गासायाम् आक्रमणपरम्परा - ४० मरणानि।
जरुसलेमः> गासाप्रदेशं प्रति इस्रयेलस्य आक्रमणे ११ तमे मासे प्रविष्टे गासायाः विविधक्षेत्रेषु इस्रयेलस्य आक्रमणं कठोरमभवत्। मध्यगासायाः अल् बुरैज्, अल् नुसैरा प्रदेशस्थेषु अभयार्थिशिबिरेषु गासानगरस्थे अभयकेन्द्ररूपेण वर्तमाने विद्यालयद्वये च विधत्तेषु आक्रमणेषु ४० जनाः मृत्युमुपगताः।
गासाप्रदेशे आक्रणेन आहत्य मृतानां संख्या ३९,६९९ अभवत्। गासायां सर्वत्र पाकभोजनवितरणं कुर्वन् कश्चन अमेरिकयीयः सन्नद्धप्रवर्तकः अपि मृत इति सूच्यते।