OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 31, 2024

 केरलस्य कार्यदर्शिमुख्यः वि वेणुः अद्य निवर्तते।

डो वि वेणुः। 

शारदामुरलीधरः नूतनी सचिवमुख्या। 

अनन्तपुरी‌> केरलस्य मुख्यसचिवपदात् (Chief Secretary) डो वि वेणुः अद्य निवर्तते। निवर्तमानस्य सचिवमुख्यस्य सेवनाय मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे मन्त्रिमण्डलस्य कृतज्ञता प्रकाशिता। अनन्तरसचिवमुख्यरूपेण शारदामुरलीधरः ऐ ए एस् नियुज्यते। वि वेणोः धर्मपत्नी भवति शारदामुरलीधरः।

 'ऐ एन् एस् अरिघातः' राष्ट्राय समर्पितः।

ऐ एन् एस् अरिघातः। 

 
भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी'। 

विशाखपट्टणम्> भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी' 'ऐ एन् एस् अरिघातः' इति कृतनामधेयः रक्षामन्त्रिणा राजनाथसिंहेन राष्ट्राय समर्पितः। आणवप्रतिरोधमण्डले इयमन्तर्वाहिनी भारतस्य नूतनशक्तिः भविष्यति। 

   विशाखपट्टणे महानौकाशालायां निर्मिता इयं 'अरिहन्ता'गणीया द्वितीया अन्तर्वाहिनी भवति।

Friday, August 30, 2024

 रेल् यानानि आक्रमितुं भीकराणाम् आह्वानम्। 

गुप्तान्वेषणसंस्थाः जागरूकाः। 

नवदिल्ली> रेल् यानेषु आक्रमणं कर्तुं भीकरवादिना  फर्हतुल्ला घोरि नामकेन आदिश्यमानं वीडियोचित्रं दृष्ट्वा गुप्तान्वेषणसंस्थाः अतिजागरणे वर्तन्ते। पाकिस्थाने निलीय वसन् घोरी भारते गुप्तरीत्या प्रवर्तमानान् भीकरसंघान् आक्रमणं कर्तुं निर्दिशति। 

  बाष्पस्थालिकाः उपयुज्य रेल् यानेषु स्फोटनं कथं कर्तुं शक्यते इति वीडियोमध्ये विशदीकरोति। पूर्वं रामेश्वरं कफे इत्यस्मिन् विधत्तस्य स्फोटनस्य पृष्ठतः घोरी इति सूच्यते।

 राष्ट्रस्य बृहत्तमं आकाशीय विश्रान्तिभवनं कोच्चि विमानपत्तने। 

आकाशीय विश्रान्तिकेन्द्रस्य अन्तर्भागेषु अन्यतमः। 

रविवासरे मुख्यमन्त्रिणा उद्घाटनं ; यात्रिकाणां सन्दर्शकानां च प्रवेशः।

नेटुम्पाश्शेरी> भारतस्य बृहत्तमं आकाशीय विश्रान्तिभवनं [Aero Lounge] कोच्चि अन्ताराष्ट्रिय विमानपत्तने सज्जमस्ति। यात्रिकाणां कृते अल्पव्ययेन आगोलस्तरीयं विमाननिलयानुभवं साक्षात्कर्तुमुद्दिश्य एव 'सियालेन' एषा परियोजना आविष्कृता। '0484 Aero Lounge' इति कृतनामधेया इयं परियोजना रविवासरे केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटिष्यते। 

  अर्धलक्षं चतुरश्रपादमिते अस्मिन् भवनसमुच्चये ३७ प्रकोष्ठानि, ४ आडम्बरप्रकोष्ठानि, द्वौ सभामण्डपौ, ग्रन्थशाला, भोजनशाला, 'स्पा', व्यायामसुविधाप्रकोष्ठः इत्यादीनि वर्तन्ते।

Thursday, August 29, 2024

 'मुल्लप्पेरियार् प्रकरण'परिहाराय कुल्या पर्याप्ता इति ई श्रीधरः। 

कोष़िक्कोट्> केरलस्य 'मुल्लप्पेरियार् प्रकरणे' नूतननिर्देशेन दिल्ली मेट्रो रयिल् कोर्परेशनस्य भूतपूर्वः उपदेष्टा ई श्रीधरः। 

  तमिलनाटाय जलवितरणार्थं कुल्यानिर्माणमेव वरमिति ई श्रीधरः अवोचत्। वर्तमानसेतोः तमिलनाटं प्रति ४ कि मी परिमित कुल्यानिर्माणाय केवल ४०० कोटि रूप्यकाणां व्ययमेव भविष्यति। कुल्यानिर्माणाय एकसंवत्सरमेव पर्याप्तम्। किन्तु नूतनसेतुनिर्माणाय १५ वर्षाणि आवश्यकानि। यदि कुल्यानिर्माणम् अभविष्यत् तर्हि ५० संवत्सराणि यावत् नूतनसेतुमधिकृत्य चिन्तापि नावश्यकी।

  'पश्चिमघट्टसंरक्षणं मुल्लप्पेरियार् भीषायाः परिहारः च' इत्यस्मिन् विषये नाषणल् हिन्दुलीग् इत्यनेन संघटनेन आयोजितायां सङ्गोष्ठ्यां  भाषमाणः आसीत् ई श्रीधरः। १४२ पादपरिमितसम्भरणशेषीयुक्तस्य सेतोः अधस्तात् शतपादोन्नत्यां ६ मीटर् विस्तारे कुल्या निर्मातव्या। यदा सेतुजलं १०० पादोन्नतिं प्राप्नोति तदा कुल्याद्वारा प्रवह्य सम्मर्दं न्यूनीकृत्य भीषामपाकर्तुं शक्यते।

 दशलक्षं कर्मसौविध्यम् सृजते भारतेषु।

नवदिल्ली>  विकसितभारतम् इत्यस्मिन् लक्ष्ये लग्नेन भारतसर्वकारेण दशलक्षं जनेभ्यः कर्मसौविध्यम् सृजते। तदर्थं १२ यन्त्रशाला सुसौविध्य-नगराणि (smart city) संरचयन्ति।  केन्द्रसर्वकारस्य मन्त्रितलोपवेशने एव निर्णयोऽयं स्वीकृतः। परियोजनेयं परोक्षतया ३० लक्षं जनेभ्यः कर्मावसरः दास्यति।  विश्वस्य विविधेभ्यः प्रदेशेभ्यः यन्त्रशालाः  सृष्टिकर्मार्थं भारतं समागमिष्यन्ति। उत्तराखण्डस्य खुरप्रिया पञ्चाबस्य राजपुरपाट्याला महाराष्ट्रस्य दिग्गि उत्तरप्रदेशस्य आग्र प्रयागराज च बीहारस्य गय तेलुङ्गानायाः सहीराबागः आन्ध्रायाः ओर्वाक्कल् कोप्पार्ति च राजस्थानस्य जोधपुरपाली केरळस्य पालक्काट् च समर्थनगरस्य कृते चिताः प्रदेशाः भवन्ति। २८६०२ कोटि रूप्यकाणि एतस्याः परियोजनायाः कृते संरक्षिताः सन्ति।

 पालक्काटे 'स्मार्ट' व्यावसायिकनगर अन्तःपथाय केन्द्रसर्वकारस्य अनुज्ञा। 

नवदिल्ली> व्यवसायमण्डले केरलस्य उत्धावनाय पालक्काट् जनपदं केन्द्रीकृत्य व्यावसायिकसमुज्वलनगरान्तःपथं [Industrial smart city corridor] स्थापयितुं केन्द्रसर्वकारेण अनुज्ञा दत्ता। कोच्ची - बङ्गलुरु व्यवसायान्तःपथं प्रति सुप्रधानं पदक्षेपं भवत्येतन्नगरम्। अन्तःपथाय आवश्यकस्य स्थानस्य ८२% च राज्यसर्वकारेण २०२२ तमे वर्षे एव स्वायत्तीकृतमासीत्। 

   निर्दिष्ट सुसौविध्यनगराय १७१० एकर् परिमिता भूमिः ३८०६ कोटिरूप्यकाणि चावश्यकानि। अत्र भक्ष्यसंस्करणं, राष्ट्ररक्षा, औषधनिर्माणं, बहिराकाशं, यन्त्रोपकरणानि, जतु-पलास्तिकोत्पन्नानि इत्यादीनि निर्मास्यन्ते। 

    केन्द्रसर्वकारेण अङ्गीकृतेषु १२ सुसौविध्य नगरेषु अन्यतमं भवति पालक्काट् व्यवसायनगरम्।

Wednesday, August 28, 2024

 १७ संवत्सराभ्यन्तरेषु पाकिस्थानतः कोटि जनाः पलायिताः। 


   २०१८ संवत्सरानन्तरं कोटि संख्याकाः पाकिस्थानीय-नागरिकाः अन्यत्र कर्मोपलब्ध्यर्थं पाकिस्थानं विहाय पलायितवन्तः। २०१५ तमे आसीत् अधिनिवेशस्य आधिक्यम्। ९००००० जनाः कर्मलाभाय राष्ट्रान्तरं गतवन्तः। २०१३ तमे ८००००० जनाः स्वराष्ट्रं परित्यज्य गन्तुमद्युक्ताः।

 बलूचिस्थाने भीकराक्रमणं - ५१ जनाः हताः। 

कराची> पाकिस्थाने बलूचिस्थानखण्डस्य विविधस्थानेषु  शनि-रविवासरयोः विधत्तायां भीकराक्रमणपरम्परायां ५१ जनाः भुषुण्डिप्रयोगेण हताः। अनेके व्रणिताश्च। मृतेषु ६ सुरक्षासैनिकाः १२ भीकराश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'बलूचिस्थान् लिबरेषन् आर्मी [बी एल् ए]' इति बलूच् विघटनवादसंघटनेन स्वीकृतम्। बलूचिस्थानप्रदेशे वर्तमानानि आरक्षकनिस्थानानि, राष्ट्रियमार्गाः, रेल्यानमार्गाश्च आक्रमणाधीनानि जातानि। रविवासरे रात्रौ मुसाखलजनपदस्थे राजमार्गे बस् यानं प्रतिरुध्य आक्रमणकारिणः २३ यात्रिकाणां प्रत्यभिज्ञानपत्रं निरीक्ष्य २३ जनान् भुषुण्डिप्रयोगेण निहतवन्तः। वंशीयविद्वेष एव हत्यायाः कारणमिति आरक्षकैः मन्यते।

Tuesday, August 27, 2024

 लडाके पञ्च जनपदाः अपि प्रख्यापिताः। 

नवदिल्ली> नूतनतया रूपीकृते केन्द्रप्रशासनप्रदेशे लडाके नवीनाः पञ्च जनपदाः अपि केन्द्रसर्वकारेण प्रख्यापिताः।  सन्स्कार्, द्रास्, षाम्, नुब्रा, चाङ्ताङ् इत्येते सन्ति नूतनजनपदाः। नूतनाः जनपदाः श्रेष्ठप्रशासनाय समृद्धये च हेतुभूताः भविष्यन्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना गृहमन्त्रिणा अमित शाहेन चोक्तम्।

 वयनाट् दुरन्तः - सहायहस्तेन मध्यप्रदेश-उत्तरप्रदेशसर्वकारौ। 

भोपालं>  केरले प्रकृतिदुरन्तसमाश्वासरूपेण मध्यप्रदेशसर्वकारः २० कोटिरूप्यकाणि साहाय्यं प्रख्यापितवान्। त्रिपुराय अपि साहाय्यं प्रख्यापितम्। मुख्यमन्त्री मोहनयादवः 'एक्स्' इत्यनेन  सामाजिकमाध्यमेनैव प्रख्यपनमिदं कृतवान्। 

   वयनाटस्य पुनरधिवासप्रवर्तनाय उत्तरप्रदेशसर्वकारेणापि १० कोटिरूप्यकाणां धनसाह्यं प्रख्यापितम्। केरलराज्यपालःआरिफ् मुहम्मदखानः वृत्तान्तमिदं प्रस्तुतवान्।

Monday, August 26, 2024

 ग्रामग्रामान्तरेषु जन्माष्टमी महोत्सवः।

  आलुवा> आभारतम् अद्य श्रीकृष्ण-जन्माष्टमी-महोत्सवः सम्पन्नः। केरळेषु ग्रामग्रामान्तरेषु अपि शोभायात्रा सम्पना। श्रीकृष्ण-गोपिकादीनां वेषान् धृत्वा बालक-बालिकाः शोभायात्रायां भागं स्वीकृतवन्तः। 

 बालगोकुलम् इति प्रसिद्धस्य बालानां सांस्कृतिकदलस्य नेतृत्वे असीत् शोभायात्रायाः परिक्रमः। स्त्रीपुरुषाः वृद्धजनाः च भक्त्यादरपुरःसरम् उत्सवेऽस्मिन् भागं कुर्वन्तः सन्ति। अस्मिन् दिने अयोध्या मथुरा आदि देवालयेषु अपि विशेषता अस्ति।




 श्रीगरीबदासीयसाधुसंस्कृतमहाविद्यालये संस्कृतदिवसे शोभायात्रा सुसम्पन्ना।

वार्ताहर:-कुलदीपमैन्दोला।

हरिद्वारम्> रविवासरे संस्कृतसप्ताहस्य अवसरे आयोजितैः विविधैः संस्कृतकार्यक्रमैः संस्कृतशोभायात्रायै सह श्रीगरीबदासीय-साधुसंस्कृतमहाविद्यालयस्य संस्कृतदिवसः सम्पन्नः। सभागारस्य जगजीतपुरकङ्खलस्य हरिद्वारस्य सभागारे दीपप्रज्वलनेन वैदिकमन्त्रजपेन च सुन्दरः कार्यक्रमः आयोजितः।  कार्यक्रमस्य अध्यक्षः महाविद्यालयस्य प्राचार्यः डॉ. प्रेरणा गर्गः तथा कार्यक्रमस्य मुख्यातिथिः गंगासभासचिवः उज्ज्वलपंडितः भारतीयजनतापार्टी-दलोपाध्यक्षः तथा महाविद्यालयस्य शिक्षकाणां माध्यमेन कार्यक्रमस्य आरम्भः सञ्जात:।  सप्ताहे कार्यक्रमे संस्कृतविषये चर्चा, अनुभवकथनम्, संस्कृते गीतानि श्लोकान् च पाठयित्वा सम्भाषणं च छात्रैः कार्यान्वितम् कृतम्।  कार्यक्रमे मुख्यातिथिः उज्ज्वलपण्डितः 

 बङ्गलादेशे प्रलयः - त्रिलक्षं जनाः समाश्वासशिबिरेषु।

धाक्का>  बङ्गलादेशे सप्ताहं यावदनुवर्तमाने वृष्टिपाते प्रलये च दुरितमनुभूयमानाः त्रिलक्षं जनाः समाश्वासशिबिरेषु वर्तन्ते। नैके प्रदेशाः पृथक्भूताः अभवन्। 

  सीमाराज्ये त्रिपुरे तु शक्ता वर्षा अनुभूयते। तत्र ६५,००० जनाः समाश्वासशिबिराणि प्रविष्टाः।

 'टेलिग्राम्' स्थापकः दुरोव् निगृहीतः। 

पारीस्> सन्देशप्रेषणोपायः टेलिग्राम् इत्यस्य सहस्थापकः   सि ई ओ पदीयः पावेल् दुरोवः फ्रान्स् राष्ट्रे निगृहीतः। टेलिग्रामसङ्केतं दण्डीयापराधकृत्येषु उपयुज्यन्ते इत्यस्मिन् प्रकरणे पराजितः इत्यारोप्य एवायं प्रक्रमः।

Sunday, August 25, 2024

 एकीकृतनिवृत्तिवेतनाभियोजनया केन्द्रसर्वकारः। 

नवदिल्ली> केन्द्रसर्वकारसेवकानां निवृत्तिवेतनपरिकल्पने परिष्करणं विधाय केन्द्रसर्वकारः। २०२४ तमे वर्षे विधत्तायाः एन् पि एस् इति परिकल्पनायाः स्थाने 'यू पि एस्' नामिका नूतनाभियोजना सर्वकारेण अङ्गीकृता। 

   नूतनाभियोजनानुसारं   केन्द्रसर्वकारसेवकानां कृते  तेषाम् आधारवेतनस्य अर्धांशं   निवृत्तिवेतनरूपेण लप्स्यते। २०२५एप्रिल् प्रथमदिनाङ्के अभियोजनेयं प्रवृत्तिपथमागमिष्यति।

 गुजरातस्य 'मधापर'ग्रामः एष्याभूखण्डे सम्पन्नः ग्रामः। 

भुज्> एष्याभूखण्डस्य नितरां सम्पन्नः ग्राम इति ख्यातिं  गुजरातराज्यस्थे कच् जनपदे मधपरग्रामः प्राप।  तत्रत्यैः १२०० अधिकैः प्रवासिपरिवारैरेव अयमुपलब्धिः प्राप्तः। तेषां  वासकर्मादीनि  , न्यूसिलान्टः, अमेरिका, आस्ट्रेलिया इत्यादिषु देशेषु वर्तन्ते तथापि तेषां सम्पन्नक्षेपेण सम्पन्नो भवत्ययं ग्रामः। 

  ७००० कोटि रूप्यकाणां स्थिरनिक्षेपः ग्रामवासिनामस्तीति गण्यते। १५ सामान्य-निजीयवित्तकोशाः ग्रामेSस्मिन् विद्यन्ते। ग्रामस्य जनसंख्या ३२००० अस्ति। भवनानि तु २०,०००। अनेके ग्रामीणाः विदेशेषु कर्म कुर्वन्तः अपि ते सर्वे ग्रामस्य अभिवृद्धये अधिकधनराशिः ग्रामाय व्ययीकुर्वन्ति इति भूतपूर्वः जनपदाध्यक्षः परुल् बन् कारः इत्यनेनोक्तम्।

 वृष्टिदुष्प्रभावः - त्रिपुराय ४० कोटि रूप्यकाणि अनुमोदितानि। 

नवदिल्ली> त्रिपुरराज्ये गतदिनेषु जातेषु वृष्टिदुष्प्रभावेषु २२ जनाः मृत्युमुपगताः। १७ लक्षं जनाः प्रलयबाधिताः अभवन्। समाश्वासरूपेण केन्द्रसर्वकारेण ४० कोटि रूप्यकाणि अनुमोदितानि इति गृहमन्त्रिणा अमित शाहेन निगदितम्। 

  दुरन्तबाधितानां साह्याय रक्षाप्रवर्तनाय च राज्यसर्वकारेण सहकर्तुं ११ एन् डि आर् एफ् संघाः वायुसेनायाः ४ उदग्रयानानि च अनुमोदितानीति च रक्षामन्त्रिणा 'एक्स्' समाजिकमाध्यमेन सूचितम्।

 हिन्दी-संस्कृतभाषयो: संवर्धन-संरक्षणार्थम् अन्तर्विद्यालयीया प्रतियोगिता समनुष्ठिता।

वार्ताहरः - पुरुषोत्तमशर्मा -

  नौएड़ा उत्तर-प्रदेशः> एपीजे इंटरनेशनल विद्यालये मन्थनमिति अन्तर्विद्यालयीया प्रतियोगिता समायोजिता। 21.08.24 तमे  दिनाङ्के बुधवासरे हिन्दी-संस्कृतभाषयो: संवर्धन-संरक्षणार्थं जनमानसेषु मातृभाषाया:  हिन्दीभाषाया: च  प्रचार-प्रसारार्थं ग्रेटर नोएडा स्थिते एपीजे इंटरनेशनल स्कूल इति विद्यालये, मन्थनाख्या अन्तर्विद्यालयीया प्रतियोगिता  समनुष्ठिता। यस्यां प्रतियोगितायां नोएडा-ग्रेटरनोएडा- दिल्लीस्थानां विंशति-प्राय: विद्यालयानां द्वि-शत-मिता: छात्रा: प्रतिभागं कृतवन्त:। कार्यक्रमस्य शुभारम्भ: विद्यालयस्य प्रधानाचार्यया  डॉ. सरितापाण्डेमहोदयया मुख्यातिथिना प्रसिद्ध-कवयित्र्या, लेखिकया च  उमंग जौली सरीन इत्यनया, समवाप्तसाहित्याकादमी पुरस्कारेण विद्वद्भूषणेन डॉ. युवराजभट्टराई वर्येण च  साकं दीपप्रज्वालनं कृत्वा विहितः।  तदनु मङ्गलाचरणत्वेन  विद्यालयस्य छात्राभि:  संगीतमयी सरस्वतीवन्दना समाचरिता। अतिथि देवो भव इति प्राचीनां भारतीयां परम्परां परिपालयन् कार्यक्रमे समागताय अतिथि-द्वयाय उत्तरीयवस्त्रप्रदानेन  पादपप्रदानेन  पुस्तकार्पणेन च अतिथिसपर्या सम्पादिता। अनेन  साकमेव विद्यालये मन्थनाख्या अन्तर्विद्यालयीया:  प्रतियोगिता:  समारब्धा:। प्रतियोगिता प्रकल्पे नैका: स्पर्धा: समनुष्ठिता: आसन्। एता:  प्रतियोगिता:  तृतीयकक्षा-त: अष्टमीकक्षां यावत् अधीयानेभ्य: विद्यार्थिभ्य:  आयोजिता:  अभूवन्। एतासु प्रतियोगितासु स्पन्दन-शीर्षकेण हास्यकवितावाचनस्य प्रतियोगितायां  तृतीय-कक्षाया: छात्रा: रमणीयरीत्या कवितावाचनं  प्रस्तुवन्त:। यत्र क्रमशः  प्रथमस्थानम् एपीजे इंटरनेशनल स्कूल इति आयोजकविद्यालयस्य  एव  छात्र:  अर्शितमोहन:  अध्यगच्छत्, द्वितीये स्थाने  गौर इंटरनेशनल स्कूल  इति विद्यालयस्य छात्रा नविका तिवारी अवर्तत।  अथ च डी.पी.एस. नॉलेज पार्क इति विद्यालयस्य छात्रा अनायशा  तृतीयस्थानभाजनीभूता।


    अस्माकं संस्कृति:  अस्माकं  रिक्थम् इति विषयाधारितायां प्रतियोगितायां चतुर्थकक्षाया:  छात्रा: सहभागं विहितवन्त:। यत्र च प्रथमस्थाने फादर एग्नल स्कूल इति विद्यालयस्य छात्रा आरिया सचदेवा  द्वितीयस्थाने एपीजे इंटरनेशनल स्कूल इति विद्यालयस्य  एव छात्र: अंश:  तृतीये स्थाने च  पेसिफिक वर्ल्ड स्कूल इति विद्यालयस्य छात्रा मिहिका शेखर:   अवर्तन्त। पञ्चमकक्षायै प्रकृतिकल्पनाधारिता

Saturday, August 24, 2024

 नेपाले बस् यानं नदीं पतित्वा २७ भारतीयाः मृत्युमुपगताः। 

काठ्मण्डुः> महाराष्ट्रात् दशदिनात्मकाय तीर्थाटनाय नेपालदेशं प्राप्तवत्सु ४३ यात्रिकेषु २७ जनाः मृताः। तैः सञ्चरितं बस् यानं नेपालस्थां  मर्स्याङ् नदीं पतित्वा एवेयं दुर्घटना। १६ जनाः आहताः। 

   काठ्मण्डुतः १२० कि मी दूरे तनाहुन जनपदे ऐना पहारा नामकस्थाने शुक्रवासरे प्रभाते ११. ३० वादने आसीदियं दुर्घटना। महाराष्ट्रस्थात् भूसालग्रामात् नेपालं प्रति विनोदयात्रार्थं प्रस्थितेषु त्रिषु बस् यानेषु अन्यतमं यानं राष्ट्रियमार्गात् १५० पादपरिमितम् अधः अतिशीघ्रेण  प्रवहन्तीं नदीं पतितमासीत्।

 मोदिने युक्रैने उज्वलं स्वीकरणम्।

नरेन्द्रमोदी सेलन्स्की च अभिमुखभाषणे। 

 

कीव्> शान्तिसन्देशेन सह युक्रैनं प्राप्तवते भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने प्रेमनिर्भरं स्वीकरणं विहितवान् तत्रत्यः राष्ट्रपतिः व्लोदिमर् सेलन्स्की। 

  पोलण्टतः रेल् यानमार्गेण दश होराः अटनं कृत्वा कीव् नगरं प्राप्तवन्तं मोदिनं व्लोदिमर् सेलन्स्की आलिङ्गनं कृत्वा स्वीकृतवान्। तदनन्तरं होरात्रयाधिकं यावत् मरिन्स्की राजभवने तौ मेलनं कृत्वा युक्रैन-रष्या युद्धमधिकृत्य स्वाभिमतानि प्रकाशितवन्तौ। युक्रैन-रष्ययोः संघर्षं समापयितुं क्रियमाणेषु आगोलपरिश्रमेषु सुप्रधाननयतन्त्रशक्तिरूपेण वर्तितुं भारतेन शक्यते इति सेलन्स्की अवदत्। राष्ट्रे शान्तिसंस्थापनाय भारतस्य सम्पूर्णं सहकारित्वं स्यादिति मोदिना स्पष्टीकृतम्।

Friday, August 23, 2024

 त्रिपुरे जलोपप्लवः मृत्स्खलनं च - १० मरणानि। 

अगर्तला> त्रिपुरराज्ये प्रचण्डवृष्टिकारणात् दुरापन्ने जलोपप्लवे मृत्स्खलने च दश जनाः मृताः। एकः अप्रत्यक्षः अभवत्। 

  राज्ये रविवासरतः तीव्रा वृष्टिरनुवर्तते। ३३० समाश्वासशिबिराणि आरब्धानि। ३२,७५० जनाः शिबिरेषु वर्तन्ते। मुख्यनदीषु जलवितानं उच्चतरं वर्तते। राज्यस्य राष्ट्रस्य च दुरन्तनिवारणसेनाः असम 'रैफिल्स्' इत्यादीनां नेतृत्वे रक्षाप्रवर्तानि प्रचलन्ति।

Thursday, August 22, 2024

 भारतप्रधानमन्त्री पोलण्टे। 

वार्सा> द्विराष्ट्रसन्दर्शनस्य अंशतया भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः पोलण्टं प्राप्तवान्। राष्ट्रपतिः आन्द्रेय डूडा,  प्रधानमन्त्री डोणाड् टस्कः इत्येताभ्यां सह उपवेशनं भविष्यति। ततः वार्सायां कस्मिंश्चित् सामान्यसम्मेलनम् अभिसम्बुद्धिष्यते। 

  अनन्तरं नरेन्द्रमोदी युक्रैन् प्रस्थास्यति। तत्रत्यं राष्ट्रपतिं व्लोदिमर् सेलन्सीम् अभिमुखीकृत्य चर्चां करिष्यति।

 आयुर्वेदे सहकाराय भारत - मलेष्या सम्मतिः। 

नवदिल्ली> आयुर्वेदः पारम्पर्यचिकित्सा इत्यादिषु भिन्नक्षेत्रेषु परस्परसहकाराय भारत-मलेष्यराष्ट्रयोर्मध्ये सप्त सम्मतिपत्राणि  हस्ताक्षरीकृतानि। मलेष्यायाः विश्वविद्यालयेषु आयुर्वेदपीठं, तिरुवल्लुवर् पीठं च स्थापयिष्यति। 

  भारतसन्दर्शनाय प्राप्तः मलेष्यायाः प्रधानमन्त्री अन्वर इब्राहिमः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्येतयोः नेतृत्वे सम्पन्ने उभयपक्षचर्चायामेव ऐकमत्यप्राप्तिः।

Wednesday, August 21, 2024

 चन्द्रयानस्य पुनर्नियोगानां रूपकल्पना सम्पन्ना।

नवदिल्ली> चन्द्रयानं - ४, ५ नियोगानां प्रवर्तनरूपकल्पनाः पूर्तीकृत्य सर्वकारस्य अनुज्ञायै समर्पितमिति ऐ एस् आर् ओ संस्थायाः अध्यक्षः  एस् सोमनाथः न्यगादीत्। चन्द्रोपरितलं प्रति मन्दावतरणानन्तरं तत्रस्थानां मृच्छिलानां भूमिम् आनयनं, चान्द्रभ्रमणपथे एव बहिराकाशे संस्थापनपरीक्षणम् इत्यादयः एव चन्द्रयान चतुर्थस्य नियोगाः वर्तन्ते। 

  पञ्च संवत्सराभ्यन्तरे ७० उपग्रहाणां विक्षेपणं भविष्यतीति एस् सोमनाथः अवदत्। चन्द्रयान तृतीयस्य प्रवर्तनं समाप्तमिति तेनोक्तम्।

 जम्मू-कश्मीरस्य विशेषराज्यस्य पदवीनिष्कासनानन्तरं प्रथमतः विधानसभा- निर्वाचनं भविष्यति।

   जम्मू-कश्मीरस्य विशेषपदवी निष्कासनानन्तरं प्रथमतः केन्द्र-शासित-प्रदेशे विधानसभा-निर्वाचनम् आयोज्यते। एतत् विधानसभा-निर्वाचनं किञ्चित् दशाब्दानन्तरं भविष्यति। 2019 तमे वर्षे केन्द्र-सर्वकारेण विशेषस्थानस्थगने समये एव जम्मुकाश्मीरं पृथक् पृथक् केन्द्रशासितप्रदेशत्वेन द्विधा विभक्तम् आसीत्। अधुना विभक्तांशः लडाक् प्रान्तः एकः केन्द्रशासितप्रदेशः भवति। जम्मू-कश्मीरस्य एतत् विधानसभा-निर्वाचनं त्रिषु चरणेषु भविष्यति। जम्मू-कश्मीरस्य गतद्विसप्तत्यधिकवर्षाणां मध्ये एषः निर्वाचनः अत्यल्पसमये आयोज्यते

www.samprativartah.in

 नवदिल्ल्यां विस्फोटकभीषा। महाविक्रयशालाः बन्धिताः।

   नवदिल्ली> दिल्लीनगरे वर्तमानासु महाविक्रयशालासु विस्फोटकभीषा दुरापन्ना। चाणक्यमाल्, सेलक्ट्, अम्बियन्स् माल्, सि एल् एफ्, सिनि पोलीस्, पसफिक्माल्, प्रेमस् होस्पिट्टल्, यूणिट्टि ग्रुप् इति स्थानेषु कतिपयहोरानन्तरं महाविस्फोटः भविष्यति इति सन्देशः एव लब्धः। तदा महाविक्रयशालायाः अधिकारिणः विना विलम्बम् आरक्षकेभ्यः साहाय्यं प्रार्थितवन्तः। आरक्षकाः अग्निशमनसेना च समागत्य अन्वेषणम् अकुर्वन्। किन्तु विस्फोटकसंबद्धः कोऽपि अंशः न लब्धः। अणुप्रैष (Email) द्वारा लब्धः भीषासन्देशः कुतः प्रेषितः इति ज्ञातुम् अन्वेषणम् आरब्धम्। www.samprativartah.in

Tuesday, August 20, 2024

 अद्य श्रीनारायणगुरोः १६९ तमं जन्मदिनम् आकेरलमाघुष्यते। 

श्रीनारायणगुरुदेवः। 

कोच्चि> केरलात् विश्वप्रसिद्धिम् आर्जितः ज्ञानयोगी, अद्वैतवेदान्ती, समाजपरिष्कर्ता संस्कृतपण्डितः इत्येवं रीत्या  भारतस्य आध्यात्मिक सामाजिकनभोमण्डले विराजमानस्य श्री नारायणगुरुदेवस्य १६९ तमं जन्मदिनम् अद्य आकेरलम् विविधैः कार्यक्रमैः आघुष्यते। 

  अद्वैतवेदान्तप्रतिष्ठापकस्य श्री शङ्कराचार्यस्य पादक्षेपान् अनुगतः श्री नारायणगुरुः तत्काले केरलसमाजे वर्तमानाम् उच्चनीचव्यवस्थां जातिपराम् अस्पृश्यताम् अन्यान् दुराचारान् च उच्चाटयितुं स्वजीवितेन उपसप्ततिसंख्याकैः कृतिभिश्च प्रयतितवान्।

  कोल्लसंवत्सरीये १०३२ तमे वर्षे सिंहमासस्य शतभिषक् नक्षत्रे [क्रि प १८५६ आगस्ट् २०] तिरुवनन्तपुरं जनपदस्थे चेम्पष़न्तिग्रामे आसीत् तस्य जन्म। बाल्ये एव संस्कृतशिक्षणेन भारतसंस्कृतिं विशिष्य वेदान्तदर्शनं  करगतामलकमिव सम्पाद्य   अयं यदा युवकः अभवत् ततः आरभ्य समाजस्य उद्धारणाय आकेरलं सञ्चरन् प्रयतितवान्। "एका जातिः एको धर्मः एको देवः मनुष्यस्य", " यः कोSपि धर्मः, मनुजक्षेम एव वरम्", "भिन्नधर्माणां सार एक एव" इत्यादिभिः सन्देशैः अद्वैतवेदान्तस्य प्रायोगिकप्रवक्ता अभवत्।

 भारतविदेशकार्यमन्त्री कुवैट् प्राप्तः।

डो एस् जयशङ्करः

 

कुवैट् सिटी> भारतस्य विदेशकार्यमन्त्री डो  एस् जयशङ्करः आधिकारिकसन्दर्शनार्थं कुवैट् राष्ट्रं प्राप्तवान्। कुवैटस्य विदेशकार्यमन्त्री अब्दुल्ला अलि अल् यहयः इत्यनेन सह उभयोः राष्ट्रयोर्मध्ये विद्यमानं पारस्परिकबन्धं दृढीकर्तुं चर्चां कृतवान्।

 कोल्कोत्तायां वैद्यायाः बलात्कारहत्या - आराष्ट्रं प्रतिषेधः ; स्वयमेव प्रकरणं स्वीकुर्वन् सर्वोच्चनीतिपीठः।

नवदिल्ली> पश्चिमवंगस्य  कोल्कोत्तायां आर् जि कर् आतुरालये युवकवैद्यां बलात्कारं कृत्वा अमारयत् इत्यस्मिन् प्रकरणे आभारतं प्रतिषेधान्दोलनं प्रचलति। गतदिने कोल्कोत्तायां 'साल्ट् लेक्' क्रीडाङ्कणे मोहन बगान - ईस्ट् बङ्गाल् पादकन्दुकक्रीडासमित्याः आराधकवृन्दं समेत्य प्रतिषेधान्दोलनं अकरोत्। 

  सर्वेषु राज्येषु वैद्याः कर्मनिरासं उद्घोष्य विविधदिनेषु प्रतिषेधान्दोलने भागं कृतवन्तः। दिल्यामपि वैद्यकछात्रैः आन्दोलनं विधत्तम्। 

www.samprativartah.in

    प्रत्युत, सर्वोच्चन्यायालयेन प्रकरणेSस्मिन् स्वमेधया प्रकरणं पञ्जीकृतम्। मुख्यन्यायाधिपः न्याय. डि वै चन्द्रचूडः आध्यक्षम् ऊढमानेन त्र्यङ्गनीतिपीठेन  प्रकरणमद्य परिगण्यते।

Monday, August 19, 2024

 अद्य विश्वसंस्कृतदिनम्। 

आविश्वं संस्कृतप्रचरण-पोषणकार्यक्रमाः समारभन्ते। 

सान्स्ग्रीट् द्वारा लब्धं चित्रम्

 कोच्ची> विश्वस्मिन् सर्वत्र अद्य संस्कृतदिनं समुचितरीत्या आघुष्यते। विद्यालयेषु संस्कृतसमित्याः नेतृत्वे सामाजिकसंस्थासु संस्कृतानुरागिणाम् आभिमुख्ये च विविधाः संस्कृतप्रचरण-पोषणकार्यक्रमाः अद्य समारभन्ते।

www.samprativartah.in

  १९६९ तमे वर्षे आसीत् तदानींतनकेन्द्रसर्वकारेण भारते इदंप्रथमतया संस्कृतदिनत्वेन आचरितुं निर्णयः कृतः। शकवर्षदिनदर्शिकामनुसृत्य श्रानणपौर्णमिदिनं संस्कृतदिनपर्वन चितः च। ततः प्रभृति आराष्ट्रं संस्कृभाषायाः प्रचरणाय पोषणाय सामान्यजनेषु भाषायाः महत्वं प्राधान्यं चावबोधयितुं विविधाः कार्यक्रमाः प्रतिवर्षम् आयोजयन्ति च। 

  सर्वेभ्यः विश्वजनेभ्यः सम्प्रतिवार्तादिनपत्रिकायाः हार्दिकाः संस्कृतदिनाशंसाः।

 विश्वसंस्कृतदिवसस्य हार्दाः शुभकामनाः

Sunday, August 18, 2024

 वयनाट् भूस्खलनं - १२०० कोटिरूप्यकाणां नष्टः इति सर्वकारः। 

कोच्ची> जूलै त्रिंशे दिनाङ्के प्रत्युषसि वयनाट् जनपदस्थे मुण्टक्कै, चूरल् मला, अट्टमला प्रदेशेषु  दुरापन्ने भूस्खलनेन प्राथमिकगणनामनुसृत्य १२०० कोटिरूप्यकाणां विनाशः जात इति केरलसर्वकारेण उच्चन्यायालयं प्रति निवेदितम्। १५५५ गृहाणि सम्पूर्णतया वासाय अयोग्यानि जातानि। दुरन्ते २३१ मरणानि स्थिरीकृतानि। १२८ संख्याकाः इदानीमपि अदृष्टाः वर्तन्ते। २१२ शरीरावशिष्टानि अधिगतानि।  प्रत्यनभिज्ञातानि ५३ मृतशरीराणि सम्पूर्णादरेण अन्त्याञ्जलिं समर्प्य संस्कृतानि। 

www.samprativartah.in

   ६२६ हेक्टरपरिमितानां स्थानानां कृषिः विनाशिताः। त्रयः सेतवः, १३६ सर्वकारीयभवनानि, द्वौ विद्यालयौ, १. ५ कि मी परिमितं मार्गः, १२४ कि मी दीर्घयुक्तं विद्युत्संविधानं, २२६ परिपालितमृगाः इत्यादीनि विनष्टानि विनाशितानि च।

 २०२२ तमवर्षस्य चलच्चित्रपुरस्काराः उद्घोषिताः। 

श्रृषभ षेट्टिः सर्वश्रेष्ठाभिनेता, नित्या मेनोनः, मानसी परेखः च अभिनेत्र्यौ, 'आट्टम्' सर्वश्रेष्ठचलच्चित्रं,  'कान्तार' श्रेष्ठं जनप्रियचित्रं, सूरज आर् बर्जात्यः सर्वश्रेष्ठः निदेशकः। 

नवदिल्ली> २०२२ तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। आनन्द एकर्षिः इत्यस्य  केरलीयस्य निदेशकत्वे साक्षात्कृतम् 'आट्टम्' इति चलच्चित्रं नैकेभ्यः पुरस्कारेभ्यः अर्हमभवत्। नाटकस्य जीवितस्य च समञ्जसमेलनेन विशिष्टमेतत् मलयालचलच्चित्रं 'फीचर्' विभागे श्रेष्ठतमं चित्रं , श्रेष्ठतमा पटकथा, श्रेष्ठतमं चित्रसंयोजनमित्येभिः पुरस्कारैः सम्मानितम्। 

www.samprativartah.in

   कान्तार इति कन्नडचलच्चित्रे अभिनयेन ऋषभ षेट्टिः श्रेष्ठः अभिनेता अभवत्। 'तिरुच्चित्रम्पलम्' इति तमिलचित्रेण नित्यामेनोनः श्रेष्ठा नटी अभवत्। कच् एक्स्प्रेस् इति गुजरातीचित्रेण मानसीपरेख् अपि श्रेष्ठा नटिपदं प्राप्ता। उञ्चायि इति हिन्दीचलनचित्रस्य निदेशकः सूरज आर् बर्जात्यः श्रेष्ठनिदेशकपुरस्कारेण सम्मानितः।

Saturday, August 17, 2024

 पाकिस्थाने 'मङ्कि पोक्स्' दृढीकृतम्। 

पेषावरः> आफ्रिक्काभूखण्डे प्रसार्यमाणः 'मङ्कि पोक्स्' इति वानरमसूरि रोगः पाकिस्थाने अपि दृढीकृतः इति पाकिस्थानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। एष्याभूखण्डे प्रथमतया एवायं रोगः प्रत्यभिज्ञातः। 

  www.samprativartah.in

  त्रयः जनाः रोगबाधिताः प्रत्यभिज्ञाताः। अतिशीघ्रव्यापनशेषीयुक्तम् 'एम्पोक्स्' वर्गान्तरमेव पाकिस्थाने दृढीकृतम्। आफ्रिकायाः बहिः अनेन रोगेण स्थिरीकृतं द्वितीयं राष्ट्रं भवति पाकिस्थानम्। गतदिने स्वीडने अपि रोगोSयं प्रत्यभिज्ञातः।

 जम्मु काश्मीरे हरियाने च निर्वाचनं प्रख्यापितम्। 

नवदिल्ली> जम्मु काश्मीरे हरियाने च विधानसभानिर्वाचनं प्रख्यापितम्। दशसंवत्सरेभ्यः परं निर्वाचनं विधास्यमाने जम्मु काश्मीरे चरणत्रयेण मतदानं विधास्यति। सेप्टम्बर् १८,२५ , ओक्टोबर् १ दिनाङ्केषु जम्मु काश्मीरे, ओक्टोबर् १ दिनाङ्के एकेनैव चरणेन हरियाने च निर्वाचनं प्रचलिष्यति। 

www.samprativartah.in

    द्वयोरपि राज्ययोः प्रत्येकं ९० विधानसभास्थानानि सन्ति। ओक्टोबर् चतुर्थे दिनाङ्के मतगणना भविष्यति।

Friday, August 16, 2024

 विनेष् फोगटस्य अभियाचिका निरस्ता। 

रजतपतकं न लभते। 


पारीस्> अन्तिमप्रतीक्षा अपि अस्तं गता। विनेष् फोगट् नामिका मल्लयुद्धवीरा अश्रुपूर्णनयनाभ्यां पारीसतः प्रतिनिवृत्ता। तस्याः रजतपतकदानार्थिका अभियाचिका अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेन निष्करुणं निरस्ता। अनेन तस्याः दशकद्वयं दीर्घिते कायिकजीविते ओलिम्पिक्स् पतकमिति अभिलाषः अपि अस्तं गतः।

 युक्रेनसेना रष्यायाः अन्तः प्राविशत्।

१.३ लक्षं जनाः अपनीताः , भारतीयेभ्यः जागरणनिर्देशः।

बलगोरेदक्षेत्रे आपत्कालिकावस्था प्रख्यापिता। 

कीव्> रष्याः सीमाप्रदेशस्यान्तः कुर्स्क् प्रान्ते आगस्टमासस्य षष्ठेदिने युक्रेनेन आरब्धं स्थलाधिनिवेशम् अधिकप्रदेशम् अवर्धयत। युक्रेनसेना  बलगोरेदक्षेत्रं प्राप  इत्यतः तत्र आपत्कालीनजागरणनिर्देशः कृतः। कुर्स्क् बेलगोरेद प्रदेशेभ्यः १. ३लक्षाधिकं जनाः सुरक्षितस्थानं नीताः। 

  २०२२तमे वर्षे रूस-युक्रेनयुद्धस्य आरम्भात्परं प्रथममेव युक्रेनसैन्येन रूसीयक्षेत्रं प्रविष्टम्। द्वितीयलोकमहायुद्धस्य अनन्तरं रष्यां लक्ष्यीकृत्य सम्पद्यमानः बृहत्तमः स्थलाधिनिवेशः भवत्येष इति अभिज्ञैः सूच्यते। दशसहस्राधिकाः युक्रेनसैनिकाः अस्मिन् प्रक्रमे भागं स्वीकुर्वन्तः स्युरित्यपि सूच्यते। 

www.samprativartah.in

  युक्रेनस्य आक्रमणमालक्ष्य ब्रयान्स्क्, बलगोरेद्, कुर्क्स् इत्यादिषु सीमाप्रदेशेषु वर्तमानेभ्यः छात्रानभिव्याप्य भारतनागरिकेभ्यः मोस्कोस्थेन भारतस्थानपतिकार्यालयेन जागरणनिर्देशः दत्तः।

Thursday, August 15, 2024

 स्वतन्त्रतादिनोत्सवदीप्त्यां भारतम्। 

'विकसितभारतं २०४७' अस्य वर्षस्य स्वतन्त्रतासंबन्धी स्थाप्यविषयः। 

भारतस्य प्रगतिः आविश्वं साकाङ्क्षं वीक्ष्यते इति प्रधानमन्त्री। 

प्रधानमन्त्री राष्ट्रध्वजम् अभिवाद्यं करोति। 

नवदिल्ली> भारतं स्वस्य ७८ तमं स्वतन्त्रतादिनं समेषु भारतेषु अत्युत्साहपूर्वम् आघुष्यते। प्रभाते ७. ३० वादने प्रधानमन्त्री नरेन्द्रमोदी चेङ्कोट्टायां राष्ट्रियध्वजम् उन्नीय राष्ट्रम् अभिसम्बोधयति स्म। यदा  स्वातन्त्र्यस्य शततमः स्वातन्त्र्योत्सवः भविष्यति तदा विश्वे भारतं सर्वथा प्रथमस्थानं प्राप्स्यतीति प्रतीक्षां प्रकटितवान्। तदर्थम् उद्यमाः क्रियमाणाः सन्तीति स्वातन्त्र्यदिनप्रभाषणे  तेनोक्तम्। नरेन्द्रमोदिनः अविरतं ११तमं स्वातन्त्र्यदिनप्रभाषणमासीदिदम्। 

www.samprativartah.in

  स्वस्य प्रशासनाधीने सम्भूताः प्रगतयः उपलब्धयश्च प्रधानमन्त्रिणा परामृष्टाः। राष्ट्रस्य सर्वतोमुखं प्रगतिं लोकराष्ट्राणि साकूतं अभिवीक्ष्यन्तीति मोदिना उक्तम्। २०४७ तमे स्वतन्त्रतादिवसे सम्प्राप्यमाणे  विश्वराष्ट्राणां मध्ये  भारतस्य अग्रिमस्थानमेव कांक्षते इति सः प्रतीक्षां प्राकटयत्। 

   ओलिम्पिक्स् तारकाः, युवकाः, गोत्रसमूहप्रतिनिधयः, कृषकाः, महिलाः, केन्द्राभियोजनानां गुणभोक्तारः, अन्ये विशिष्टातिथयः इत्येवं भिन्नभिन्नक्षेत्रेभ्यः ६००० विशिष्टातिथयः कार्यक्रमं प्रति निमन्त्रिताः आसन्।

॥ स्वतन्त्रतादिनस्य शुभकामनाः॥





 भारतस्य जनसंख्या २०३६ तमे १५० कोटिः भविष्यति।

    नवदिल्ली> भारतस्य जनसंख्या प्रतिदिनं वर्धमाना भवति। एवं वर्धिते सति २०३६ तमे संवत्सरे जनसंख्या १५२.२ कोटिः भविष्यति इति केन्द्रसर्वकारेण उच्यते।  Central statistics and programme implementation द्वारा सङ्कलिता इयं गणना। २०११ तमे कृतायां गणनायां  लिङ्गानुपातः १०००ः९४३ क्रमेण आसीत्। २०३७ तमे संवत्सराभ्यन्तरे १००० पुरुषाणां ९५२ इति क्रमेण वर्धमाना भविष्यति स्त्रीणां संख्या। www.samprativartah.in


Wednesday, August 14, 2024

 विनेष् फोगटस्य याचिकायाः विधिः पुनरपि परिवर्तितः। 

पारीस्> ओलिम्पिक्स् महिलामल्लयुद्धे अयोग्यताम् अभिमुखीकृतायाः विनेष् फोगट् इत्यस्यायाः याचिकायां विधिप्रख्यापनं शुक्रवासरपर्यन्तं दीर्घितम्। अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेनैव निगदितमिदम्। कुजवासरे रात्रौ विधिप्रख्यापः भविष्यतीति निश्चय एव परिवर्तितः।

  मल्लयुद्धस्य अन्तिमचरणात् पूर्वं विधत्तायां शरीरभारपरिशोधनायां १०० ग्राम् मितस्य अधिकतया विनेष् फोगटः अयोग्या अभवत्। ऐ ओ सि संस्थायाः  निर्णयममुं निरस्य रजतपतकस्य अंशाङ्गीकारं विधातुमेव तस्याः सङ्कटनिवेदनम्।

 वखफ् विधेयकं - जगदम्बिकापालः जे पि सि अध्यक्षः। 

जगदम्बिकापालः। 

नवदिल्ली> केन्द्रसर्वकारेण लोकसभायां अवतारितस्य वखफ् नियमपरिष्करणविधेयकस्य परिशोधनाय रूपीकृतस्य संयुक्तसंसदीयसमित्याः [जे पि सि] अध्यक्षः लोकसभायाः वरिष्ठः भा ज पा सदस्यः जगदम्बिकापालः भविष्यति। समित्यां ३१ अङ्गाः सन्ति। 

       www.samprativartah.in

आगस्टमासस्य अष्टमे दिनाङ्के आसीत् केन्द्र न्यूनपक्षकार्यमन्त्रिणा किरण रिजिजुना लोकसभायां विधेयकमिदम् अवतारितम्। ७३ वयस्कः जगदम्बिकापालः उत्तरप्रदेशतः चितः लोकसभासदस्यः भवति। २००९ तमे वर्षे लोकसभांगरूपेण चितस्य तस्य  चतुर्थं सदस्यत्वमेव एतत्।

Tuesday, August 13, 2024

 रेफात् अहम्मदः बङ्गलादेशस्य सर्वोच्चन्यायाधिपः।

धाका>  बङ्गलादेशस्य २५ तमः सर्वोच्चन्यायाधिपरूपेण सयीद् रेफात् अहम्मदः शपथवाचनं कृत्वा पदमारूढवान्। राष्ट्रपतेः औद्योग्कभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः मुहम्मद षहाबुदीनः शपथं कारितवान्। 

  विद्यार्थिप्रक्षोभहेतुतया प्रधानमन्त्रिपदं त्यक्त्वा पलायितवत्याः षैक् हसीनायाः स्थाने नोबल् पुरस्कारजेता मुहम्मद यूनुसः अधिकारं प्राप्तवान्।

 काश्मीरे भीकराक्रमणं द्वयोः सैनिकयोः वीरमृत्युः ; कश्चन पुरवासी च मृतः। 

श्रीनगरम्> जम्मु काश्मीरे अनन्तनागजनपदे सैन्यस्य भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युमुपगतौ। आहतेषु चतुर्षु सैनिकेषु द्वयोः पुरवासिनोः एकः पुरवासी परं मृतः। 

  कोकर् नागप्रान्ते भीकराणां सान्निध्यमस्तीति वृत्तान्तानुसारं कृते अन्वेषणे भीकरैः सह भुषुण्डिप्रयोगः जातः। भीकराणां अतिक्रमं प्रतिरोद्धुं संयुक्तसेनादलैः अन्वेषणं शक्तं कारितम्।

Monday, August 12, 2024

 ओलिम्पिक्स् भारतम्।

वर्णलुप्तप्रकटनेन भारतस्य निवर्तनम्। 

पारीसे ६ पतकानि ; टोक्यो ओलिम्पिक्स् मध्ये ससुवर्णं ७ पतकानि!

पारीसः> टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रकटनमपेक्ष्य पारीसे भारतस्य वर्णलुप्तं प्रकटनम्। पतकोपलब्धिः युगलाङ्कनं करिष्यतीति प्रतीक्षया एव ११० संख्यायुक्तः क्रीडकसंघः तस्य अधिकारिवृन्दश्च १६ प्रकरणेषु स्पर्धितुं भारतात् पारीसं प्रस्थितः। किन्तु लब्धिस्तु एकं रजतं, पञ्च कांस्यानि च। आहत्य षट् पतकानि। गते टोकियो ओलिम्पिक्से तु एकं सुवर्णं, द्वे रजते, चत्वारि कांस्यानि च। दृढीकृतपतकप्रकरणेषु केषुचित्सु प्रत्याघातः अभवत्। 

  किन्तु कतिपयः अभिमानार्हः लाभश्च अजायत। एकस्मिन्नेव ओलिम्पिक्से व्यक्तिगतं पतकद्वयम् इति लाभः मनु भाकरेण संवृत्तः। अनुस्यूततया यष्टिक्रीडायां पतकलाभः अभवत् महिलानां मल्लयुद्धे अन्तिमचरणं प्राप्य पतकं दृढीकृवत्याः मनु भाकरस्य अयोग्यतादुर्योगः दुःखप्रदमभवत्।

 ओलिम्पिक्स् वार्ताः। 

वर्णाभः समाप्तिः। २०२८ तमे लोसान्जलसे। 


पारीसः>विश्वाय नूतनं ऊर्जं, संघाटने  नूतनमादर्शं च प्रदाय १६ दिनात्मकस्य ओलिम्पिक्स् महोत्सवस्य ध्वजावरोहणं समङ्गलं सम्पन्नम्। अशीतिसहस्राधिकं जनान् साक्षीकृत्य प्रसिद्धे 'स्टड् दे फ्रान्स्' क्रीडाङ्कणे आसीत् समापनकार्यक्रमाः सम्पन्नाः। 

  आगामि ओलिम्पिक्स् २०२८ तमे वर्षे लोस् आन्जलस् मध्ये आयोजयितुं निश्चयः कृतः। पतकसम्पादने अमेरिका प्रथमस्थानं प्राप। द्वितीयस्थाने चीनः, तृतीये तु जापानश्च।

 तुङ्गभद्रा सेतोः निर्गमः भग्नः।

तीरस्थजनपदेभ्यः जागरणनिर्देशः। 

बङ्गलुरु> कर्णाटके तुङ्गभद्रा सेतोः ३४ निर्गमेषु अन्यतमः भग्नः प्रवाहितः अभवत्। १९ तमः 'क्रेस्ट् द्वार'मेव जलसम्मर्देन भग्नः। ३५,००० क्यूसेक्स् परिमितं जलं शक्त्या प्रवहितम्। 

  सेतोः सम्मर्दप्रतिरोधाय अवशिष्टानि ३३ द्वाराण्यपि उद्घाटितानि। एकलक्षं क्यूसेक्स् परिमितं जलं तुङ्गभद्रानदीं प्रवहितम्। बलारि, विजयनगरं, कोप्पाल्, रायपुरं इत्येतेभ्यः जनपदेभ्यः जागरणनिर्देशः दत्तः। 'सुर्कि' नामकमिश्रितमुपयुज्य निर्मितः अयं सेतुः कर्णाटकस्य बृहत्तमः सेतुर्भवति।

 उत्तरभारतराज्येषु भीषणवृष्टिः - २८ मरणानि। 

नवदिल्ली> भारतस्य उत्तरप्रान्तीयराज्येषु वृष्टिः भीषणा वर्तते। गृहभञ्जनं मृत्प्रपातः इत्यादिदुष्प्रभावितैः २८ जनाः मृत्युमुपगताः। 

   हरियाने बहवः ग्रामाः जलनिमग्नाः जाताः। अमर्नाथतीर्थाटनम् अल्पकालिकेन अवस्थापितम्। राजस्थाने वृष्टिदुष्प्रभावेण १४ जनाः मृताः। अत्र २४ होरैः ३८ सेन्टीमीटर् वृष्टिरङ्किता। 

  पञ्चाबे होषिपुरे यात्रावाहनं जलप्रवाहे निपत्य एकपरिवारीयाः अष्ट जनाः मृताः। दिल्यां अतिवृष्टिरनुभूयते। रोहिणी सेक्टर् स्थाने सप्तवयस्कः जले निमज्य मृत्युमपगतः। हिमाचले तिस्रः बालिकाः जले निमज्य मृत्युं गताः। उत्तरप्रदेशतः द्वे मरणे वृत्तान्तीकृते। अरुणाचलप्रदेशः, असमः, बिहारम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुभूयते।

 भूमिः अन्धकारे पतिष्यति। भौमकान्तिक चण्डवातेन उपग्रहाः छिन्नाः भविष्यन्ति।

www.samprativartah.in

   न्यूयोर्क> समीपकाले एव सौरवातः अवात्। सौरवातेन आविश्वं बहवः दुर्घटाः दुरापन्नाः। आशयविनिमय-सुविधायाः भञ्जनं जङ्गमदूरवाण्याः प्रवर्तनानि च अबाधत।

  सौरवातस्य दुष्प्रभावः काञ्चन उपग्रहान् अपि बाधितः इति अप्रमाणिता सूचना अस्ति। सौरवातः अतिशक्तः असीत् इति कारणेन वैज्ञानिकाः आशङ्काभरिताः आसन्। किन्तु अधिकाघातं विना सौरवातः शान्तः अभवत्। समानसन्दर्भः पुनः अवर्तत इति वैज्ञानिकाः पूवसूचनां ददति। सौरवातः न, प्रत्युत भौमकान्तिकचण्डवातः एव भुवं लक्ष्यीकृत्य आगमिष्यति। गतदिनेषु द्विवारं विशेषघटनेयं सूर्ये दुरभवत्। रविवासरे तदनुबन्धतया भौम-कान्तिक चण्डवातः वीजयिष्यति इति वैज्ञानिकाः अभिप्रयन्ति।

Sunday, August 11, 2024

 ओलिम्पिक्स् वार्ताः। 

ओलिम्पिक्स् महोत्सवस्य अद्य समाप्तिः। 

पादकन्दुके स्पेयिनः वीरः। 

पारीसः> सप्ताहद्वयेन अनुवर्तमानःओलिम्पिक्स् महोत्सवः अद्य पारीसे समाप्तिमायाति। रात्रौ सार्धसप्तवादने - भारतसमयः रात्रौ ११ - आरभ्यमाणे समापनसमारोहे कला-क्रीडा-साङ्केतिकविद्यानां च सम्मेलनं प्रतीक्षते। 'स्टेड् दे फ्रान्स्' नामके क्रीडाङ्कणे एव समापनसमारोहः सम्पद्यते। 

  पादकन्दुकक्रीडायाः अन्तिमस्पर्धायाम् आतिथेयं फ्रान्सं ५ - ३ इति लक्ष्यक्रमेण पराजित्य स्पेयिनः वीरकिरीटं प्राप। निश्चितसमये ३ - ३ इति समस्थितिं प्राप्य  अधिकसमये आसीत् स्पेयिनस्य जयलक्ष्यद्वयसंप्राप्तिः।

 "सहैव स्मः" - वयनाटं सामालिङ्ग्य समाश्वास्य प्रधानमन्त्री। 

वयनाट् दुरन्तं चक्षुभ्यां हृदयेन च प्रत्यभिज्ञाय नरेन्द्रमोदी। 

प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिणा सह उदग्रयाने तुरन्तक्षेत्रम् अभिवीक्ष्यति।

केन्द्रसर्वकारेण सर्वमपि साहाय्यं वाग्दत्तम्। धनराशेरभावेन प्रतिबन्धो न भविष्यति। 

छात्राणां विद्याभ्यासाय दुरन्तातिजीवितानां जीवनोपाधिप्राप्तये च सविशेषपरिगणना। 

प्रधानमन्त्री दुरन्तप्रदेशे। समीप सुरेष् गोपिः, अन्ये अधिकारिणः च।

वयनाट्> वयनाट् भूविच्छेददुरन्तस्य अतिभीषणं याथातथ्यं साक्षात् प्रत्यभिज्ञातुं राष्ट्रस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः दुरन्तप्रदेशं सम्प्राप्तवान्। वयनाट् जनपदे सार्धपञ्चहोरापर्यन्तं स्वसान्निध्यं कुर्वन्  प्रधानमन्त्री सर्वां दुरन्तव्याप्तिं उदग्रयाने अटन् अभिवीक्षितवान्। ततः  मुण्टक्कै , चूरल् मला इत्यादीनि दुष्प्रभावितस्थानानि राज्यस्य  उन्नताधिकारिभिः सह पद्भ्यां सञ्चरन् साक्षात् प्रत्यभिज्ञातवान्। 

  ततः समाश्वासशिबिराणि आतुरालयं च सन्दर्श्य तत्रस्थान् दुष्प्रभावाधीनान् प्रति भाषणं कृत्वा तान् समाश्वास्य जीवनप्रक्रियायां  धैर्यं प्रचोदनं च दत्तवान्। अनन्तरं जनपदकार्यालये सम्पन्ने अवलोकनसमित्याः उपवेशने भागं स्वीकृत्य केरलसर्वकाराय केन्द्रसर्वकारस्य पक्षतः  बहुविधसाहाय्यं भविष्यतीति दृढतां अदाच्च। 

  मुख्यमन्त्री पिणरायि विजयः, केन्द्रसहमन्त्री सुरेष् गोपिः, राज्यस्य कार्यकर्तृप्रमुखः वि वेणुः, ए डि जि पी पदस्थः अजित् कुमारः इत्यादयः प्रधानमन्त्रिणं अन्वगच्छन्।

Saturday, August 10, 2024

 पश्चिमवंगस्य भूतपूर्वः मुख्यमन्त्री 

बुद्धदेव भट्टाचार्यः मृत्युमुपगतः। 


कोल्कोता> पश्चिमवंगे ११ संवत्सराणि यावत् मुख्यमन्त्री तथा च प्रथमवामदलप्रशासनादारभ्य मन्त्रिपदमलङ्कृतवान् वरिष्ठः कम्यूणिस्ट् नेता बुद्धदेव भट्टाचार्यः [८०] मृत्युमुपगतः।  गुरुवासरे पाम् अवन्यू इत्यत्र स्वगृहे आसीदन्त्यम्। 

  अनारोग्यकारणात् सः कतिपयकालेन सामाजिकक्षेत्रे निरतो नासीत्। हृदयाघात एव मृत्युकारणमिति वृत्तान्तं माध्यमेभ्यः निगदितवता  पुत्रेण सुचेतनेन प्रस्तुतम्। 

   मुख्यमन्त्रिणी ममता बानर्जी, राज्यपालः सि वि आनन्दबोसः, मन्त्रिणः, राजनैतिक-सांस्कृतिकनेतारश्च अन्याञ्जलिं समर्पितवन्तः। २०२२ तमे वर्षे केन्द्रसर्वकारेण दत्तस्य पद्मभूषणपुरस्कारस्य निरासेन सः माध्यमश्रद्धां आकृष्टवान्।

 ओलिम्पिक्स् भारतम्।

कुन्तप्रक्षेपे भारताय रजतं ; पुरुषाणां मल्लयुद्धे कांस्यम्। 

नीरज चोप्रः। 

पारीस्>  कुन्तप्रक्षेपस्य अन्तिमचरणे भारतस्य नीरज चोप्रः ८९. ४५ मीटर् प्रक्षिप्य रजतपतकं प्राप्तवान्। तस्य ६ प्रक्षेपोद्यमेषु पञ्च सदोषाः अभवन्। ऊरुपेशीनां पीडा स्वस्य प्रकटनम्  अबाधत इति तेन परं प्रस्तुतम्।  पाकिस्थानस्य अर्षाद नदीमाय सुवर्णम् अलभत। 

   पुरुषाणां 'फ्रीस्टैल्' इति मल्लयुद्धस्य ५७ किलो विभागे भारतस्य अमन् षेरावतः तृतीयस्थानं प्राप्य भारताय षष्ठं पतकम् उपलब्धवान्। प्यूर्टरिको देशस्य डारियन् क्रूस् नामकमेव सः पराजितवान्।

 प्रधानमन्त्री अद्य वयनाट् सन्दर्शयति। 

नवदिल्ली> वयनाट् भूस्खलनदुरन्तं साक्षात् द्रष्टुं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे पूर्वाह्ने ११. ०५ वादने कण्णूर् विमाननिलयम् अवतीर्य  वयनाट् प्राप्नोति। मध्याह्नपर्यन्तं  दुरन्तबाधितप्रदेशं सर्वं  उदग्रयानमारुह्य संवीक्षिष्यति। अनन्तरं समाश्वासशिबिरं संद्रक्ष्यति । ततः वयनाट् जनपदकार्यालये आयोज्यमाने अवलोकनोपवेशने भागं करिष्यति। सायं चतुर्वादने दिल्लीं प्रतिगमिष्यति।

Friday, August 9, 2024

 ओलिम्पिक्स् भारतम्। 

यष्टिक्रीडायाम् अनुस्यूतेन द्वितीयेन कांस्यश्रिया  अनुगृह्य श्रीजेषः निवृत्तः। 

सर्वान् भारतीयान् दुःखे निमज्य विनेष फोगटः निवृत्ता।

क्रीडानिवृत्तं श्रीजेषं सहक्रीडकाः अभिवाद्यं कुर्वन्ति। 

पारीस्> भारतीयेभ्यः कांस्यमेतत् सुवर्णश्रियं ददाति। यष्टिक्रीडायां स्पेयिनं २ - १ इति रीत्या पराजित्य भारतस्य कांस्यपतकसंसिद्धिः। केरलीयः पि आर् श्रीजेष् इत्यस्य लक्ष्यपालकस्य सुरक्षाकवचस्य बलेनैव ओलिम्पिक्स् होक्यां पुनरपि तृतीयस्थानोपलब्धिः। 

  स्वस्य अन्तिमा ओलिम्पिक्स् क्रीडा एषेति श्रीजेषेण उद्घोषितमासीत्। अत एव हर्मन् प्रीत सिंहस्य नेतृत्वे सहक्रीडकाः समुत्कृष्टं निवृत्तिमङ्गलं श्रीजेषाय दत्तवन्तः। 

  यष्टिक्रीडायां ५२ संवत्सरेभ्यः परमेव भारतम् अनुस्यूततया पतकद्वयेन श्रीलालितं वर्तते। टोक्यो ओलिम्पिक्स् मध्ये अपि श्रीजेष आसीत् लक्ष्यरक्षकः। 

   तथैव शरीरभाराधिक्येन अन्तिमस्पर्धातः अयोग्यताम् अभिमुखीकृतवती विनेष फोगटः मल्लयुद्धक्रीडायाश्चापि निवृत्तिम् उद्घोषितवती। "मल्लयुद्धेन सह प्रतिद्वन्द्वे अहं पराभूता। भवतां स्वप्नः मम धैर्यश्च भञ्जितः, क्षम्यताम्"  तीव्रदुःखेन सा सामाजिकमाध्यमेन निगदितवती। 

  ओलिम्पिक्स् चरित्रे इदंप्रथमतया मल्लयुद्धस्य अन्तिमचरणं प्रविष्टवती भारतीयवनिता किमपि पतकमलब्ध्वा निवर्तते इति  दौर्भाग्यः १४० भारतीयान् सन्तापसमुद्रे निमज्जयति।

 सुनितायाः सहयात्रिकस्य च प्रतिनिवर्तनं २०२५ यावत् विलम्बः भवेत्!

वाषिङ्टणम् > अन्ताराष्ट्रबहिराकाशनिलये मासद्वयात्परं यावत् लग्नौ बहिराकाशयात्रिकौ भारतीयवंशजा सुनिता विल्यंस्, सहयात्रिकः बुच् विल्मोर् इत्येतौ २०२५ फेब्रुवरिपर्यन्तं तत्रैव वसेतामिति नासया निगदितम्। एतयोः यात्रायानस्य दोषपरिहारः न सम्पन्नः इत्येव कारणम्। 

  फेब्रुवरिमासे 'स्पेय्स् एक्स्' संस्थायाः पेटके भवेत् तयोः  भूमिं प्रति निवर्तनम्। तदर्थं पूर्वोक्तां संस्थां प्रति नासायाः चर्चा पुरोगच्छति।

 गासायाम् आक्रमणपरम्परा - ४० मरणानि। 

जरुसलेमः> गासाप्रदेशं प्रति इस्रयेलस्य आक्रमणे ११ तमे मासे प्रविष्टे गासायाः विविधक्षेत्रेषु इस्रयेलस्य आक्रमणं कठोरमभवत्। मध्यगासायाः अल् बुरैज्, अल् नुसैरा प्रदेशस्थेषु  अभयार्थिशिबिरेषु गासानगरस्थे अभयकेन्द्ररूपेण वर्तमाने विद्यालयद्वये च विधत्तेषु आक्रमणेषु ४० जनाः मृत्युमुपगताः। 

  गासाप्रदेशे आक्रणेन आहत्य मृतानां संख्या ३९,६९९ अभवत्। गासायां सर्वत्र पाकभोजनवितरणं कुर्वन् कश्चन अमेरिकयीयः सन्नद्धप्रवर्तकः अपि मृत इति सूच्यते।

Thursday, August 8, 2024

 सङ्गीतलोके नवतारका'विर्भावः'।

आविर्भावनामकः  सप्तवयस्कः केरलीयः 'सोणि सूपर् स्टार् सिङ्गर्' विजेता। 

पुरस्कारेण सह आविर्भावः। 

मुम्बई > सप्तवयस्कः केरलीयः आविर्भावः सङ्गीतास्वादकानां मनसि नवविस्मयं कुर्वन् विराजते। सोणि टि वी इति हिन्दीप्रणाल्याः 'सोणि सूपर् स्टार् सिङ्गर् - ३' इति १४ वयःपर्यन्तानां बालकानां गानस्पर्धायां प्रथमस्थानं प्राप्य अयं बालकः केरलस्य च अभिमानमभवत्। गानावतरणपरम्परायाः अन्तिमे चरणे १४ वयःपर्यन्तैः १५ बालकैः सह स्पर्धयित्वा एव  अस्य किरीटोपलब्धिः।  १० लक्षरूप्यकाण्येन पुरस्कारराशिः। 

   केरले इटुक्की जनपदीययोः के एस् सजिमोन् सन्ध्यादम्पत्योः पुत्रः आविर्भावः सार्धप्रथमवयसि एव स्वस्य संगीतप्रागल्भ्यं कस्याश्चित् तेलुङ्क टि वी प्रणाल्याः याथातथ्यप्रदर्शने [Reality show] 'बेस्ट् एन्टर् टेयिनर्' पुरस्कारं लब्धवान्। तस्य ज्येष्ठसोदरी अनिर्विन्या तस्मिन् प्रदर्शने द्वितीयस्थानं प्राप च। ततः वर्षद्वयात् पूर्वं 'फ्लवेर्स्' इति कैरलीप्रणाल्याः 'टोप् सिङ्गर्' नामके याथातथ्यप्रदर्शने   'बाबुक्कुटन्' इति प्रेमास्पदनाम्ना सर्वेषां वात्सल्यभाजनमासीत्। 

  सोणिप्रणाल्याः प्रदर्शनपरम्परायां षारुख् खानेन अभिनीते 'रब्ने बना दी जोडी' इति चलच्चित्रे 'हो ले  हो ले ' इति गाने गीते गायकेन सुखवीन्दर सिंहेन 'गायकेषु षारुख् खानः' इति आविर्भावः प्रशंसितः। 'आजा मेरी जान्', 'मेरे रंग मैं', 'आजा षाम् होनायि' इत्येतानि गानानि गीत्वा एव सः दशलक्षरूप्यकयुक्तं प्रथमपुरस्कारं प्राप्तवान्। 

 परिवारेण सह एरणाकुलं जनपदस्थम्  अङ्कमालीनगरोपान्तम् अधिवसन् आविर्भावः महाकवि जि स्मारक सर्वकारविद्यालये प्रथमकक्ष्यायां शिक्षां समाप्य सोणि टि वि स्टार् सिंगर् प्रदर्शनार्थं मुम्बयीं गतवान्। इदानीं  विश्वज्योति पब्लिक् विद्यालये द्वितीयकक्ष्यां प्रवेशनमुपलब्धवान्।

 परीक्षोत्तरणाय अल्पिष्ठा अङ्कोपलब्धिः - 

अस्मिन् वर्षे अष्टमकक्ष्यातः आरभ्यते। 

अनन्तपुरी> केरलस्य शैक्षिकसम्प्रदाये निर्दिष्टान् परिष्कारान् प्रवृत्तिपथमानेतुं राज्यसर्वकारः निश्चिकाय। एस् एस् एल् सि परीक्षां विना उच्चतरकक्ष्याणां  परीक्षासु उत्तरणाय विलिख्यपरीक्षासु ३०% अङ्काः प्राप्तव्याः इति शिक्षाविभागस्य निर्देशं  अस्मिन् वर्षे अष्टम्यां कक्ष्यायां विधातुं सर्वकारेण निश्चितम्। आगामिनि वर्षे नवमकक्ष्यायां , २०२६-२७ अध्ययनवर्षे दशमकक्ष्यायां च विधातुं प्रक्रमाः आरब्धाः।

 अधिकभारः - विनेष फोगट् अयोग्या। 


पारीस्> ओलिम्पिक्स् महोत्सवे भारताय सुवर्णपतकं प्रतीक्षमाणा  मल्लयुद्धवीरा विनेष फोगट् अन्तिमस्पर्धायाः पूर्वं कृतायां भारपरिशोधनायाम् अधिकभारत्वेन अयोग्या इति प्रख्यापितम्। ५०किलोग्रां सामान्यमल्लक्रीडायामेव सा स्पर्धितवती। सा अन्तिमचरणं प्रविवेश च। किन्तु ह्यः विधत्तायां परिशोधनायां तस्याः शरीरभारं  १०० ग्राम् मितं अधिकं दृष्टम्। 

  अनेन सर्वेभ्यः पतकाधिकारेभ्यः सा अन्ताराष्ट्रिय ओलिम्पिक्स् समित्या निष्कासिता। विनेषेण पराजिता क्यूबायाः युस् नैलिस् अन्तिमचरणे स्पर्धिष्यति।

Wednesday, August 7, 2024

 नोबेल् पुरस्कारेण समादृतः मुहम्मद् यूनुसः बंग्लादेशस्य प्रधानमन्त्री भविष्यति।

    धाका> बंग्लादेशस्य तत्कालीनं सर्वकारं नोबेल् पुरस्कारेण समादृतः मुहम्मद् यूनुसः नेष्यति। तत्कालीन-सर्वकारस्य उपवेशने मुहम्मद् यूनसं  प्रधानमन्त्रिपदे  नियोक्तुं निश्चितम् अस्ति। गुरुवासरे महोदयस्य शपथग्रहणं भविष्यति।

   समरभटैः स्वस्मिन् अर्पितेन विश्वासेन अयं  यूनुसः समादृतः इति ए. एफ्. पि वार्तासंस्थायै दीयमानायां प्रस्तुतौ महोदयः अवदच्च।

www.samprativartah.in

   २००६ तमस्य विश्वशान्तये दीयमानेन नोबेल् पुरस्कारेण समादृतः भवति डा. यूनुसः। अयं महोदयः १९८३ तमे आराष्ट्रं ग्रामीण-वित्तकोशस्य स्थापनं कृतवान्। एताः संस्थाः  बंग्लादेशस्य दरिद्रतानिर्मार्जने सुप्रधानं भागं स्वीकृतवत्यः इति परिगणय्य आसीत् नोबेल् पुरस्कारः।

 ओलिम्पिक्स् भारतम्।

कुन्तप्रक्षेपणे नीरज चोप्रः, मल्लयुद्धे विनेष फोगटः च अन्तिमचरणे। 

नीरज चोप्रः।

विनेष् फोगट् 

यष्टिक्रीडायां भारतस्य पराजयः। 

पारीस्> कुन्तप्रक्षेपणस्य [Javelin throw] योग्यतास्पर्धायां प्रथमपरिश्रमे एव ८९. ३४ मी  प्रक्षिप्य भारतस्य नीरज चोप्रः अन्तिमचरणं प्रविवेश। गुरुवासरे रात्रौ अन्तिमस्पर्धा भविष्यति। टोक्यो  ओलिम्पिक्से सः सुवर्णपतकं प्राप्तवान् आसीत्। 

   महिलानां मल्लक्रीडायाः ५० किलोग्राम् विभागे भारतीया विनेष फोगटः क्यूबायाः युस् नैलिस् गुस्मान् लोपस् इत्येनां पराजित्य अन्तिमचक्रं प्राविशत्। इदंप्रथममेव वनितानां मल्लयुद्धे भारतस्य अन्तिमचक्रप्रवेशः। 

  यष्टिक्रीडायाः पूर्वान्त्यचरणे भारतं जर्मन्या पराजितम्। अतः सुवर्णप्रतीक्षा अस्तं गतः। तृतीयस्थानाय स्पेयिनेन सह स्पर्धिष्यते।

 हसीनायाः ब्रिटनप्रस्थानम् अनिश्चितत्वे। जातिया संसद् निराकृता। 

धाक्का/ नवदिल्ली> प्रधानमन्त्रिपदं त्यक्त्वा भारतं प्राप्तवत्याः षेक् हसीनायाः ब्रिटेनं प्रति गमनम् अनिश्चितत्वे वर्तते। ब्रिटेनात् अनुज्ञा न लब्धा। परं फिन्लानड् रष्या इत्यादिराष्ट्राणि अभयस्थानाय परिगण्यन्ते इति सूच्यते।

   बङ्गलादेशस्य राजनैतिकानिश्चितत्वं परिहर्तुं जातिया संसद् राष्ट्रपतिना मुहम्मद षिहाबुदीनेन निराकृता। विलम्बं विना निर्वाचनं विधातुं प्रक्रमाः आरब्धाः इति तेन निगदितम्।

Tuesday, August 6, 2024

 ओलिम्पिक्स् वार्ताः।

नोहा लैल्स् शीघ्रतमः धावकः। 

फलनिर्णयः 'अल्ट्रा' अतिशीघ्र दृश्यग्राहिण्या!

पारीस्> पुरुषाणां १०० मीटर् धावनस्पर्धायां 'सेकन्ड्' समयस्य पञ्चसहस्रेषु एकांशसमयस्य व्यत्यासेन अमेरिकयीयः धावकः नोहा लैल्स् शीघ्रचक्रवर्ती इति पदं प्राप्तवान्। नोहः ९. ७८४ सेकन्ड् समयेन समाप्तिबिन्दुं प्रथमं पस्पर्श। द्वितीयस्थानं प्राप्तवान् किषेयिन् तोंसणः ९. ७८९ सेकन्ड् समयेन समाप्तिबिन्दुं स्पृष्टवान्।

   पतकपट्टिकायां २१ सुवर्णानि, १७ रजतानि, १४ कांस्यानि चोपलभ्य चीनः प्रथमस्थाने अनुवर्तते। अमेरिका द्वितीयस्थानं, आस्ट्रेलिया तृतीयस्थानं चावहतः।

 बङ्गलादेशे प्रशासनविरुद्धप्रक्षोभः - षेख् हसीना प्रधानमन्त्रिपदं त्यक्त्वा पलायिता। 

षेक् हसीना।

धाक्का> बङ्गलादेशे प्रशासनविरुद्धप्रक्षोभे अक्रमनिबिडे जाते प्रधानमन्त्रिणी षेख् हसीना स्थानं त्यक्त्वा राष्ट्रं परित्यक्तवती। सोमवासरे त्यागपत्रं समर्प्य सोदर्या सह वायुसेनायाः विमानेन पलायितवती सा दल्लीसमीपस्थे हिन्डण् विमाननिलये अवातरत्। हसीना लण्टने राजनैतिकाभयं प्राप्स्यतीति श्रूयते। 

  १९७१ तमे वर्षे सम्पन्ने बङ्गलादेशविमोचनयुद्धे ये भागं कृतवन्तः तेषां परम्परायै सर्वकारनियुक्तिषु ३०% आरक्षणं दीयमानमासीत्। एतं विरुध्य जूलै मासे राष्ट्रे सर्वत्र युवजनैः विधत्तमान्दोलनं रक्तरूषितमभवत्। ततः राष्ट्रस्य सर्वोच्चन्यायालयेन आरक्षणं ५ % इति रीत्या न्यूनीकृतमित्यतः प्रक्षोभः शमितः आसीत्। किन्तु प्रक्षोभे मृतानां कृते हसीनया क्षमा याचनीया इत्यावश्यमुन्नीय युवकैः गतदिनद्वयादारभ्य  प्रक्षोभः कृतः। एतस्य अन्त्यमेव हसीनायाः पदत्यागे पलायने च समाप्तम्। राष्ट्रस्य प्रशासकत्वम् इदानीं सैन्येन स्वीकृतमस्ति।

Monday, August 5, 2024

 ओलिम्पिक्स् भारतम्।

होकी - भारतं पूर्वान्त्यचक्रे। 

पारीस्> यष्टिकन्दुकक्रीडायाः  प्रपूर्वान्त्यचक्रे लक्ष्यरक्षकस्य [Goal keeper] अत्युज्वलरक्षणस्य संघैक्यस्य च श्रेष्ठतया ब्रिटनं पराजित्य भारतं पूर्वान्त्यचक्रं प्रविवेश। 

  निश्चिते समये समस्थितौ पालिते [१ - १] पेनाल्टी षूटौट् मध्ये ४ - २ इति लक्ष्यरीत्या भारतं विजयं प्राप। श्वः पूर्वान्त्यस्पर्धा भविष्यति। 

   लक्ष्या सेन् पिच्छकन्दुकस्य प्रपूर्वान्त्ये पराभूतः। अद्य तृतीयस्थानाय मलेष्यायाः ली सी जिया इत्येनं प्रति स्पर्धिष्यते।

 ओलिम्पिक्स् वार्ताः।

जूलियन् आल्फ्रड् शीघ्रतमा धाविका।

जूलियन् आल्फ्रड्। 

पारीस्> सेन्ट् लूसिया नामकः लघुतरः करीबियन् द्वीपदेशः। ततः आगता जूलियन् आल्फ्रड् नामिका विश्वस्य शीघ्रतमा धाविकापदं प्राप्तवती। गतदिने सम्पन्ने महिलानां १०० मीटर् धावनस्पर्धायाः अन्तिमचक्रे 'जुजू' इति संबुध्यमाना जूलियन् १०. ७२ सेकन्ड्मितसमयेन समाप्तिबिन्दुं प्राप्तवती। वर्तमानीन विश्ववीरा अमेरिकायाः  षाकारी १०. ८७ सेकन्ड्मितसमयेन द्वितीयस्थानं प्राप। 

  पादकन्दुकक्रीडायाः [महिलाविभागः]  प्रपूर्वान्त्यचक्रस्य एकस्मिन् चरणे ब्रसीलः स्पेयिनं प्रति, अन्यस्मिन् चरणे यू एस् जर्मनीं प्रति च स्पर्धिष्येते। 

  टेन्निस् स्पर्धायां स्पेयिनस्य कार्लोस् अल्करासं पराजित्य सेर्बियायाः नोवाक् जोकोविचः सुवर्णपतकम् उपलब्धवान्।

नोवाक् जोकोविचः।

 वयनाट् दुरन्ते मरणसंख्या ३६९ अभवत्। अज्ञाताः ८ मृतदेहाः युगपत् संस्कृताः।

अज्ञातमृतदेहानां अन्त्यविश्रान्तिस्थानानि सज्जीकुर्वन्ति। 

पुत्तुमला> वयनाट् भूविच्छेददुरन्ते अकालमृत्युभूतानां संख्या ३६९ अभवत्। द्विशताधिके जनाः इदानामपि अदृष्टाः वर्तन्ते। 

  ६७ मृतशरीराणि अधुनापि प्रत्यनभिज्ञाताः सन्ति। तेषु ८ शरीराणि पुत्तुमला हारिसण् कम्पनी संस्थायाः ग्रामसभायै दत्ते स्थाने युगपत् अन्त्येष्टि कर्माणि विधाय प्राणविनष्टमृदि एव विलयीभूतान्यभवन्। तेषां आत्मशान्यर्थं सर्वधर्मप्रार्थना विधत्ता।

Sunday, August 4, 2024

 जनसंख्यागणनायाम् अनिश्चितत्वं ; आयव्ययपत्रे नाममात्ररूप्यकाणि। 

नवदिल्ली> वर्षदशकेषु एकवारं करणीयायाः राष्ट्रस्य जनसंख्यागणनायाः विषये अनिश्चितत्वं वर्तते। अन्तिमा गणना २०११ तमे वर्षे आसीत्। अनन्तरजनसंख्यागणना २०२१ तमे करणीया आसीत्। वर्षत्रये अतीते अपि नूतनगणनायाः यत्किमपि पूर्वसज्जीकरणं न विधत्तम्। 

  अस्य वर्षस्य आयव्ययपत्रे अपि केवलं १३०९. ४६ कोटि रूप्यकाणि एव अनुमोदितानि। जनसंख्यागणनायै राष्ट्रियनागरिकपञ्जीकरणनवीकरणाय च १२,००० कोटि रूप्यकाणि आवश्यकानि इति जनसंख्याविभागेन सूच्यते।

 ओलिम्पिक्स् भारतम्।

 रविवासरः विशिष्टः।

यष्टिक्रीडायां मुष्टियुद्धे च यष्टिक्रीडायां चतुर्थांशः , पिच्छकन्दुके पूर्वान्त्यम्। 

 मनु भाकरः चतुर्थस्थाने।

पारीस्>  भारताय अद्य प्रमुखं दिनम्। यष्टिक्रीडायाः चतुर्थांशे भारतमद्य ब्रिटनेन सह स्पर्धते। तथा च लक्ष्य सेनः पिच्छकन्दुकक्रीडायाः पूर्वान्त्यचक्रे स्पर्धते। प्रतियोगी डेन्माकस्य शक्तः विक्टर अक्सेन्सणः यः विश्वाङ्कनश्रेण्यां  द्वितीयस्थानमावहति। 

  असमीया लौलीना बोर्गो हेयिन् नामिका महिलानां ७५ किलो विभागस्य मुष्टियुद्धस्य चतुर्थांशे चीनीयां प्रति स्पर्धिष्यते। 

  लक्ष्यभेदिका मनु भाकरः स्वस्य तृतीयपतकस्वप्नं अवशिष्य  प्रतिनिवर्तते। २५ मी पिस्टल् विभागे सा चतुर्थस्थानमवाप।

 वयनाट् दुरन्तः - पुनरधिवासपरियोजनायै प्रयत्नः आरब्धः। 


अनन्तपुरी> वयनाट् भूविच्छेददुरन्ताधीनां पुनरधिवासपरियोजनायै परिश्रमः आरब्ध इति मुख्यमन्त्री पिणरायि विजयः निगदितवान्। सर्वस्वविनष्टेभ्यः सुरक्षितं प्रदेशान्तरं निश्चित्य तत्र सर्वसज्जं नागरिकासूत्रणं कर्तुं सर्वकारेण आलोच्यते। विनष्टभवनानां कृते  भवननिर्माणाय अनेके सन्नद्धाः सन्ति। विविध संस्थाभिः व्यक्तिभिश्च ४८५ गृहाणां निर्माणं वाग्दत्तमस्ति। 

  दुरन्ते विशीर्णे वेल्लामल विद्यालये छात्राणां शिक्षणमनुवर्तितुं प्रक्रमाः आरब्धाः।

 अत्र वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते।

  वृक्षाः सूर्याभिमुखाः अथवा ऊर्ध्वमुखाः भूत्वा वर्धन्ते इति वयं जानीमः। किन्तु न्यूसिलान्ट् देशस्य स्लोप् पोयिन्ट् (slop point) इति प्रसिद्धे प्रदेशे वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते इति आश्चर्यजनकः विषयः भवति। अयं प्रदेशः न्यूसिलन्टस्य दक्षिणदिशि भवति। अत्र निरन्तरम् अतिशक्तः वायुः वाति इत्यनेन वृक्षाः वायोः विपरीतदिशायां पार्श्वी भूत्वा वर्धन्ते। दक्षिणध्रुवप्रदेशतः ४८०३ कि.मी - भूमध्यरेखातः ५१४० कि .मी दूरे वर्तते अयं 'स्लोप् पोयिन्ट्'।

Saturday, August 3, 2024

 दिल्ल्यां ग्रेटर् कैलास क्षेत्रे समरफील्डविद्यालये विस्फोटकस्य विभीषिकां पठित्वा विद्यालयभूमी रिक्ता कृता।

  शुक्रवासरे विपत्रद्वारा समरफील्डविद्यालये विस्फोटकस्य विभीषिका प्राप्ता। तदा छात्रान् बहिर्निष्कास्य विद्यालयो रिक्तः कृतः। दिल्ल्यारक्षिदलेन उक्तं यद् विपत्रे विस्फोटकस्य स्थापनं कृतमिति लिखितमासीत्। किन्तु पर्यवेक्षणे किञ्चिदपि न प्राप्तम्।