OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 25, 2024

 हिन्दी-संस्कृतभाषयो: संवर्धन-संरक्षणार्थम् अन्तर्विद्यालयीया प्रतियोगिता समनुष्ठिता।

वार्ताहरः - पुरुषोत्तमशर्मा -

  नौएड़ा उत्तर-प्रदेशः> एपीजे इंटरनेशनल विद्यालये मन्थनमिति अन्तर्विद्यालयीया प्रतियोगिता समायोजिता। 21.08.24 तमे  दिनाङ्के बुधवासरे हिन्दी-संस्कृतभाषयो: संवर्धन-संरक्षणार्थं जनमानसेषु मातृभाषाया:  हिन्दीभाषाया: च  प्रचार-प्रसारार्थं ग्रेटर नोएडा स्थिते एपीजे इंटरनेशनल स्कूल इति विद्यालये, मन्थनाख्या अन्तर्विद्यालयीया प्रतियोगिता  समनुष्ठिता। यस्यां प्रतियोगितायां नोएडा-ग्रेटरनोएडा- दिल्लीस्थानां विंशति-प्राय: विद्यालयानां द्वि-शत-मिता: छात्रा: प्रतिभागं कृतवन्त:। कार्यक्रमस्य शुभारम्भ: विद्यालयस्य प्रधानाचार्यया  डॉ. सरितापाण्डेमहोदयया मुख्यातिथिना प्रसिद्ध-कवयित्र्या, लेखिकया च  उमंग जौली सरीन इत्यनया, समवाप्तसाहित्याकादमी पुरस्कारेण विद्वद्भूषणेन डॉ. युवराजभट्टराई वर्येण च  साकं दीपप्रज्वालनं कृत्वा विहितः।  तदनु मङ्गलाचरणत्वेन  विद्यालयस्य छात्राभि:  संगीतमयी सरस्वतीवन्दना समाचरिता। अतिथि देवो भव इति प्राचीनां भारतीयां परम्परां परिपालयन् कार्यक्रमे समागताय अतिथि-द्वयाय उत्तरीयवस्त्रप्रदानेन  पादपप्रदानेन  पुस्तकार्पणेन च अतिथिसपर्या सम्पादिता। अनेन  साकमेव विद्यालये मन्थनाख्या अन्तर्विद्यालयीया:  प्रतियोगिता:  समारब्धा:। प्रतियोगिता प्रकल्पे नैका: स्पर्धा: समनुष्ठिता: आसन्। एता:  प्रतियोगिता:  तृतीयकक्षा-त: अष्टमीकक्षां यावत् अधीयानेभ्य: विद्यार्थिभ्य:  आयोजिता:  अभूवन्। एतासु प्रतियोगितासु स्पन्दन-शीर्षकेण हास्यकवितावाचनस्य प्रतियोगितायां  तृतीय-कक्षाया: छात्रा: रमणीयरीत्या कवितावाचनं  प्रस्तुवन्त:। यत्र क्रमशः  प्रथमस्थानम् एपीजे इंटरनेशनल स्कूल इति आयोजकविद्यालयस्य  एव  छात्र:  अर्शितमोहन:  अध्यगच्छत्, द्वितीये स्थाने  गौर इंटरनेशनल स्कूल  इति विद्यालयस्य छात्रा नविका तिवारी अवर्तत।  अथ च डी.पी.एस. नॉलेज पार्क इति विद्यालयस्य छात्रा अनायशा  तृतीयस्थानभाजनीभूता।


    अस्माकं संस्कृति:  अस्माकं  रिक्थम् इति विषयाधारितायां प्रतियोगितायां चतुर्थकक्षाया:  छात्रा: सहभागं विहितवन्त:। यत्र च प्रथमस्थाने फादर एग्नल स्कूल इति विद्यालयस्य छात्रा आरिया सचदेवा  द्वितीयस्थाने एपीजे इंटरनेशनल स्कूल इति विद्यालयस्य  एव छात्र: अंश:  तृतीये स्थाने च  पेसिफिक वर्ल्ड स्कूल इति विद्यालयस्य छात्रा मिहिका शेखर:   अवर्तन्त। पञ्चमकक्षायै प्रकृतिकल्पनाधारिता

"पंछी बोलते हैं"  इति पक्षिण: वदन्ति सस्वरं कविता वाचन प्रतियोगिता  समनुष्ठिता आसीत्। यत्र खलु डी.पी.एस. नॉलेज पार्क इति विद्यालयस्य छात्रा  गौरिकासिंह:  प्रथमं स्थानं  प्राप्तवती। अस्यामपि स्पर्धायां द्वितीयं स्थानं च जे पी पब्लिक स्कूल  इति विद्यालयस्य एव छात्र:  अधृत: जुनाकर: प्राप्नोत्। रामीश इंटरनेशनल स्कूल इति विद्यालयस्य छात्रा वैष्णवी शर्मा तृतीयं स्थानम्  अधिगतवती । षष्ठकक्षाया: कृते अनुष्ठितायां वीररसाश्रितायां  वीरभोग्या वसुन्धरा इत्याख्यायां प्रतियोगितायां  प्रथम-स्थानम् अद्विता मित्तलेन द्वितीयं स्थानम् आर्यशदीपसिन्हामुना   तृतीयं स्थानम् अथर्व वत्सेन च अधिगतम्। सप्तमकक्षाया: कृते भाषाकौशलसंवर्धनपरा आशुभाषण प्रतियोगिता प्रकल्पिता यत्र  प्रथमस्थाने गौरिका सिंह:  द्वितीयस्थाने दर्श: सक्सेना:,     तृतीयस्थाने च कसक:  तिवारी   क्रमशः  स्थानं प्राप्तवन्त:। अष्टमकक्षाया: कृते साहित्यस्य प्रसिद्ध-साहित्यकाराणां कवीनां च रचनासु आधारिता काव्यसंगोष्ठी प्रतियोगिता  संकल्पिता। यत्र क्रमशः प्रथमस्थाने  एकांक्ष: कंकानी   द्वितीयस्थाने सान्वी त्रिपाठी  तृतीये स्थाने च  इज़ान रहमान: अवर्तन्त।  अपरत्र च संस्कृत सप्ताहमुपलक्ष्य संस्कृतसंवर्धनसंरक्षणदृशा अपि प्रतियोगिताया: आयोजनं जातम्।  अस्यां प्रतियोगितायां 'कर्मणः गहन गतिः' इति विषयाधारित: संवाद: प्रत्येकमपि विद्यालयस्य  द्वाभ्यां छात्राभ्यां  श्रीमद्भगवद्गीतायां निहितविषयान् आश्रित्य श्रीकृष्णार्जुनयो:  भाषणरूपेण संस्कृते संवादं कृत्वा  प्रस्तवनीयम् आसीत्। अस्यां स्पर्धायां प्रथमस्थानम् एपीजे इंटरनेशनल स्कूल विद्यालयस्य अष्टमकक्षाया: छात्राभ्यां  ऐंजल किमोठी,  ईरा मिश्रा  चेत्येताभ्यां प्राप्तम्  द्वितीयं स्थानं   दिल्ली पब्लिक स्कूल  इति विद्यालयस्य   देविशी द्विवेदी प्रियांशीशर्मा चेत्युभाभ्याम् अधिगतम्। तृतीयं स्थानं प्रज्ञान स्कूल इति विद्यालयस्य आर्जव दीक्षितेन तन्मय बंसलेन च प्राप्तम्।  एतासु सर्वासु प्रतियोगितासु सर्वश्रेष्ठ प्रदर्शनं  कृत्वा सर्वाधिकान् अङ्कान् अधिगम्य दिल्ली पब्लिक स्कूल इति विद्यालयेन ट्राफीति स्मृतिचिह्नं  विजितम्।


    प्रतियोगिताया: समापनावसरे निर्णायक मंडलेन विद्यार्थिनाम्  उच्चतमप्रदर्शनस्य श्लाघ्या कृता सहैव ते संस्कृतहिन्दीभाषायो:  अध्ययानार्थम् संवर्धनार्थं च अभिप्रेरिता:। कार्यक्रमस्य समापने एपीजे इंटरनेशनल स्कूल, ग्रेटर नोएडा इति विद्यालयस्य  प्रधानाचार्या महोदया डॉ. सरिता पांडे वर्या  विविधविद्यालयेभ्य: आगतान् प्रतिभागिन: प्रेरकवचोभिः वर्धापितवती  तेषाम्  उज्ज्वल-भविष्यार्थं  च शुभकामना: अपि प्रदत्तवती।