विष़िञ्ञं नौकाशयः प्रवर्तनसज्जः; प्रथमं पण्यनौकायानं नौकाश्रयं प्राप्तम्। विष़िञ्ञं नौकाश्रयः।
अनन्तपुरी> केरलस्य विकासस्वप्नस्य सार्थकता। विष़िञ्ञं समुद्रतटे प्रवर्तनसज्जं नौकाश्रयं प्रति प्रथमं पण्यनौकायानं अद्य प्रभाते प्राप्तम्।
विश्वस्य द्वितीयं महानौकासंस्था 'मेस्क्' इत्यस्य 'सान् फेर्णाण्डो' नामकं पण्ययानमेव विष़िञ्ञं प्रति सम्भारकाणि [Containers] ऊढ्वा प्राप्तम्।
शुक्रवासरे प्रभाते दशवादने मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे महानौकायै स्वीकरणं दास्यति। केन्द्र नौकाश्रयमन्त्री सर्बानन्द सोनोवालः मुख्यातिथिः भविष्यति।