वयनाट् दुरन्तः - सहायहस्तेन मध्यप्रदेश-उत्तरप्रदेशसर्वकारौ।
भोपालं> केरले प्रकृतिदुरन्तसमाश्वासरूपेण मध्यप्रदेशसर्वकारः २० कोटिरूप्यकाणि साहाय्यं प्रख्यापितवान्। त्रिपुराय अपि साहाय्यं प्रख्यापितम्। मुख्यमन्त्री मोहनयादवः 'एक्स्' इत्यनेन सामाजिकमाध्यमेनैव प्रख्यपनमिदं कृतवान्।
वयनाटस्य पुनरधिवासप्रवर्तनाय उत्तरप्रदेशसर्वकारेणापि १० कोटिरूप्यकाणां धनसाह्यं प्रख्यापितम्। केरलराज्यपालःआरिफ् मुहम्मदखानः वृत्तान्तमिदं प्रस्तुतवान्।