।

Wednesday, September 4, 2024

 रक्षाप्रवर्तनमध्ये दुर्घटना -

  तटरक्षासेनायाः उदग्रयानं विशीर्य चालकः मृतः। 

पोर्बन्तर्> गुजरातस्य पोर्बन्तर् समुद्रतटे तीररक्षासेनायाः उदग्रयानम् आपत्कालीनावतरणसमये विशीर्य आरबसमुद्रे पतित्वा यानचालकः मृतः। केरले मावेलिक्करा प्रदेशीयः विपिन बाबुः [३९] एव अकालमृत्युमुपगतः। तीररक्षणसेनायां 'सीनियर् डेप्यूटि कमाण्टन्ट्' पदीयः आसीत्। 

  सोमवासरे रात्रौ पोर्बन्तरतीरे दुर्घटनायामुपगतायाः हरिलीला इति  महानोकायाः आहतं नौकासेवकं रक्षितुमेव तटरक्षासेनायाः उदग्रयानं प्राप्तम्। अवतरणमध्ये समुद्रमापतितम्। गुजराते समीपकाले दुरापन्ने चक्रवाते कठिनवर्षायां च समुद्रे लग्नाः ७५ जनाः अनेनैव उदग्रयानेन रक्षिताः अभवन्।

 स्वीडने रक्षितॄः प्रति कर्कशनिर्देशः - शिशुभिः  दूरदर्शनं 'वीडियो' इत्यादीनि न दर्शयितव्यानि। 

स्टोक् होम्>  इदानींतनकाले दूरदर्शने समर्थचलदूरवाण्यां वा मनोरञ्जकानि चलनचित्राणि पश्यन्तः एव शिशवः बालकाश्च भोजनं कुर्वन्ति। तावता ते  'डिजिटल्' उपकरणानाम् अधीनाः अभवन्। 

  किन्तु स्वीडनराष्ट्रे तादृशावस्थायाः परिवर्तनं भविष्यति। न्यूनद्विवयस्कान्  शिशून्  येन केनापि कारणेन दूरदर्शनं वा चलदूरवाणीसदृशानि डिजिटल् दृश्यमाध्यमानि च न  दर्शयेयुः इति रक्षिजनाः सर्वकारेण कर्कशरीत्या आदिष्टाः। डिजिटलुपकरणानाम् अमितोपयोगः कौमारवयस्केषु शारीरिकास्वास्थ्येन सह विषादरोगसहितानां मानसिकरोगाणां कारणाय भवतीति तत्रस्थस्वास्थ्यमन्त्रालयेन निगदितम्।

  सोमवासरे बहिर्नीतमादेशमनुसृत्य २ -५ वयस्कानां शिशूनां कृते परमावधि एकहोरा डिजिटल दर्शनाय अङ्गीकृता अस्ति। ६ - १२ वयस्कानां कृते तत् एक-द्वि होरा भवति। १३ - १८ वयस्केभ्यः कुमारेभ्यः २ - ३ होराः डिजिटल दर्शनाय अनुमोदिताः सन्ति।

Tuesday, September 3, 2024

 आणवायुधयुद्धं कर्तुं न अर्हति, संयमं पालनीयम् इति चीनेन रष्यः स्मारितम्।

   युक्रेन् देशं प्रति आणवायुधयुद्धं कर्तुं न अर्हतीति रष्यां प्रति चीनदेशस्य सूचना। अमेरिकादीनि पश्चिमराष्ट्राणि युक्रेनदेशाय अधिकं साहाय्यं कुर्वन्ति इति स्थितौ, रष्यायाः आणवनयम् परिवर्तयिष्यते इति विदेशकार्यमन्त्री विगतदिने उक्तवान्। सन्दर्भेऽस्मिन् आणवयुद्धस्य स्थितिं गन्तुं न अर्हतीति चीनदेशस्य विदेशकार्य-मन्त्रालयस्य प्रवक्ता माओ निंगः बीजिंगस्थे वार्तासभायाम् अवदत्।

   अस्मान् विरुध्य शत्रवः प्रभूताः सन्ति इति उदीर्य रष्यायाः उप विदेशकार्यमन्त्री सर्जि रियाब्कोवः आणवनयेषु परिवर्तनं नूनं स्यात् इति उक्तवान्। राष्ट्रं प्रति क्वचित् आणवाक्रमणं वा राष्ट्रस्य अस्तित्वस्य कृते भीषा वा कथंचित् विशालम् आक्रमणं वा भवति चेत् आणवायुधं प्रयोक्तुं शक्यते इति रष्यायाः २०२० तमे वर्षे रचितः आणवनयः अस्ति। अस्मिन् नये परिवर्तनम् भविष्यति इति रशियायाः विदेशकार्यमन्त्रालयः संसूचयति।

 नीतिपीठानां 'परिवर्तनसंस्कृतिः' त्याज्या - राष्ट्रपतिः। 

शीघ्रनिर्णयोपवेशनानि अधिकतया आवश्यकानि। 

सर्वोच्चन्यायालयस्य नूतनध्वजः चिह्नश्च प्रकाशितौ।

कार्यक्रमे राष्ट्रपतिः अन्ये च। पश्चात्तले सर्वोच्चन्यायालयस्य नूतनध्वजः। 
 

नवदिल्ली> नीतेः शीघ्रलब्धये न्यायालयेषु सर्वसाधारणतया दृश्यमानः प्रकरणानां परिवर्तनेन विलम्बायमानः संस्कृतिः त्याज्या इति राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उक्तम्। भाण्डीकृतानां प्रकरणानां संख्यां न्यूनीकर्तुं सविशेषाणि 'लोक् अदालत्' नामकानि शीघ्रनिर्णयोपवेशनानि करणीयानीति च जनपदीय नीतिन्याय राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वती सा अवदत्। 

  प्रकराणानाम् अनन्ता परिवर्तनप्रक्रिया सामान्यजनेषु राष्ट्रस्य नीतिन्यायव्यवस्थां प्रति अवमतेः कारणं भविष्यति। ३२ वर्षाणां पूर्वं पञ्जीकृताः अभियाचिकाः अधुनापि निर्णयरहिताः वर्तन्ते। प्रबलाः अपराधिनः सर्वतन्त्रस्वतन्त्राः सन्तः समाजे व्यवह्रियन्ते इत्येतत् दुःखकरा अवस्था भवति। 

  सर्वोच्चन्यायालयस्य ७५ तमं वार्षिकं पुरस्कृत्य नूतनध्वजस्य चिह्नस्य च प्रकाशनं राष्ट्रपतिना निरूढम्।  दिल्ल्यां भारतमण्डपे सम्पन्ने कार्यक्रमे सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः डि वै चन्द्रचूडः, नियममन्त्री अर्जुन राम मेघवालः इत्यादयः भागं गृहीतवन्तः।

Monday, September 2, 2024

 मणिप्पुरे भुषुण्डिप्रयोगः - द्वौ हतौ; ९ व्रणिताः। 

इम्फाल्> मणिप्पुरराज्ये कस्यचन सायुध आक्रमणसंघस्य भुषुण्डिप्रयोगेण बोम्बाक्रमणेन च प्रदेशवासिनी अन्यश्च निहतौ। नव जनाः आहताः। पश्चिम इम्फाल जनपदे आसीदियं दुरापत्तिः। गिरिप्रदेशतः अधित्यकायां निवासिनां विरुध्य प्रकोपनं विना भुषुण्डिप्रयोगः कृत इति सुरक्षाधिकारिभिः निगदितम्।

Sunday, September 1, 2024

 महाराष्ट्रे नूतनमहानौकानिलयाय शिलान्यासः संवृत्तः। 

राष्ट्रविकासाय नवोर्जं प्रदास्यति - प्रधानमन्त्री। 

  मुम्बई> महाराष्ट्रस्य पाल्घरस्थे वाध्वाने नूतनतया निर्मायमाणाय महानौकापत्तनाय प्रधानमन्त्रिणा नरेन्द्रमोदिना शिलान्यासः कृतः। इदं महानौकापत्तनं राष्ट्रस्य विकासोत्पतनाय ऊर्जं प्रदास्यतीति प्रधानमन्त्रिणा उक्तम्। 

  २४,०० 'कण्टेनर्' शेषीयुक्तानां महानौकानां अत्र उपस्थातुं शक्यते। निर्माणपूर्तीकरणान्ते १० लक्षं कर्मावसराः प्रतीक्षन्ते। २०३० तमे वर्षे निर्माणं पूर्तीकरिष्यति। https://www.samprativartah.in

नारीविरुद्धप्रकरणेषु शीघ्रं न्यायसिद्धिः भविष्यतीति नरोद्रमोदी।

    नवदिल्ली> नरेन्द्रमोदी महोदयः नारीभ्यः विरुद्धतया कृतानाम् अपराधानां विषयं गम्भीरमिति निरूप्य, तेषु प्रकरणेषु शीघ्रं न्यायसिद्धिः भविष्यतीति कथितवान्।

   नारीणां सुरक्षायाः प्रकरणेषु भारतदेशे अनेके विधयः न्यायालयद्वारा समागताः सन्ति इति च तेन उक्तम्। २०१९ तमे वर्षे शीघ्रन्यायालयाः स्थापिताः, तथा च तेषु प्रकरणेषु द्रुतन्यायसिद्धिः आवश्यकी इत्यपि उक्तवान्। नारी-सुरक्षा-संबन्धितेषु विषयेषु शीघ्रं न्यायदानं भविष्यतीति च तेन उक्तम्। सर्वोच्च-न्यायालयस्य ७५ तमे वार्षिकोत्सवसमारोहे भाषमाणः आसीत् महोदयः।