भारतविदेशकार्यमन्त्री कुवैट् प्राप्तः।डो एस् जयशङ्करः
कुवैट् सिटी> भारतस्य विदेशकार्यमन्त्री डो एस् जयशङ्करः आधिकारिकसन्दर्शनार्थं कुवैट् राष्ट्रं प्राप्तवान्। कुवैटस्य विदेशकार्यमन्त्री अब्दुल्ला अलि अल् यहयः इत्यनेन सह उभयोः राष्ट्रयोर्मध्ये विद्यमानं पारस्परिकबन्धं दृढीकर्तुं चर्चां कृतवान्।