भारतप्रधानमन्त्री पोलण्टे।
वार्सा> द्विराष्ट्रसन्दर्शनस्य अंशतया भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः पोलण्टं प्राप्तवान्। राष्ट्रपतिः आन्द्रेय डूडा, प्रधानमन्त्री डोणाड् टस्कः इत्येताभ्यां सह उपवेशनं भविष्यति। ततः वार्सायां कस्मिंश्चित् सामान्यसम्मेलनम् अभिसम्बुद्धिष्यते।
अनन्तरं नरेन्द्रमोदी युक्रैन् प्रस्थास्यति। तत्रत्यं राष्ट्रपतिं व्लोदिमर् सेलन्सीम् अभिमुखीकृत्य चर्चां करिष्यति।