OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 26, 2024

 श्रीगरीबदासीयसाधुसंस्कृतमहाविद्यालये संस्कृतदिवसे शोभायात्रा सुसम्पन्ना।

वार्ताहर:-कुलदीपमैन्दोला।

हरिद्वारम्> रविवासरे संस्कृतसप्ताहस्य अवसरे आयोजितैः विविधैः संस्कृतकार्यक्रमैः संस्कृतशोभायात्रायै सह श्रीगरीबदासीय-साधुसंस्कृतमहाविद्यालयस्य संस्कृतदिवसः सम्पन्नः। सभागारस्य जगजीतपुरकङ्खलस्य हरिद्वारस्य सभागारे दीपप्रज्वलनेन वैदिकमन्त्रजपेन च सुन्दरः कार्यक्रमः आयोजितः।  कार्यक्रमस्य अध्यक्षः महाविद्यालयस्य प्राचार्यः डॉ. प्रेरणा गर्गः तथा कार्यक्रमस्य मुख्यातिथिः गंगासभासचिवः उज्ज्वलपंडितः भारतीयजनतापार्टी-दलोपाध्यक्षः तथा महाविद्यालयस्य शिक्षकाणां माध्यमेन कार्यक्रमस्य आरम्भः सञ्जात:।  सप्ताहे कार्यक्रमे संस्कृतविषये चर्चा, अनुभवकथनम्, संस्कृते गीतानि श्लोकान् च पाठयित्वा सम्भाषणं च छात्रैः कार्यान्वितम् कृतम्।  कार्यक्रमे मुख्यातिथिः उज्ज्वलपण्डितः 

संस्कृतेरेव संस्कृतम् अस्माकं धरोहर: विषयेस्मिन् बलं दत्तवान् तथा च संस्कृतस्य रक्षणाय, प्रचाराय च सम्पूर्णं जनमानसं सर्वात्मना, मनसा, धनेन च अग्रे आगन्तुम् आह्वानं कृतवान्।  अस्मिन् एव क्रमे आचार्य: केशवदत्तबलियानी इत्यनेन संस्कृतस्य माध्यमेन मञ्चस्य संचालनं कृतम्।  महाविद्यालयस्य सर्वे शिक्षकाः छात्राणां कृते आशीर्वादं दत्तवन्तः। डॉ. डंबरप्रसादपौडेल:, आचार्य: श्यामकांतचापागाई , मुकेशपाराशर:, रामनरेशशर्मा, दुर्गादत्तजोशी, प्रियदर्शिनी ओली शिवमजोशी नमनजोशी अनिल: दक्ष: ध्रुव: दीपकश्चादय:   कार्यक्रमे उपस्थिता: आसन्।