OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 31, 2024

 मुण्टक्कै = मरणभूमिः। 

अश्रुपूर्णं केरलम् ; भीतिदः वयनाट् दुरन्तः। 

  मुण्टक्कै> दिनद्वयात्पूर्वं केरलस्य इतरप्रदेश इव साधारणः प्रदेश आसीत् वयनाट् जनपदस्थः मुण्टक्कै नामकः गिरिसानुहरितमधुरप्रदेशः। सोमवासरस्य अर्धरात्रिः अस्य  भागधेयं प्रकृतिः भूविच्छेदस्य रूपेण परिवर्तितमकरोत्। उपत्रिसहस्रं परिवारैः अधिवसितं मुण्टक्कै, चूरल् मला, अट्टमला इति प्रदेशत्रयं प्रकृतेः संहारताण्डवेन नामावशेषम् अभवत्।  मुण्टक्कै, चूरल् मला प्रदेशद्वयमपि अक्षरार्थे मरणभूमिरभवत्। 

   मृत्युसंख्या उपद्विशतमुपयाति। १७७ मृतदेहाः अधिगताः। शताधिके प्रदेशवासिनः अदृष्टाः वर्तन्ते। कतिजनाः दुरन्तलग्नाः बभूवुरिति निर्णेतुम् इदानीमशक्यं भवति यतः वयनाटस्य प्रमुखविनोदकेन्द्रत्वेन वर्तमाने अस्मिन् प्रदेशे बहवः विनोदयात्रिकाः इतरराज्यवासिनश्च उपस्थातुं सम्भावना विद्यते। 


    केवलम् अद्यैव मुण्टक्कै दुरन्तप्रदेशं प्राप्तुं  रक्षाप्रवर्तकैः अशक्यत। यतः तत्र प्राप्तुम् यः एकैव सेतुरासीत्,स तु भूविच्छेदे परिपूर्णतया विशीर्णः अभवत्। अद्य तत्रत्यानि दृश्यानि भीतिदान्यासन्। शतशः गृहाणि, विद्यालयः, आराधनालयाः अन्यानि भवनानि च मृण्मयमभवत्। पञ्चत्वं गतानि शरीराणि तत्र  तत्र दृष्टानि। विशीर्णानां भवनानामन्तः मृतप्रायानां मनुष्याणां परिलालितजीविनां च मृदुस्वराः! किन्तु रक्षिसंघः निस्सहायतामवाप। कठिनप्रयत्नेन ४५० अधिके जनाः तैः रक्षातीरं प्राप्ताः। 

  केन्द्र-राज्यसर्वकारयोः युगपत् एकोपनं  रक्षाप्रवर्तनाय सहायकं वर्तते।

 ओलिम्पिक्स् वार्ताः। 

पतकपट्टिकायामग्रे जापानः।

पारीसः> पारीस् ओलिम्पिक्सस्य पञ्च दिनेषु अतीतेषु पतकपट्टिकायां जापानराष्ट्रं अग्रिमस्थाने वर्तते। ७ सुवर्णानि, द्वे रजते, चत्वारि कांस्यानि च जापानेन उपलब्धानि। ६ - ६ - २ इति पतकक्रमेण चीनः द्वितीयस्थाने वर्तते। तृतीयस्थाने फ्रान्सः भवति ,  ५ - ८ - ४ इति रीत्या। पट्टिकायां भारतस्य स्थानं २९  तमं भवति। 

   पादकन्दुकस्पर्धायाः कस्मिंश्चित् संघप्रतियोगितायां स्पेयिनं २ - १ इति लक्ष्यकन्दुकक्रमेण  पराजित्य ईजिप्तः संघवीरत्वेन चतुर्थांशं प्राविशत्। द्वितीयस्थानत्वेन स्पेयिनः अपि चतुर्थांशं प्राविशत्।

 ओलिम्पिक्स् भारतम्। 

मनु भाकर-सरब ज्योत् सख्याय कांस्यम्। 

परीस्> पुनरपि भारतं कांस्यपतकेन अलङ्कृतम्। १० मी वायव्यभुषुण्डिप्रयोगस्य मिश्रविभागे मनु भाकर-सरब ज्योत् सख्यः कांस्यपतकमुपालभत। सख्योSयं दक्षिणकोरियां १६ - १० अङ्कनक्रमेण पराजितवान्।  पारीस् ओलिम्पिक्स् मध्ये भारतस्य द्वितीयं पतकम्! 

   पुरुषाणां होकिस्पर्धायाम् अयर्लान्टं पराजित्य भारतं चतुर्थांशचक्रं प्राविशत् [२ - ०]।

Tuesday, July 30, 2024

 वयनाट् भूविच्छेददुरन्ते व्रणितान् बहिरानेतुं व्योमसेनायाः उदग्रयाने वायोन्नयनं समारब्धम्। 

   मेप्पाटि> वयनाटे चूरल्मल, मुण्डक्कै, अट्टमल प्रदेशेषु दुरापन्ने भूविच्छेदे रक्षाप्रवर्तनाय व्योमसेनायाः उदग्रयानम् आगतम्। दुरन्ते आपततितान् जनान् वायोन्नयनीद्वारा (airlifting) उद्धृत्य आतुरालयेषु सुरक्षितस्थानेषु च नेतुं प्रयत्नमारब्धम्।

 भारतीयज्ञानपरम्परा ज्ञानविज्ञानस्य समग्रजीवनदर्शनस्य च संयोजनम् अस्ति- प्रो.अन्नपूर्णानौटियाल:

वार्ताहर:-कुलदीपमैन्दोला।

    जगद्गुरूणाम् आदिशंकराचार्यजयन्त्या:  शुभावसरे भारतीयदार्शनिकदिवसरूपेण  समाचर्यते  अस्यां श्रृङ्खलायां भारतीयदार्शनिक-संशोधनपरिषदः नवीदिल्लीसौजन्येन एच्.एन.बी. गढ़वाल-विश्वविद्यालयस्य दर्शनशास्त्रविभागेन एकदिवसीयसंगोष्ठी आयोजिता।  २९ जुलै दिनाङ्के आयोजिता एषा संगोष्ठी भारतीयज्ञानपरम्पराविषये केन्द्रीभूता आसीत्।  दर्शनशास्त्रविभागस्य प्रमुखा प्रो.इन्दुपाण्डेयखण्डुरी इत्यनेन सर्वेषाम् अतिथिनां स्वागतं कृत्वा भारतीयज्ञानपरम्परायाः महत्त्वं प्रकाशितम्।  सः शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं ऐतिहासिकपृष्ठभूमिं अपि व्याख्यातवान्।  तेन उक्तं यत् शृंगेरीमठस्य शंकराचार्य:  भारतीयप्रधानमन्त्री भारतरत्नम् अटलबिहारी वाजपेयी  इत्यस्य समये शङ्कराचार्यजयन्तीं भारतीयदार्शनिकदिवसरूपेण आयोजयितुं प्रस्तावम् अयच्छत्।  फलतः भारतसर्वकारेण कतिपयवर्षपूर्वमेव एतत् उपक्रमः कृतः ।  प्रो.खण्डुरी भारतीयदार्शनिकदिवसरूपेण भारतीयसभ्यतायाः संस्कृते: च सारं प्रस्तुतवान्। 


 कार्यक्रमस्य मुख्यातिथिः गढ़वालविश्वविद्यालयस्य कुलपतिः प्रो.अन्नपूर्णा नौटियालः अवदत् यत् भारतीयज्ञानपरम्परा ज्ञानस्य, विज्ञानस्य, जीवनस्य समग्रदर्शनस्य च संयोजनम् अस्ति।  नूतनशिक्षानीत्या पारम्परिकज्ञानं प्रति प्रत्यागमने अपि बलं दत्तम् अस्ति ।  सः अवदत् यत् विकसितभारतस्य दृष्टिः स्थले आनेतुं आधुनिकविज्ञानस्य भारतीयज्ञानपरम्परायाः च सन्तुलनं आवश्यकम् अस्ति।  सः अवदत् यत् छात्राः पुस्तकालयेषु मौलिकग्रन्थान् पठेयुः।


पञ्जाबविश्वविद्यालयस्य चण्डीगढस्य दर्शनविभागस्य प्राध्यापिका वक्ता प्रो.शिवानीशर्मा, सौन्दर्यशास्त्रस्य सूक्ष्मतां व्याख्याय सत्यम्, शिवम्, सुन्दरं च अवधारणां, तस्य उपयोगितां, वर्तमानसान्दर्भिकतां च स्पष्टीकृतवती।  डीडीयूगोरखपुरविश्वविद्यालयगोरखपुरस्य  दर्शनविभागस्य  अध्यक्ष: वक्ता प्रो. द्वारकानाथ: योगदर्शनस्य ऐतिहासिकपृष्ठभूमे: च निष्कामकर्मसहितं योगस्य विविधपक्षेषु  व्याख्यनं दत्तवान् ।वक्ता प्रो. पी. के. दास:, अध्यक्ष:, दर्शनशास्त्रविभागनयागढ़कॉलेज-उत्कलविश्वविद्यालयोड़ीसात:  न्यायदर्शनस्य ज्ञानमीमांसीय चान्यपक्षं व्याख्यातवान् ।

प्रो. अरविंदविक्रमसिंह: न्यायदर्शनस्य ज्ञानविज्ञानादिपक्षं व्याख्यातवान् ।  वक्ता प्रो. अरविंदविक्रमसिंह:, अध्यक्ष:, दर्शनशास्त्रविभागराजस्थानविश्वविद्यालत:  भारतीयज्ञानपरंपराया: अंतर्गत सततविकासस्य अवधारणा  चास्य  उपादेयतां स्पष्टीकृतवान्।


कार्यक्रमस्य अध्यक्ष:  प्रो. हिमांशुबौड़ाई, संकायाध्यक्ष: मानविकी च समाजविज्ञानसंकाय:,  गढ़वालविश्वविद्यालयत:  कार्यक्रमाय आयोजकेभ्य:  वर्धापनं दत्तवान् तथा भारतीयज्ञानपरंपराया:  विविधपक्षेषु स्ववार्तां स्थापितवान्।  स:  दर्शनस्य च मानवजीवने नीतिशास्त्रस्य महत्त्वं स्पष्टं कृतवान्। दर्शनविभागस्य सहायकप्राध्यापिका डॉ. ऋषिका वर्मा धन्यवादमतस्य प्रस्तावम् अकरोत्।  


कार्यक्रमस्य संचालनं दर्शनशास्त्रविभागस्य सहायकप्राध्यापिकया डॉ. कविताभट्टद्वारा कृतम्।  मिश्रितसमन्वये आयोजितेस्मिन्  कार्यक्रमे योगविभागाध्यक्ष:  डॉ. अनुजा रावत:, डॉ. विनोदनौटियाल:, डॉ. रजनी नौटियाल:, डॉ. चिन्ताहारन:, डॉ. घनश्याम: इत्यादिभिस्सह   अनेकविभागानां शिक्षका: , शोधकर्त्तार:  एवं सुदीर्घछात्रसंख्यायां, डॉ. किरण:  आदय:  प्रतिभागं कृतवन्त:।  कार्यक्रमे रेखा डंगवाल:, ओमप्रकाश:, पूनमरावत: व अनिलकठैत:  योगदानं दत्तवन्त: ।

 वयनाट् भूविच्छेददुरन्तः - ७३  मृतशरीराणि अधिगतानि। 

रक्षादौत्याय सर्वाः संस्थाः एकीभूयन्ते। प्रधानमन्त्रिणः साह्यहस्तः। 

मुण्टक्कै>  केरले वयनाट् जनपदे ह्यः रात्रौ दुरापन्ने भूविच्छेदे इतःपर्यन्तं ७३ मृतदेहाः अधिगताः। ३३ शरीराणि प्रत्यभिज्ञातानि। २५० जनाः दुर्घटनास्थानेषु लग्नाः इति सर्वकारेण निगदितम्। शतशः जनाः विविधेषु आतुरालयेषु चिकित्समाणाः वर्तन्ते। 

  प्रधानमन्त्री नरेन्द्रमोदी दुरापन्ने अनुशोचं प्रकटितवान्। रक्षादौत्याय सर्वविधं साहाय्यं तेन वाग्दत्तम्। ६० अङ्गयुक्तः नाविकसंघः दुरन्तस्थानं प्राप्य रक्षाप्रवर्तनमारभत। २०० अङ्गयुक्तः स्थलसेनाभटाश्च रक्षाप्रवर्तने व्यापृताः सन्ति।  मुण्टक्कै, अट्टमला, चूरल्मला  प्रदेशेषु ह्यः अर्धरात्रौ द्विवारं भूविच्छेदः गिरिजलप्रवाहश्चाभवत्।

 ओलिम्पिक्स् भारतम्। 

१० मी वायव्यभुषुण्डौ कांस्यपतकस्पर्धार्हता,  होकीस्पर्धायां समस्थितिः,  पिच्छकन्दुके चतुर्थांशप्राप्तिः। 

समस्थितिकन्दुकं प्राप्तवान् हर्मन्प्रीत सिंहः मित्रैः अभिनन्द्यते। 

पारीस्> ओलिम्पिक्स् महामहस्य तृतीयदिने भारतस्य आशा निराशा च। भुषुण्डिप्रयोगस्य १० मी वायव्यास्त्राधिकरणे [मिश्रिते]   मनु भाकर-सरबज्योति सख्यः तृतीयस्थानस्पर्धायै अर्हतामवाप। पिच्छकन्दुकस्य युगलाधिकरणे सात्विक साय् राज़ चिराग षेटी सख्यः चतुर्थांशं प्रविवेश। 

  होक्की प्रतियोगितायां अर्जनीनां समस्थितिं कृत्वा [१ - १] भारतस्य प्रतीक्षाम् अवस्थाप्यते। स्पर्धायाः अन्तिमे निमिषे दलनायकः हर्मन् प्रीत सिंहः भारतं पराजयात् रक्षितवान्। चतुर्भिरङ्कैः भारतं तृतीयस्थामावहति। 

   गतदिने भुषुण्डिप्रतियोगितायां अस्त्रप्रयोगे च प्रतीक्षितपतकानि न लब्धानि इत्येतत् निराशाजनकं वर्तते।

 केरले वयनाट् जनपदे त्रिषु स्थानेषु भूविच्छेदः - १९ मरणानि। 

चूरल्मलप्रेशे दुरापन्नस्य भूविच्छेदस्य दृश्यम्। 

रक्षादौत्यं दुष्करं ; सेतुः विशीर्णः, अनेके परिवाराः अप्रत्यक्षाः। 

वयनाट्> केरलस्य वयनाट् जनपदस्थे चूरल् मला, मुण्टक्कै, अट्टमला स्थानेषु महाभूविच्छेदः दुरापन्नः। ह्यः रात्रौ आसीत् दुरन्तः।  अनेके वासगृहाणि भूस्खलनम् अनुबन्ध्य जाते गिरिजलप्रवाहे विशीर्णानि। कति जनाः दुरन्तलग्नाः इति निर्णेतुमधुना अशक्यं भवति। १९ मृतदेहाःअधिगताः। 

  दुरन्तस्थानानि प्राप्तुं एकैव सेतुः विशीर्णः इत्यतः रक्षाप्रवर्तनं दुष्करं वर्तते। रक्षणसंघस्य मुण्टक्कै प्रदेशं प्राप्तुं न शक्नोति। तत्र गन्तुं एकैव सेतुः दुरापन्ने प्रवाहितः। अतः मुण्टक्कै अट्टमला प्रदेशौ पृथगीकृतौ वर्तेते। 

  चूरल् मला प्रदेशे एव रक्षाप्रवर्तनानि पुरोगच्छन्ति। तत्रस्थ सर्वकारीय उच्चविद्यालयः भूविच्छेदेन विशीर्णः अभवत्।

Monday, July 29, 2024

 उत्तरकेरले प्रचण्डवृष्टिः ; १४ जनपदेषु जागरणसूचना। 

कोच्चि>  दिनद्वयस्य विरामानन्तरं केरले पुनरपि वृष्टिः अतिशक्ता अभवत्। उत्तरकेरले तीव्रवृष्टिः जाता। 

  वयनाट् मलप्पुरं, कोष़िक्कोट्, कण्णूर् जनपदस्थाः नद्यः जलपूरिताः प्रवहन्ति। कोष़िक्कोट् जनपदे चालिप्पुष़ा, मुत्तप्पन् पुष़ा इत्यादिषु नदीषु सेतवः मग्नाः इत्यतः गमनागमनं स्थगितम्। आगामिदिनेषु वृष्टिजागरणसूचना दत्ता।

 दिल्ल्याम् ऐ ए एस् परिशीलनकेन्द्रे मलिनजलाप्लावः - त्रयाणाम् अकालमृत्युः। 

नवदिल्ली> नगरस्थस्य  'सिविल् सर्वीस्' परिशीलनकेन्द्रस्य भूगर्भे  विद्यमाने  ग्रन्थालये मलिनजलेन पूरिते त्रयः युवकछात्राः अकालमृत्युमुपगताः। द्वे महिले एकः युवकश्च भवन्त्येते। 

  ओल्ड् राजेन्द्रनगरे रावूस् ऐ ए एस् स्टडी सर्किल् नामक परिशीलनकेन्द्रस्य ग्रन्थालयः शनिवासरे रात्रौ ७. ३० वादने  अतिवृष्ट्या मलिनजलपूरितः अभवत्। कुल्यायाः भित्तिः अमितजलप्रवाहेन विशीर्य ग्रन्थालयस्य च भित्तिं नाशयित्वा अन्तः प्राविशत्। उपपञ्चविंशति छात्राः तत्र उपस्थिताः आसन्। एकेनैव बहिर्गमनमार्गेण सर्वे स्वरक्षायै प्रयतिताः तथापि त्रयः जलप्रवाहे संलग्नाः जाताः।

   उत्तरप्रदेशीया टानिया सोणिः [२५], तेलङ्कान जनपदीया श्रेया यादवः [२५] केरले एरणाकुलं जनपदीयः नेविन् डाल्विन् [२८] इत्येते अकालमृत्युं प्राप्तवन्तः।

 भगवद्गीतावाक्यं प्रचोदकमिति मनु भाकरः। 

मनु भाकरः कांस्यपतकेन सह।

पारीस्> "टोक्यो मध्ये संजातां निराशाम् अतिक्रामितुं कतिपयकालम् आवश्यकमभवत्। तस्मिन् काले भगवद्गीता आसीत् ममाश्रयः। तत्रस्थः 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन' इत्यादिश्लोकः मम प्रचोदकः आश्वासश्चासीत्। तस्मिन् विश्वास एव मम अस्योपलब्धेः निदानम्।" पारीस् ओलिम्पिक्से कांस्यपतकलब्धेः परं मनु भाकरस्य वचांस्यासन् एतानि। 

  २०२० तमस्य टोकियो ओलिम्पिक्स् मध्ये लक्ष्यभेदकस्य २५ मीटर विभागस्य अन्तिमस्पर्धायां अग्रवर्तिन्यां सत्यां भुषुण्डिदोषे जाते दुःखेन निराशया च प्रतिनिवर्तवती आसीत्। ततःपरं फलनिरपेक्षेण तीव्रोत्साहेन एव कर्म कृतवती। अत एव एषः कांस्यलब्धिः मनोः मधुरप्रतीकारः भवति। लक्ष्यभेदकस्पर्धायां २५ मी, १० मी स्पर्धाः अपि मनु भाकराय अवशिष्यन्ते।

 पारीस् ओलिम्पिक्स् - भारताय प्रथमपतकम्। 

मनु भाक्करः। 

लक्ष्यभेदिका मनु भाक्करः कांस्यं प्राप्तवती।

पारीसः> ओलिम्पिक्स् महोत्सवस्य द्वितीयदिने भारतं पतकावल्यां स्थानं प्राप्तवत्। महिलानां १० मी वायुभुषुण्डिविभागे [Air Pistol] मनु भाक्करः भारताय तृतीयस्थानं प्राप्तवती। पारीसे भारतेन प्राप्तं प्रथमपतकमेवेदम्। 

  हरियाना जनपदीया मनु भाक्करः २२१. ७ अङ्कैः एव कांस्यं प्राप्तवती। दक्षिणकोरियायाः 'ये जिन् ओ' [२४३. २], 'येजि किम्' [२४१. ३] यथाक्रमं प्रथमं द्वितीयं च स्थाने प्राप्तवत्यौ।

Sunday, July 28, 2024

 उत्तराखण्डे मेघविस्फोटः ; महान् नाशः। 

दराढूणः> उत्तराखण्डराज्यस्य तेहरी गर्वाल प्रदेशेषु मेघविस्फोटात् जाते वृष्टिदुष्प्रभावे मार्गाः सेतवश्च विनाशिताः।नद्यः आप्लुतोदकाः प्रवाहिताः। २६५ वीथिषु यातायातस्थगनम् अजायत। 

  गंगानद्यां जलवितानं हरिद्वारे ऋषीकेशे च  आपत्सूचनारेखामुपगच्छति। जखाना, टोली, गन्वाली प्रदेशेषु प्रचण्डवृष्टिरनुवर्तते।

 कमला हारिसाय ओबामा-मिषेलयोः अनुकूलता।

अट्लान्टा> यू एस् राष्ट्रपतिनिर्वाचने 'डेमोक्राटिक् पार्टी' इत्यस्य स्थानाशित्वं दृढीकृतवत्यै कमला हारिसाय भूतपूर्व राष्ट्रपतेः बराक ओबामा वर्यस्य पत्न्याः त अनुकूलनं वाग्दत्तम्। कमलां दूरवाणीं कृत्वा तौ सहयोगं प्रख्यापितवन्तौ।

Saturday, July 27, 2024

 ओलिम्पिक्सस्य वर्णाभः गभीरश्च शुभारम्भः। 

दीपशिखाप्रोज्वलनम्। 

पारीस्> सेन् नदी वर्णानां पूर्णप्रवाहः। तीरद्वये च मानवमहासागरः। दीपः प्रोज्वलितः। लोकाः सस्मितम् आनन्दमनुभूतवन्तः। ३३ तमस्य ओलिम्पिक्समहोत्सवस्य गभीरः शुभारम्भः जातः।

   "समेषां कायिकक्रीडा" इति ओलिम्पिक्स् मुद्रावाक्यं सार्थकं कृत्वा ईफल् गोपुरस्य पुरतः विद्यमाने ट्रक्कादरो क्रीडाङ्कणे २०६ राष्ट्राणां प्रतिनिधयः दीपं ज्वालितवन्तः।

 पारीसे रेल् यानश्रृङ्खलायां व्युत्क्रमश्रमः। 

पारीसः> ओलिम्पिक्स् उद्घाटनाय केवलं होरासु अवशिष्टासु फ्रान्सस्य टि जि वि इत्यतिशीघ्र रेल् यानश्रृङ्खलायां व्युत्क्रममजायत। पारीसस्य समीपस्थे रेल्वे क्षेत्रे तत्र तत्र दाहकश्रमः कृतः। संज्ञासङ्केताः विनाशिताः। 

  यूरोपीयराष्ट्रेभ्यः फ्रान्सस्य इतरस्थानेभ्यश्च पारीसनगरं प्रति अतिशीघ्र रेल् यानसेवाः निरस्ताः। अष्टलक्षाधिकं यात्रिकान् एतदपकर्म अबाधत। 

  उद्घाटनसमारोहं सङ्कीर्णयितुं उद्दिश्य कृतः आसूत्रितः प्रतिलोमोद्यम इति फ्रन्ञ प्रधानमन्त्रिणा गब्रियेल अत्तालेन प्रस्तुतम्। वामपक्षीयतीव्रवादिनः उत परितःस्थितिप्रवर्तकाः एवास्य पृष्ठतः इति सूच्यते। किन्तु सहस्रशः कर्मकरान् नियुज्य परिहारं कारयित्वा उद्घाटनसमारोहः सम्यक् कृतः।

Friday, July 26, 2024

 सूर्यप्रकाशस्य अभावे अपि सागरान्तर्भागे जीववायोः प्रभवः।

   पसफिक् समुद्रस्य अधः १३०० पादमिते अगाधे स्थाने प्राणवायोः उत्पत्तिस्थानम् अस्ति इति वैज्ञानिकः। प्रोफ. आन्ट्रू स्वीटमान् नामकस्य भवति इदं नूतनाध्ययनम्। मनुष्यस्य प्राणवायोः भूरिः सागरान्तर्भागे विद्यमानायाः 'आल्गा ' इति शैवलसस्याः सूर्य प्रकाशस्य साहाय्येन निर्मितम् इत्यासीत् विश्वासः। किन्तु अधुना नूतनोऽयं अनुशीलनांशः बहिः प्रकाशितः। सागरस्य अन्तर्भागषु दृश्यमनात् अयोसंयुक्तात् जीववायुः स्वयं बहिरागच्छति इत्यस्ति नूतनम् अनुशीलनम्॥

 कार्गिल् विजयस्य अद्य २५ वयांसि। 

भीकरवादम् उन्मूलयिष्यति - प्रधानमन्त्री। 

कार्गिल्> १९९९ तमे वर्षे सम्पन्ने भारत-पाकिस्थानयुद्धे भारतस्य विजयं स्मारयन्तः विजयदिवसः अद्य आघुष्यते। प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च कार्गिल् युद्धस्मारकं सन्दर्श्य पुष्पचक्रं समर्पितवन्तौ। 

  कार्गिल् विजयदिवसः सत्यस्य विजयदिवसः इति युद्धे वीरमृत्युंगतानां  सैनिकानां परिवाराङ्गान् आदृत्य प्रधानमन्त्री अवोचत्। भीकरवादं उन्मूलयिष्यतीति सः संसूचितवान्। 

  १९९९ मेय् मासतः सार्धद्विमासं यावत् अनुवर्तमाने युद्धे ५२७ भारतीयभटाः वीरमृत्युं प्राप्ताः।

 ओलिम्पिक्स् महोत्सवाय अद्य दीपप्रज्वालनम्। 

उद्घाटनवेदिका, ट्रोको दरो क्रीडाङ्कणम्। 

   # जूलाय् २६ तः आगस्ट् ११ पर्यन्तम्। # ३२ अधिकरणेषु १०,५०० ताराणि। # ३५ वेदिकासु ३२९ स्पर्धाः। 

   > विश्वविख्यातस्य ओलिम्पिक्स् कायिकस्पर्धामहोत्सवस्य ३३ तम संस्करणाय अद्य सायं पारीसराष्ट्रे शुभारम्भः भविष्यति। फ्रञ्च् समये ८. २४ वादने गयिंस् वेदिकायां दीपशिखाप्रोज्वलनेन औद्योगिकप्रारम्भं करिष्यति। 

     ओलिम्पिक्सस्य चरित्रे इदंप्रथमतया उद्घाटनमहामहः अनाच्छादितवेदिकायां क्रियते। सेन् नद्यां आयोज्यमानस्य ताराणां प्रस्थानस्य [March past] अनन्तरं ईफल् गोपुरस्य पुरतस्थे 'ट्रोको दरो' क्रीडाङ्कणे होरत्रयात्मकः उद्घाटनसमारोहः विधास्यति। 

    आहत्य ३२ अधिकरणेषु १०,५०० कायिकप्रतिभाः स्पर्धिष्यन्ति। ३५ वेदिकासु ३२९ स्पर्धाः आगामिषु १६ दिनेषु भविष्यन्ति।

Thursday, July 25, 2024

 नेपाले लघुविमानं विशीर्य १८ मरणानि। 

काठ्मण्डुः> नेपालराष्ट्रे कस्याश्चित् निजीयसंस्थायाः लघुविमानम् उड्डयनावसरे विशीर्य १८ विमानकर्मकराः मृताः। विमानचालकः गुरुतरव्रणितावस्थया आतुरालयं प्रवेशितः। आहत्य १९ जनाः विमाने आसन्। 

  राजनगरे काठ्मण्डुमध्ये बुधवासरस्याहनि ११. १० वादने आसीत् दुर्घटना। भारत-नेपालसंस्थायाः शौर्या एयर् लैन्स् इत्यस्य विमानमेव दुर्घटनायां निपतितम्।

 भूमेः अभ्याशे वज्रसम्पन्नः ग्रहः ! नूतनमार्गदर्शकम् अध्ययनम् ।

  भूमौ संदृश्यमानम्अत्यमूल्यं रत्नं भवति वज्रम्। अतिकठोरमिदं रत्नं प्रकृतिजन्यवस्तुरिति गणयन्ति। सौरयूथे भूमेः समीपस्थे बुधग्रहे वज्रस्य बृहत् सञ्चयः भवेत् इति नूतनाध्ययनानि सूचनां ददाति। बुधग्रहस्य उपरितले कार्रबण् वातकस्य आधिक्यमस्ति। बुधग्रहस्य अन्तभार्गः५० कि. मि. यावत् अगाधं भवेत् इति २०१९ तमे कृताध्ययने संसूचितमस्ति। एतत् तापमानस्य मर्दस्य च वर्धनाय प्रभवेत्। तस्य कार्बण् वातकस्य वर्जरूपेण परिवर्तनाय अनुकूलः सन्दर्भः भवति इति अध्ययने सूचयति।

Wednesday, July 24, 2024

 नव दिनान्यतीतानि।

अर्जुनः इदानीमपि अदृश्यमानः वर्तते। 

केरलाः सर्वे प्रार्थनापूर्वं प्रतीक्षन्ते। 

अर्जुनाय मार्गणमनुवर्तते। 

षिरूर्> नव दिनेभ्यः पूर्वं उत्तर कन्नडे भूस्खलनेन गङ्गावलीनदीतीरे  अप्रत्यक्षः केरलीयः भारवाहकचालकः अर्जुननामकः इतःपर्यन्तं न दृष्टः। प्रचण्डवर्षा‌-वाय्वादि प्रतिकूलवातावरणं तृणवत्कृत्य शताधिकैः स्थलनाविकसेनाङ्गैः सन्नद्धभटैः च क्रियमाणम् अन्वेषणं सफलतां न प्राप्तम्। 

   गते १६तमे दिनाङ्के  कोष़िक्कोट् जनपदीये अर्जुने भारवाहकं गङ्गावलीनदीतीरे स्थाप्य तस्मिन्नेव विश्रान्तिं कृते पार्श्वस्थमुन्नतः गिरिशिखरः स्खलित्वा अधः पपात। दुर्घटनायाः परं तृतीयदिने एव बाह्यलोकेन एतस्याः गौरवमभिज्ञातम्। आधुनिकोपकरणैः कृते अन्वेषणे भारवाहकमिति सन्दिह्यमानाः  द्वित्राः सङ्केतसंज्ञाः [signals] लब्धाः अपि मार्गणं व्यर्थमभवत्। श्वः आरभ्य नद्याः अन्तर्भागे मार्गणाय निश्चयः कृतः यतो हि तत्र अर्जुनस्य भारवाहकमिति सन्दिह्यमाना सङ्केतसंज्ञा लब्धा इति अधिकारिभिः सूचितम्।

 सख्यपक्षेभ्यः यथेष्टं ; मध्यवर्गजनेभ्यः आश्वासः।

केन्द्रसर्वकारस्य आयव्ययपत्रम् अवतारितम्। 

नवदिल्ली> निर्वाचनप्रत्याघातस्य पाठं प्रत्यभिज्ञाय सामान्यजनान्, मध्यवर्गान्, कृषकान् च अनुभावेन परिगणय्य निर्मला सीतारामः नरेन्द्रमोदिसर्वकारस्य अस्य आर्थिकसंवत्सरस्य आयव्ययपत्रम् अवतारयत्। तृतीयमोदिसर्वकारस्य प्रथमे वित्तसङ्कल्पने सर्वकारस्य सुगमप्रयाणे पक्षद्वयेन वर्तमानाभ्यां आन्ध्रप्रदेश बिहार राज्याभ्यां सविशेषं आर्थिकसाह्यभाण्डं प्रख्यापितम्। 

  बिहाराय २६,०००कोटिरूप्यकाणां वीथीपरियोजना आन्ध्रप्रदेशाय १५,००० कोटिरूप्यकाणां सविशेषसाह्यं च उद्घोषितम्। 

  कार्षिकक्षेत्राय १. ५२ लक्षं कोटि रूप्यकाणि अनुमोदितानि। ग्रामीणविकासाय २. ६६ लक्षं कोटि, आधारसुविधाविकासपरियोजनायै ११. ११लक्षं कोटि च रूप्यकाणि अनुमोदितानि।तथा च आयकरस्य स्तरे आनुकूल्ययुतः  परिष्कारः विहितः।

 ऐ एन् एस् ब्रह्मपुत्रो नाम युद्धनौकायां अग्निबाधा। नाविकः अप्रत्यक्षो जातः। 

   नाविकसेनायाः ऐ एन् एस् ब्रह्मपुत्रः नाम युद्धनौका अग्निना बाधिता। मुम्बैदेशे नाविकसेनायाः महानौकायाः निर्माणाकारे जीर्णोद्धारणक्रियावेलायामेव घटनेयं दुरापन्ना। अग्निशमनसेनायाः साहाय्येन अग्निः नियन्त्रणविधेयः अभवत् तथापि महानौका पार्श्वमुखीभूय पतिता। भारतेषु इंदप्रथमतया स्वदेशे आविष्कृतायाः महानौकायाः जलावरोहणं२००२ एप्रिल् मासस्य १४ तमे दिनाङके एव कारितम् आसीत्।

Tuesday, July 23, 2024

 भारतस्य ७% अभिवृद्धिः भवेदिति वित्तीयं समग्रवीक्षणम्। 

नवदिल्ली> अस्मिन् आर्थिकवर्षे भारतस्य ६. ५% आरभ्य सप्त प्रतिशत पर्यन्तम् आर्थिकाभिवृद्धिं प्रतीक्षमाणं आर्थिकावलोकनपत्रं वित्तमन्त्रिणी निर्मला सीतारामः संसदि अवतारितवती। गतवर्षे अष्ट प्रतिशतस्य वृद्धिरासीदिति अवलोकनपत्रं अभिमानीकरोति। 

  ऐषमसंवत्सरस्य अवलोकनपत्रे समग्रः कार्षिकपरिष्कारः निर्दिश्यते।

Monday, July 22, 2024

 केन्द्रसर्वकारस्य वित्तसङ्कल्पनपत्रं श्वः। 

नवदिल्ली> तृतीयमोदिसर्वकारस्य प्रथमं वित्तसङ्कल्पनपत्रं श्वः वित्तमन्त्रिणी निर्मला सीतारामः संसदि अवतारयिष्यति। निर्मला सीतारामस्य अनुस्यूतम् अष्टमम् आयव्ययपत्रमेव अवतार्यमाणं वर्तते।

Sunday, July 21, 2024

 पञ्चमदिने अपि अर्जुनः अदृश्यः वर्तते। अन्वेषणाय सेना अपि। 

षिरूर्> उत्तरकर्णाटके षिरूर् प्रदेशे भूस्खलनेन मृदन्तर्भूतः केरलीयः अर्जुनः ह्यस्तनान्वेषणे अपि दृष्टः नाभवत्। रडार् उपयुज्य भारवाहकयानस्य स्थानमधिगन्तुं प्रयत्नः कृत अपि पूर्णफलप्राप्तिः नाजायत। प्रतिकूलपर्यावरणेन गतरात्रौ अन्वेषणं समापितम्। 

  अर्जुनस्य परिवारस्य अभ्यर्थनेन अन्वेषणाय सैन्यस्य साहाय्यं अद्य आरभ्य भविष्यति। दिनत्रयस्यापि विफलप्रयत्नस्य आधारे करणाटकसर्वकारेणापि सेनासाह्यम् अभ्यर्थितमासीत्। सेनायाः प्रथमसंघः रविवासरे प्रयत्नमारप्स्यत इति मेजर् जनरल् विनोद् मत्यू न्यवेदयत्।

 अमेरिकाराष्ट्रस्य राष्ट्रपतिपदे कमला हारिसः भविष्यति।

अमेरिकाराष्ट्रस्य राष्ट्रपतिपदे कमला हारिसः भविष्यति इति जो बैटन: सूचयति। डेमोक्राट्टिक् दलस्य अध्यक्षः भवति बैडनः। इदानीं अध्यक्षस्थानाय प्रचाल्यमानात् स्थानशीस्पर्धातः बैडनः दूरं पलनीयम् इत्यस्ति दलियानां जनानाम् आवश्यकता। अवसरेऽस्मिन् भवति कमला हारिसनः राष्ट्रपति पदे भविष्यति इति   जो बैडनस्य सूचना। नवंबर् मासस्य पञ्चमदिनाङ्के भवति निर्वचनम् । स्थानशि रूपेण ट्रम्पः च स्पर्धिष्यति।

 केरले 'निपा'ज्वरबाधा - राज्ये जागरणनिर्देशः। 

मलप्पुरम्> केरलराज्ये पुनरपि निपा नामकवैराणुज्वरस्य आविर्भावः वृत्तान्तीकृतः। मलप्पुरं जनपदे पाण्टिक्काट् प्रदेशीयः १४ वयस्कः बाल एव निपाबाधया आतुरालयं प्रवेशितः। 

  अस्मिन् मासे दशमदिनाङ्के ज्वरबाधया चिकित्सामारब्धस्य तस्य सप्ताहस्यानन्तरमपि ज्वरस्य शमनं नाभवत्। एतदाभ्यन्तरे मस्तिष्कज्वरोSपि अबाधत। सन्दिग्धाः चिकित्सकाः केरलस्थं तथा पूणैस्थं वैरोलजि संस्थां प्रति स्रवपरिशोधनाय आदेशं कृतवन्तः। तत्र निपारोगः दृढीकृतः। 

  बालकः इदानीं कोष़िक्कोट् आतुरालये तीव्रपरिचर्याविभागे वर्तते। आराज्यं विशिष्य मलप्पुरं कोष़िक्कोट्  जनपदद्वये तीव्रजागरणं निर्दिष्टम्।

Saturday, July 20, 2024

 जलाशयानां पुनःसृष्टिरपि राज्यानां धार्मिकता - सर्वोच्चन्यायालयः। 

नवदिल्ली > न केवलं जलस्रोतसां संरक्षणं किन्तु नीतिविरुद्धेन आपूरितानां जलस्रोतसां पुनःसृष्टिरपि राज्यसर्वकाराणां धर्म इति सर्वोच्चन्यायालयेन निर्दिष्टम्। उत्तरप्रदेशे बिजनोरजनपदे जलस्रोतांसि नीतिविरुद्धतया आपूरितानीति प्रकरणे अन्वेषणसमितिं नियुज्य आसीत् नीतिपीठस्य निरीक्षणम्।

 उत्तरकर्णाटके राजमार्गे भूस्खलनं - १० जनाः मृताः; भारवाहनेन सह एकः मृदन्तर्भूतः। 

बङ्गलुरु> उत्तरकर्णाटके अङ्कोलासमीपे षिरूरप्रदेशे पनवेल् - कन्याकुमारी राष्ट्रियमार्गे भूस्खलनेन दश जनाः मृत्युं गताः। मार्गपार्श्वे स्वस्य भारवाहकयाने  विश्रान्तिमुपस्थितः केरलीयः मृदन्तर्भूतः इति सन्दिह्यते। कोष़िक्कोट् जनपदीयः अर्जुन नामकः एव भारवाहकेन सह अप्रत्यक्षः। 

  जूलाय् १६ तमे दिनाङ्के आसीत् दुर्घटना। किन्तु ह्यः अर्जुनस्य परिवारस्य निवेदनेनैव घटनेयं गौरवास्पदमवर्तत। केरलसर्वकारस्य अन्येषां राजनैतिकदलनेतॄणां च सम्मर्देन ह्यः मृन्निष्कासनयन्त्राणि उपयुज्य अन्वेषणमारब्धम्। कठिनवृष्टिः रक्षाप्रवर्तनस्य प्रतिबन्धो वर्तते। ह्यः रात्रौ समापितमन्वेषणं अद्य पुनरारप्स्यते।

Friday, July 19, 2024

 सर्वधर्मसमभाव- प्रतिपादकं समान नागरिकसंहितां स्थापितुमेव लक्ष्यम् इति प्रधानमन्त्री नरेन्द्रमोदी।

नवदिली> सर्वधर्मसमभाव- प्रतिपादकं समान नागरिकसंहितां (Uniform Civil Code) स्थापितुमेव लक्ष्यम् इति प्रधानमंत्री नरेंद्रमोदी स्वातंत्र्यदिनस्य भाषणे अवदत्। प्रशासनस्य परिष्कृतयः राष्ट्रस्य वृद्धये मार्गदर्शिका एव। २०४७ तमे वर्षे भारतं विकसित-राष्ट्रं भविष्यति  इति महोदयः उक्तवान्।  विद्युत्प्रसरणलभ्यता, शुद्धजलसुगमप्राप्तिः, वातावरणस्य सुस्थितिः च वर्धितवेगेन लक्ष्यम् उपगच्छन्तः सन्ति ।  तथा च शीघ्रं न्यायं दातुम्  अन्यायिकपरिष्कृतयः अपि आवश्यकाः इति निर्दिष्टवान्। www.samprativartah.in

Thursday, July 18, 2024

 पारीस् ओलिम्पिक्स् मध्ये स्पर्धितुं ११७ अङ्गभारतसंघः। 

नवदिल्ली> पारीसराष्ट्रे जूलाय् २५ तमे दिनाङ्के आरभ्यमानासु ओलिम्पिक्स् क्रीडासु स्पर्धितुं ११७ भारतीयक्रीडकाः निश्चिताः। क्रीडकैः सह परिशीलकाः सहायिनः अन्ये सेवकाः इत्यादिरूपेण १४० अङ्गाः अपि अनुगमिष्यन्ति। 

  'अत्लटिक्स्' विभागे एव अधिकाधिकं स्पर्धालवः सन्ति - २९ संख्याकाः।  आहत्य १६ विभागेषु भारतस्य स्पर्धा भविष्यति।

 केरलराज्ये संस्कृतभाषायाः 

 विशेषविषयेषु निमयविरुद्धनियुक्तयः अभवन्। 

   गोश्रीपुरम्>केरलराज्यस्य सर्वजनिकसेवा आयोग (KPSC) द्वारा साहित्यं व्याकरणं न्याय: वेदान्त: ज्योतिषम् इत्यादि सविशेषविषयेषु अशिक्षितानाम् उद्योगार्थिनां नियुक्तये श्रमः। प्रत्येकं विषयेषु (Sanskrit Special) स्नातकोत्तरपदवीधराः एव कलाशालायाः छात्रान् अध्यापयितुं योग्याः। किन्तु सामान्यविषयेषु (Sanskrit General) स्नातकोत्तरपदवीधराः नियुक्तिपट्टिकायां प्रविष्टाः। संस्कृतशिक्षाक्षेत्रे ईदृशरीत्या अनवधानतया क्रियमाणा नियुक्तिः न केवलम् अन्येषाम् उद्योगर्थिनाम् अवसरः न्यूनीक्रियते अपि च शास्त्राध्यनस्य गौरवोपि नष्टीक्रियते । अतः नियुक्तयः सर्वाः अवधानपूर्वाः नियमानुसारिण्यः च भवेयुः। नो चेत् संस्कृतमहाविद्यालयानां प्रसक्तिः एव नष्टा भविष्यति।

 केरले शक्ता वर्षा अनुवर्तिष्यते। 

वयनाटे अद्य शैक्षिकविरामः। 

अनन्तपुरी> रविवासरपर्यन्तं आकेरलं तीव्रवर्षा अनुवर्तिष्यते इति केन्द्र पर्यावरणविभागेन निगदितम्। उत्तरकेरलतीरात् गुजरातस्य तीरपर्यन्तं न्यूनमर्दवीथिः वर्तते। तथा च वंगान्तरालसमुद्रे शुक्रवासरे नूतनो न्यूनमर्दः भविष्यति इत्यतः वर्षा अनुवर्तिष्यते। 

  अद्य वयनाट् जनपदे जनपदाधिकारिणा शैक्षिकसंस्थानां विरामः प्रख्यापितः। केरलस्य ११ जनपदेषु ओरञ्ज् जागरणं प्रख्यापितम्।

Wednesday, July 17, 2024

 चिट्टूर् नद्यां लग्नाः चत्वारः अग्निरक्षासेनया रक्षिताः। 

चिट्टूर् नद्यां लग्नान् अग्निरक्षासेना रक्षां करोति। 

पालक्काट्> केरले अतिवृष्ट्या नद्यां जलोपप्लवे जाते नदीमध्यस्थे शिलातले लग्नाः चत्वारः एकपरिवारीयाः अग्निरक्षासेनायाः तीव्रयत्नेन रक्षिताः। मैसुरु पुरीयः लक्ष्मणः [७१],तस्य पत्नी देवी [६५], पुत्रः सुरेशः [३२], पौत्रः विष्णुः [१९] इत्येते मङ्गलवासरे मध्याह्ने चिट्टूर् नद्यां लग्नाः अभवन्। स्नानार्थं नदीं प्राप्ताः ते मन्दप्रवाहस्थाने स्नानं कुर्वत्सु  अप्रतीक्षितः जलोपप्लवः जातः। झटिति तीरं प्रतिनिवर्तयितुमुत्साहवत्स्वपि प्रवाहे शक्ते जाते नदीमध्यस्थं शिलातलम् अभयं प्रापुः। 

  श्रुतवृत्तान्ताः आरक्षकाः स्थानमेत्य जागरणनिर्देशं दत्वा अग्निरक्षासेनामाहूतवन्तः। एतदाभ्यन्तरे मन्त्री के कृष्णन् कुट्टिवर्यः अपि तत्रागत्य रक्षाप्रवर्तने नेतृत्वमावहत्। सार्धैकहोरायाः कठिनप्रयन्तस्य अन्ते सर्वे तीरं प्राप्ताः।

 काश्मीरे भीकरसैनिकप्रतिद्वन्द्वः - चत्वारः सैनिकाः वीरमृत्युं प्राप्तवन्तः।

जम्मु> जम्मु काश्मीरस्य दोडा जनपदे भीकरैः सह प्रतिद्वन्द्वे नेतारमभिव्याप्य चत्वारः सैनिकाः वीरमृत्युं प्रापुः। सोमवासरे रात्रौ नववादने उत्तरदोडायां जम्मु काश्मीरस्य आरक्षकदलेन सह सैन्येन कृते अन्वीक्षणमध्ये आसीत् प्रतिद्वन्द्वः। पञ्च सैनिकाः तीव्रेण आहताः तेषु चत्वारः परं मृत्युमुपगताः। 

  आक्रमणस्य उत्तरदायित्वं पाकिस्थानस्य सहयोगेन प्रवर्तमानस्य जेय्षे मुहम्मद् इत्यस्य पोषकसंघटनं 'काश्मीर् टैगेर्स्' इत्यनेन स्वीकृतम्। नान्तर्भागे निलीयमानेभ्यः भीकरेभ्यः उदग्रयान-ड्रोण् इत्यादिभिः अन्वेषणमारब्धमिति सेनया निगदितम्।

Tuesday, July 16, 2024

 केरले सर्वत्र प्रचण्डवृष्टिः - व्यापकविनाशः, पञ्च मृत्यवः। 

कोच्ची> दिनत्रयेण आकेरलम् अनुवर्तमानायां कठोरवृष्ट्यां सर्वत्र व्यापकविनाशः अभवत्। मध्यकेरले उत्तरकेरले च जनजीवितं दुस्सहं जातम्। मृत्पातेन प्रचण्डवातेन च वृक्षाः उन्मूलिताः, यातायाताः स्थगिताः। निम्नप्रदेशस्थेषु गृहेषु जलोपप्लवः जातः। 

  पालक्काट् जनपदे गृहम् अधःपतित्वा द्वौ मृतौ। अन्यत्र जलसञ्चये निपात्य अन्ये त्रयोSपि मृत्युवशं गताः।

  बह्व्यः नद्यः जलपूरिताः वर्तन्ते। सर्वत्र जागरणनिर्देशः कृतः।

 कोपा चषके अर्जन्टीनायाः मधुरचुम्बनम्। 

कोपाचषकेन सह अर्जन्टीनादलः। 

बेर्लिन्> यू एस् ऐक्यराष्ट्राणां पादकन्दुकवीरताप्रकटनपरम्परायाः अन्तिमे चषकचुम्बनसौभाग्यः अर्जन्टीनायै लब्धः। अधिकसमयं दीर्घिते अत्युत्साहयुतप्रतिद्वन्द्वे कोलम्बियां एकेन लक्ष्यकन्दुकेन पराजित्य एव अर्जन्टीनया  चषकग्रहणं कृतम्। 

    आहत्य १६ वारं अर्जन्टीना कोपाचषकमजयत। अनुस्यूततया द्वितीयवारमेव अयं विजयः। लौटारो मार्टिनसः अर्जन्टीनायै  विजयलक्ष्यं प्राप्तवान्। कोलम्बियायाः हामिष् रोड्रिगसः परम्परायाः क्रीडकवीरपदं प्राप्तवान्।

 कुल्यायां मालिन्यनिर्माजनाय प्रयतितः कर्मकरः मालिन्यप्रवाहे पतित्वा मृतः।

जोयेः कृते विधत्तस्य रक्षाप्रवर्तनस्य विविधदृश्यानि। 

 

मालिन्यविक्षेपसंस्कृतेः बलिदानी भूत्वा जोयि। 

अनन्तपुरी> केरलस्य राजधानीनगरे अनन्तपुर्यां रेल् निस्थानस्य समीपस्थायां कुल्यायां रेल्मार्गाधिकारिणः निर्देशेन पलास्तिकमालिन्यानि अभिव्याप्य सर्वमालिन्यनिर्मार्जनाय प्रयतितेषु शुचीकरणकर्मकरेषु अन्यतमः  कुल्यायां मलिनजलप्रवाहे पतित्वा मृतः। नेय्याटिन्कर प्रदेशीयः मारायमुट्टं वटकरग्रामवासी जोयिनामकः एव शनिवासरे प्रभाते एकादशवादने आपदि मग्नः। 

     अन्यैः कर्मकरैः साकं 'आमयिष़ञ्चान्' नामिकायां कुल्यायां जोयिनामके  मालिन्यनिर्माजनप्रवर्तने क्रियमाणे वर्षाजातं जलप्रवाहं निपत्य रेल् निस्थानस्य अधः १५० मीटर् दीर्घयुतं कुल्यान्तर्भागं प्रति अपनीतः आसीत्। कुल्यायां मनुष्योन्नतेरधिकं उन्नतौ पलास्तिकसहितमालिन्यसञ्चयः अवर्तत इत्यतः रक्षाप्रवर्तनं दुष्करमासीत्। अग्निशमनसेना, निमज्जनकुशलाः, रोबोट् यन्त्रं इत्यादिभिः कृतं 

दिनद्वयस्य रक्षादौत्यं विफलं जातम्। 

   तृतीयदिने - सोमवासरे -  मृतशरीरं एककिलोमीटर् दूरे आमयिष़ञ्चान् कुल्यायामेव तकरप्परम्प् नामके स्थाने नगरसभायाः शुचीकरणप्रवर्तकैः जोयेः चेतनारहितं शरीरं दृष्टमभवत्। अग्निक्षासेनया मृतदेहं कुल्यायाः बहिर्नीत्वा आधिकारिककार्यनिर्वहानन्तरं जोयेः गृहं प्रापयित्वा संस्कारकर्माणि कृतानि। 

  न केवलं नगरवासिनां किन्तु सर्वेषां मानवानां अक्षन्तव्यः अधार्मिकः मालिन्यविक्षेपः  इति दुराचारस्य पुनर्विचिन्तनाय जोयेः बलिदानं कारणं भवेत्।

Monday, July 15, 2024

 डोणाल्ड् ट्रम्पः भुषुण्डितः; व्रणितकर्णः। 

एकः नागरिकः हतः। आक्रमणकारी सुरक्षाभटैःनिहतः। 

डोणाल्ड् ट्रम्पः। 

पेन्सिल् वेनिया> निर्वाचनप्रचारणमध्ये दुरापन्नं हत्याश्रमम् अतिजीव्य यू एस् राष्ट्रस्य भूतपूर्वः राष्ट्रपतिः डोणाल्ड् ट्रम्पः। शनिवासरे सायं ६. ०८ वादने [भारतसमयः रविवासरस्य प्रत्युषसि ३. ३८] प्रचारणसम्मेलने भाषमाणे आसीत् हत्याश्रमः। प्रभाषणवेदिकातः १५० मीटर् दूरस्थस्य भवनस्य उपरि स्थितः युवकः एव भुषुण्डिप्रयोगं कृतवान्।

  दक्षिणकर्णे घर्षितशस्त्रः ट्रम्पः झटित्येव सुरक्षाभटैः रक्षितः आतुरालयं प्रविष्टश्च। सः स्वस्थो वर्तते इति प्रचारणविभागेन निगदितम्।

 अन्धान् श्रावयितुं 'कीबो' समागता। 

६० संख्याकाः भाषाः अनया पठिष्यन्ते।

केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि 

  नवदिल्ली> संस्कृतं चैनीस् इत्यारभ्य  ६० संख्याकाः भाषाः उच्चैः पठितुं शक्यते 'कीबो' इति नामिकायाः निर्मितबुद्धियुक्तायाः सङ्गणकसुविधायैः। दृश्यान्धानां साहाय्यार्थं निर्मिता भवति इयं सुविधा। विभिन्नभाषायां विरचितानि पुस्तकानि स्वस्य इष्टतमभाषायां श्रोतुमसरः अनया सिध्यते अन्धेभ्यः। 

   लोकसभायाः संसद् पुस्तकालयः, कोलकत्त राजभवनं, ऐ ऐ टि दिल्ली, केरल - कर्णाटक - गुजरात् - बेरहांपूर -त्रिपुर विश्वविद्यालयेषु च सज्जिताः सन्ति। इदानीं इदं प्रथमथया केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि सुविधेयं सज्जिताः सन्ति। हस्तेन लिखितं टिप्पणी-पुस्तकमपि पठितुं 'कीबो' सक्षमा भवति। अतः नयनान्धतया पीडितानां पिपठिषूणं हृदयेषु ज्ञन- विज्ञानकमलानां विकासाय एषा 'कीबो' उपकरोति।

 यूरो वीरः स्पेयिनः। 

इङ्लण्टं १ - २ क्रमेण पराजितवान्। 

बर्लिन्> यूरो चषक पादकन्दुकक्रीडायां स्पेयिनराष्ट्रं वीरतापदं प्राप। ह्यः अर्धरात्रौ बर्लिननगरे सम्पन्ने अन्तिमप्रतिद्वन्द्वे इङ्लण्टं एकं विरुध्य द्वे लक्ष्यकन्दुके सम्पाद्य स्पेयिनदलः विजयकिरीटमधरत्। स्पेयिनस्य चतुर्थं यूरो किरीटं भवत्येतत्। अपराजित क्रीडाभिरेव स्पेयिनस्य किरीटप्राप्तिः। 

  स्पयिनाय निको विल्यंसः [४६ तमे निमिषे] युनोय् मिकेल् ओयर् सबालः [८६ तमे निमिषे] च एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ। दलस्य कौमारक्रीडकः लामिन् मियालः श्रेष्ठक्रीडकपदं प्राप्तवान्।

Sunday, July 14, 2024

 विधानसभा उपनिर्वाचनेषु इन्डियासख्यस्य उज्वलविजयः। 

नवदिल्ली> सप्तसु राज्येषु १३ विधानसभामण्डलेषु सम्पन्नेषु उपनिर्वाचनेषु इन्डियासख्यस्य उज्वलविजयः। १० स्थानेषु इन्डियासख्यस्थानाशिनः, द्वयोः भाजपा स्थानाशिनौ, एकस्मिन् मण्डले स्वतन्त्रस्थानाशी च विजयं प्राप्तवन्तः। 

वंगराज्ये ४/४ स्थानानि तृणमूल् कोण्ग्रसेन विजितानि। हिमाचलप्रदेशस्य त्रिषु द्वौ कोण्ग्रसेन प्राप्तौ; एकं भाजपादलेन च प्राप्तम्। उत्तरखण्डस्य बदरीनाथमण्डले कोण्ग्रस स्थानाशी विजितः। तमिलनाटे डि एम् के, पञ्चाबे ए ए पि, मध्यप्रदेशे भाजपा इत्येतेषां दलानां स्थानाशिनः च विजितवन्तः। किन्तु बिहारे रुपौलि मण्डले स्वतन्त्रस्थानाशी शङ्करसिंहः विजितवान्।

 कोपा अमेरिका - अन्तिम स्पर्धा श्वः प्रत्युषसि।

अर्जेन्टीना × कोलम्बिया 

फ्लोरिडा> कोपा अमेरिका नामक अमेरिकीय ऐक्यराष्ट्राणां मध्ये प्रचाल्यमानायाः पादकन्दुकक्रीडापरम्परायाः अन्तिमः प्रतिद्वन्द्वः सोमवासरस्य प्रत्युषसि ५. ३० वादने [भारतीयसमयः] विधास्यति। फ्लोरिडायां अर्जेन्टीना  कोलम्बिया दलयोर्मध्ये भविष्यति स्पर्धा।

  लयणल् मेसिवर्यस्य नायकत्वे क्रीडाङ्कणं प्राप्नुवन्  अर्जेन्टीना दलः १६ तमं कोपाकिरीटं तथा अनुस्यूत‌ं द्वितीयविजयं च प्रतीक्षते। अतीतासु  २८ स्पर्धासु संघबलात् अपराजितः कोलम्बियादलः २३ वर्षानन्तरमेव अन्तिमस्पर्धां प्रविष्टवान्।

 नेपालसंसदि विश्वासमतप्रस्तावे प्रचण्डस्य पराजयः। 

पुष्पकमल दहलः [प्रचण्डः] 

काठ्मण्डुः> लेपालसंसदि शुक्रवासरे विधत्ते विश्वासप्रस्तावमतदाने प्रधानमन्त्री पुष्प कमल दहलः [प्रचण्डः] पराजितः अभवत्। संसदि सन्निहितेषु २५८ सदस्येषु केवलं ६३ सदस्याः प्रचण्डम् अनुकूलितवन्तः। 

  प्रचण्डेन नेतृत्वमावहते सख्यदलप्रशासनाय बृहत् दलेन सि पि एन्-यू एम् एल् नामकेन दत्तम् अनुकूलनं तेनैव निराकृतम् इत्येतत् प्रचण्डसर्वकारे प्रतिसन्धेः कारणमभवत्। ७९ स्थानयुक्तः सि पि एन्-यू एम् एल् दलः ८९ स्थानयुक्तेन नेपालि कोण्ग्रस् इत्यनेन सह सख्यमकरोत्। दलद्वयस्य १६७ स्थानानि सन्ति।

Saturday, July 13, 2024

 विष़िञ्ञे केरलस्य विकासस्वप्नाः।

विष़िञ्ञं नौकाश्रयस्य उद्घाटनकार्यक्रमः।वेदिकायां केन्द्रमन्त्री,मुख्यमन्त्री,इतरे मन्त्रिणः च।

अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यति - सर्बानन्द सोनोवालः।

विकासाय ५००० कोटीनां भाण्डाभियोजना आवश्यकी - पिणरायि विजयः। 

आगामिसोपानत्रयं वर्षचतुष्टयेन पूर्तीकरिष्यति - करण अदानिः। 

तिरुवनंतपुरम्> केरलराज्यस्य भविष्यत् विष़िञ्ञं नौकाश्रयमाश्रित्य वर्तत इति मुख्यमन्त्री पिणरायि विजयः अवदत्। नौकाश्रयस्य अनुबन्धविकासाय ५००० कोटि रूप्यकाणां सविशेषा भाण्डाभियोजना [Package] आवश्यकीति तेन केन्द्रसर्वकारं प्रति निर्दिष्टम्। विष़िञ्ञं नौकाश्रयस्य उद्घाटनं कृत्वा भाषमाणः आसीत् मुख्यमन्त्री । 

   अनेन नोकाश्रयेण केरलं राष्ट्रं च अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यतीति केन्द्रमन्त्रिणा सर्बानन्द सोनोवालेन प्रतीक्षा प्रकटिता। राष्ट्रस्य वित्तसम्पादने निर्णायकं स्थानं वोढुं विष़िञ्ञं परियोजनया शक्यते इति तेनोक्तम्। 

   २०,००० कोटि रूप्यकाणां निक्षेपं प्रतीक्षमाणायाः परियोजनायाः आगामि त्रीणि सोपानानि वर्षचतुष्टयेन पूर्तीकरिष्यन्तीति नौकाश्रयस्य स्वामित्वमावहतः 'अदानि विष़िञ्ञं प्रैवट् लिमिटेड ' इत्यस्य निदेशकमुख्यः करण अदानिः सदृढमब्रवीत्। अनुबन्धपरियोजनया ७००० जनानां कृते कर्म दातुमवसरः अस्तीति तेनोक्तम्।

 कोविड् - प्रतिसप्ताहं १७०० मरणानि। 

जनीव> कोविडमहामारी अधुनापि आविश्वं प्रतिसप्ताहं १७०० जनानां प्राणान् अपहरतीति विश्वस्वास्थ्यसंघटनेन [WHO] निगदितम्। वैराणुबाधा सम्भाव्यमानैः स्वास्थ्यप्रवर्तकैः षष्ट्यधिकवयस्कैः च प्रतिरोधवाक्सिनं करणीयमिति WHO संस्थायाः निदेशकप्रमुखः टेट्रोस् अथनों वर्यः अवोचत्।

 नेपाले भूस्खलनं - ६५ बस् यानयात्रिकाः अप्रत्यक्षाः।

अप्रत्यक्षेषु ७ भारतीयाः। 

काठमण्टु> प्रचण्डे मण्सूण् वर्षाकाले, नेपालराज्ये गतदिने दुरापन्ने भूस्खलने द्वे बस् याने त्रिशूली नद्यां निपत्य ६५ यात्रिकाः अप्रत्यक्षाः अभवन्। तेषु ७ भारतीयाः इति नेपालस्य आरक्षकवृन्देन निगदितम्।

  चित्वान् जनपदस्य नारायण् घाट्-मग्लिंगमार्गे शुक्रवासरे प्रत्यूषे आसीत् भूविच्छेदः। तत्समये अनेन मार्गेण सञ्चरत् 'एञ्चल्', गणपति नामकं यानद्वयं ३० मीटर् अधःप्रवहन्यां त्रिशूलीनद्यां निपतितमासीत्। झटित्येव रक्षाप्रवर्तनानि आरब्धानि। किन्तु नारायण् घाट्-मग्लिंगमार्गे यातायातं स्थगितं वर्तते।

Friday, July 12, 2024

 यूरो चषकः - स्पेयिन् इङ्लण्टयोः अन्तिमस्पर्धा। 

डोर्ट्मुण्ड्> यूरोकप् नामकपादकन्दुकवीरतास्पर्धानाम् अन्तिमप्रतिद्वन्द्वे स्पेयिनः इङ्लण्टेन सह स्पर्धिष्यते। रविवासरस्य रात्रौ भवति स्पर्धा। 

  गतदिने सम्पन्ने उपान्त्यचक्रस्य अन्यतमे प्रतिद्वन्द्वे इङ्लण्टदलेन नेतर्लान्टदलः २ - १ इति लक्ष्यकन्दुकरीत्या पराजितः।

  उपान्त्यचक्रस्य अन्यस्मिन् प्रतिद्वन्द्वे स्पेयिनदलः फ्रान्सदलं २ - १ इति लक्ष्यकन्दुकक्रमेण पराजित्य अन्त्यस्पर्धां प्राविशत्। यूरो चषकस्य अन्तिमस्पर्धायां  स्पेयिनस्य पञ्चमं प्रवेशनं भवत्येतत्।

Thursday, July 11, 2024

 दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे सुसम्पन्नं दशदिवसीयसंस्कृतसम्भाषणशिविरम्

प्राथमिककक्षातः संस्कृतस्य पठनं पाठनं च भवेत् – सीतादेवी (मुख्यातिथिः)

भारतीयसंस्कृतिः संस्कृताश्रिता - डॉ.रामसंयोगरायः (अध्यक्षः)

भारतीयभावैक्याय संस्कृतस्यास्ति महती भूमिका - डॉ.छबिलालन्यौपानेः (संयोजकः)

देवभाषा जनभाषा च संस्कृतम् - डॉ.वीरसनातनपूर्णेन्दुरायः (प्रशिक्षणप्रमुखः)

      बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृत-विश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन २०२४ तमवर्षस्य जुलाईमासस्य द्वितीयदिनाङ्कादारभ्य एकादशदिनाङ्कं यावत् दशदिवसीयं संस्कृतसम्भाषणशिविरं समनुष्ठितम्। संस्कृतसम्भाषणशिविरस्य अध्यक्षः महाविद्यालयस्य प्रधानाचार्यः डॉ.रामसंयोगरायः, संयोजकः डॉ.छबिलालन्यौपानेः, प्रशिक्षणप्रमुखश्च डॉ.वीरसनातनपूर्णेन्दुरायः आसीत्। शिविरकार्यक्रमस्य समापनसत्रे मुख्यातिथिरूपेण दरभङ्गाजनपदपरिषदध्यक्षा माननीया श्रीमती सीतादेवी, विशिष्टातिथिरूपेण च दरभङ्गाजनपदपरिषदः सदस्यः श्रीमान् अमरनाथशर्मा च उपस्थितौ आस्ताम्। अनयोः अतिथ्योः स्वागतं मिथिलापरम्परानुसारेण उष्णीष-उत्तीरय-माल्यापर्णादिना विहितम्। संस्कृतसम्भाषणशिविरे डॉ.वीरसनातनपूर्णेन्दुरायनिर्देशने महाविद्यालयस्यान्यशिक्षकाः डॉ.विभूतिनाथझाः, डॉ.रेणुझाः, डॉ.सरस्वतीकुमारी, डॉ.रेणुझाश्च संस्कृतसम्भाषणं पाठितवन्तः। शिविरस्य सुव्यवस्थापनदायित्वं महाविद्यालयस्य शिक्षकैः डॉ.सरिताकुमारी-डॉ.नियतिकुमारी-डॉ.नीतेशकुमारमिश्रैः कार्यालयीयकार्यञ्च श्रीमुकुन्दकुमारेण निर्व्यूढम्। संस्कृतसम्भाषणशिविरेऽस्मिन् प्रशिक्षणार्थम् (९०)नवतिसंख्यकाः महाविद्यालयस्य छात्राः सामाजिकाः च प्रशिक्षार्थिनः आसन्, येषु श्रुतिप्रिया, कबीरदासः, अञ्जूः, नीतीशः, अभिनवः, मीनूः, आरती, छोटी, सृष्टिः, अञ्जलिः, प्रभुसहनी, सुरेशसहनी, बालकृष्णः, अनुः, पूजा, अरविन्दः, सुमितपासवानः, लक्ष्मीः, पुष्पाञ्जलिः, आदित्यः, राजकुमारझाः, वीणीपाणिः च इत्यादिभिः विद्यार्थिभिः संस्कृतसम्भाषणशिविरे प्रशिक्षणानुभवं सरलसंस्कृतभाषामाध्यमेन व्यक्तीकृतम्।

 विष़िञ्ञं नौकाशयः प्रवर्तनसज्जः; प्रथमं पण्यनौकायानं नौकाश्रयं प्राप्तम्। 

विष़िञ्ञं नौकाश्रयः। 

अनन्तपुरी> केरलस्य विकासस्वप्नस्य सार्थकता। विष़िञ्ञं समुद्रतटे प्रवर्तनसज्जं नौकाश्रयं प्रति प्रथमं पण्यनौकायानं अद्य प्रभाते प्राप्तम्। 

  विश्वस्य द्वितीयं महानौकासंस्था 'मेस्क्' इत्यस्य 'सान् फेर्णाण्डो' नामकं पण्ययानमेव विष़िञ्ञं प्रति सम्भारकाणि  [Containers] ऊढ्वा प्राप्तम्। 

  शुक्रवासरे प्रभाते दशवादने मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे महानौकायै स्वीकरणं दास्यति। केन्द्र नौकाश्रयमन्त्री सर्बानन्द सोनोवालः मुख्यातिथिः भविष्यति।

 बहिराकाशे सुनितायाः वार्ताहरसम्मेलनम्। 

वाषिङ्टणं> अन्ताराष्ट्र बहिराकाशनिलयात् [ऐ एस् एस्] बोयिंङ् इत्यस्य 'स्टार् लैनर्' पेटकेनैव सुरक्षितौ भूत्वा भूमिं प्रत्यागन्तुं शक्यते इति सुनिताविल्यंसः बुच् विल्मोरः इत्येतौ बहिराकाशयात्रिकौ आत्मविश्वासं प्रकटितवन्तौ। पेटके समायोजिते तत्समयवार्ताहरसम्मेलने सुनितया उक्तं यत् ऐ एस्  एस् मध्ये इदानीं आवां अधिकतया परीक्षणानि कुर्वन्तौ स्मः।  

  जूण् पञ्चमे दिनाङ्के आसीत् तयोः बहिराकाशयात्रा। सप्ताहद्वयानन्तरं प्रत्यागमने प्रतीक्षिते पेटके हीलियं वातकस्य स्रवणेन तस्य परिहारक्रियया प्रतिनिवर्तनं विलम्बितम्।

Wednesday, July 10, 2024

 गुहामार्गे जलौघः - कोङ्कण् रेल् यानानि मार्गपरिवर्तितानि। 

मुम्बई> कोङ्कण् रेल् मार्गस्य गुहामार्गे जलसञ्चयः दृष्टः इत्यतः कोङ्कण् मार्गेण धावनीयानां रेल्यानानां  मार्गः  परिवर्तितः। गान्धिधामः, जामनगरं, मङ्गला इत्यादीनि यानान्येव मार्गपरिवर्तितानि।

 भीकरान् अधिगन्तुं संयुक्तान्वेषणम्। 

भीकरैः सह पुनरपि प्रतिद्वन्द्वः। 

जम्मु> जम्मु काश्मीरे कठुवा जनपदे पञ्च सैनिकानां वीरमृत्युहेतुभूतान् भीकरान् अधिगन्तुं राष्ट्रस्य सुरक्षासेनाः संयोज्य अन्वेषणमारभन्त। गतदिने दोडजनपदे च सैन्य-भीकरप्रतिद्वन्द्वः संवृत्तः। कतिपयभीकराः निगडिताः इति सूच्यते। वने निलीय आक्रमणं कर्तुं सिद्धपरिशीलिताः उपषष्ठिः विदेशभीकराः जम्मुप्रान्ते प्रवर्तनं कुर्वन्तीति वृत्तान्तमस्ति।

 गौतम गम्भीरः भारतक्रिकट् दलस्य मुख्यपरिशीलकः। 

गौतम गम्भीरः। 

नवदिल्ली> पूर्वभूतः भारतीयक्रिकट् क्रीडकः गौतम गम्भीरः भारतस्य क्रिकट् दलस्य मुख्यपरिशीलकः भविष्यति। बी सी सी ऐ संस्थायाः अध्यक्षेण जय् शाहेनैव वृत्तान्तमिदं निगदितम्। 

  वर्तमानीनपरिशीलके राहुलद्राविडे निवर्तिते तत्स्थाने एव गम्भीरस्य नियुक्तिः। २०२७ डिसम्बर एकत्रिंशदिनाङ्कं यावदेव गौतम गम्भीरस्य कालावधिः।

Tuesday, July 9, 2024

 रष्यायाः आक्रमणेन युक्रैने ३६ मरणानि। 

कीव्> युक्रैनस्य राजधान्यां कीव् नगरे इतरप्रदेशेषु च रष्यया  मिसैल् आयुधेन कृते आक्रमणे ३६ जनाः निहताः, २४० जनाः आहताश्च। युक्रैनस्य बृहत्तमः बालकातुरालयः अपि आक्रमणे विनाशितः। 

  आतुरालयस्थाः २० जनाः हताः। 

  चत्वारिंशदधिकानि मिसैल् आयुधानि सोमवासरे युक्रैने निपतिताः इति राष्ट्रपतिना व्लोदिमर् सेलन्स्कि वर्येणोक्तम्। वासमन्दिरसमुच्चयाः सार्वजनीनसंस्थाश्च आक्रमणलक्ष्यमिति च तेनोक्तम्।

 दिनद्वयस्य सन्दर्शनाय मोदी रष्याराष्ट्रं प्राप्तवान्।

    मोस्को> द्वि दिनात्मकसन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्रमोदीमहोदयः रूस् राष्ट्रं प्राप्तवान्। राष्ट्रपतिना व्लादिमिर् पुटिनेन सः विविधविषयान् अधिकृत्य चर्चिष्यते।

 जम्मुसमीपे पुनः भीकराक्रमणम्। 

पञ्च सैनिकानां वीरमृत्युः। 

कठुवा> जम्मुकाश्मीरस्थे कठुवाजनपदे सोमवासरे कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युं प्राप्तवन्तः।पञ्च व्रणिताश्च। 

  ह्यः मध्याह्नानन्तरं सार्धत्रिवादने कठुवनगरात् १५० कि मी दूरे वर्तमाने वनप्रान्ते बदनोटा ग्रामे परिक्रमणं क्रियमाणं सैनिकव्यूहं प्रति आसीत् आक्रमणम्। सुरक्षासेनया प्रत्याक्रमणं कृतमपि भीकराः वनान्तर्भागे रक्षां प्राप्तवन्तः। उग्रशक्तियुक्तैः स्फोटकायुधैः अतिक्रामिताः भीकरा एव  आक्रमणं कृतवन्त इति सैनिकाधिकारिभिः निगदितम्।

Monday, July 8, 2024

 एवरस्टे खनीभूतानां मृतशरीराणां मालिन्यानां च निर्मार्जनाय बहुसंवत्सराणि आवश्यकानि भवेयुः।

   विश्वस्मिन्  अत्युन्नतसानुरिति प्रसिद्धः एवरस्ट् सानुः मालिन्यानामाकरः अभवत् इति वार्ता बहिरागता। तेषु मालिन्येषु पर्वतारोहणमध्ये मृतानां जनानां देहावशिष्टाः च सन्ति। एते मृतदेहावशिष्टा: खनीभूय संवत्सराणि यावत् सानुषु न्यस्ताः सन्ति। एतेषां निर्मार्जनाय नानाविध-प्रयत्नानि कृतानि तथापि मालिन्यानि पूर्णतया निवारयितुं न शक्यानि। पूर्णतया निर्माजयितुम् अनेकसंवत्सराणि आवश्यकानि इति वैज्ञानिकाः अभिप्रयन्ति।

 नेपाले प्रचण्डवृष्टिः - १४ मरणानि। 

काठ्मण्डुः> नेपालदेशे गुरुवासरतः आरभ्य अनुवर्तमानायाः प्रचण्डवृष्टेः दुष्प्रभावेन १४ जनाः मृत्युमुपगताः। भूविच्छेदे जलोपप्लवे च अन्ये नव जनाः अप्रत्यक्षाः अभवन्। 

  नेपालदेशे जातः प्रलयः भारते बङ्गलादेशे अपि जनजीवितं दुस्सहमकरोत्। मण्सूण् वृष्टिः जूणमासस्य अर्धे आरब्धा। तदा प्रभृति इतःपर्यन्तं भूविच्छेदेन, जलोपप्लवेन, सौदामिनीप्रहरेण च ५० जनाः आनेपालं मृताः इति वृत्तान्तः अस्ति।

 अतिवृष्टिकारणेन मुम्बै विमानपत्तनस्य प्रवर्तनेषु विघ्नाः अभवन्। बहूनि विमानानि निरस्तानि।

मुम्बै> अतिवृष्टिकारणेन मुम्बै विमानपत्तने प्रवर्तनविघ्नाः आयाताः। अतः पञ्चाशत् अधिकानि विमानानि निरस्तानि अथवा सञ्चारपथानां परिवर्तनं कृत्वा विमानसेवा कृता। अहम्मदाबाद्, हैदराबाद्, इन्टोर् इत्यादिभ्यः विमानपत्तनेभ्यः सञ्चारपथं परिवर्त्य सेवामकरोत् इति प्रतिवेदनमस्ति। अद्य प्रातरारभ्य मुम्बैदेशे समीपप्रदेशेषु च अतिवृष्टिः दुरापन्ना।

 केरलस्य 'लिटिल् कैट्स्' परियोजनां प्रशंसन्ती 'यूणिसेफ्'संस्था। 

लिटिल् कैट्स् इत्यस्य चिह्नः। 

अनन्तपुरी> केरलानां विद्यालयेषु ऐ टि शिक्षायै [Information Technology] परियोजिताः 'लिटिल् कैट्स्' नामकाः ऐ टि समाजाः [I T Clubs] आदर्शपराः इति ऐक्यराष्ट्रसंघटनस्य यूणिसेफ् विभागेन प्रशंसितम्। ऐ टि शिक्षायै रूपीकृतः भारतस्य बृहत्तमः छात्रसमाजः भवति लिटिल् कैट्स्।  विद्यालयानाम् उच्चतरस्तरेषु सामाजिकविकासमुद्दिश्य राज्यस्य प्रादेशिकस्तरेषु च परियोजनेयं व्याप्यमाना भवेदिति तेषां अनुशीलनावेदने निर्दिष्टम्। 

  यूणिसेफस्य आगोलरचनासंविधाने अपि संयोजनीया इयं परियोजनेति च आवेदने सूचितमस्ति। केरलेषु २१७४ सर्वकारीय-साह्याधिष्ठितविद्यालयेषु १. ८० लक्षं छात्राः प्रतिवर्षं लिटिल् कैट्स् समाजे अङ्गत्वं स्वीकृत्य पठनं कुर्वन्ति।

 जम्मु-काश्मीरे सैन्य-भीकरसंघट्टनम् अनुवर्तते। 

द्वयोः सैनिकयोः वीरमृत्युः; एकः आहतश्च। 

षट् भीकराः निहताः। 

श्रीनगरं> जम्मु-काश्मीरस्थे रजौरि जनपदे शनिवासरे आरब्धं सैन्य-भीकरसंघट्टनम् अनुवर्तते। 

  कुलगमजनपदे गतदिने सैनिकभीकरयोर्मिथः जाते युगलसंघट्टने ६ भीकराः हताः। द्वौ सैनिकौ वीरमृत्युं प्रापतुः। ह्यः प्रत्युषसि गलूति ग्रामस्थं सैनिककेन्द्रं प्रति भीकराः भुषुण्डिप्रयोगं कृतवन्तः। अर्धहोरां यावत् दीर्घिते सैन्यस्य प्रतिरोधे  एकः सैनिकः व्रणितोSभवत्।

Sunday, July 7, 2024

होरायां६५,२१५ कि. मि. शीघ्रगत्या छिन्नग्रहः भूमेरभिमुखम् आगच्छति। नासया पूर्वसूचना प्रदत्ता।

 भूमेरभिमुखं शीघ्रंम् आगच्छन्तं छिन्नग्रहमधिकृत्य अमेरिक्कस्य  बाह्याकाशसंस्थया नासया पूर्वसूचना प्रदत्ता। होरायां ६५,२१५ कि मी. वेगेन सञ्चरन्तः २०२४ एम् टि १ नाम छिन्नग्रहः एव भूमिम् अभ्यागच्छन् अस्ति।

   २६० पादमितः छिन्नग्रहः भूमौ घट्टयति चेत् अस्य उग्रप्रभावः अतिकठिनं भविष्यति। एतादृशाः अतिस्थूलछिन्नग्रहाः अपघातकारिणः एव इति वैज्ञानिकाः गणयन्ति।

 संसद्सभा २२ तमे समारभ्यते; आयव्ययपत्रकं २३तमे दिनाङ्के। 

नवदिल्ली> भारतीय संसद्सभायाः आयव्ययपत्रकीयं सम्मेलनं जूलै मासस्य २२ तमे दिनाङ्के समारप्स्यते। तृतीयमोदिसर्वकारस्य प्रथमम् आयव्ययपत्रकं २३ तमे दिनाङ्के वित्तमन्त्रिणी निर्मला सीतारामः अवतारयिष्यति। ओगस्ट् १२ दिनाङ्कपर्यन्तं सम्मेलनं भविष्यति इति संसद्कार्यमन्ती किरण् रिजिजुः न्यवेदयत्। 

  द्वितीयमोदिप्रशासनस्य अन्तिमं मध्यमकालिकम् आयव्ययपत्रं गते फेब्रुवरि मासे निर्मला सीतारामेणैव अवतारितमासीत्।

 उत्तरभारते अतिवृष्टिः; मरणानि, विनाशः। 

दह्रादूण्> आस्सामः, उत्तरखण्डः , हिमाचलप्रदेशः इत्यादिषु उत्तरभारतराज्येषु अतिवृष्टिदुष्प्रभावेन अनेके जनाः मृताः। मार्गाः, सेतवश्च विनाशिताः। गमनागमनसुविधा स्थगिता। 

  असमराज्ये वृष्टिदुष्प्रभावेन ६ जनाः मृत्युमुपगताः। द्वौ सेतू जलप्रवाहे विनाशितौ। ब्रह्मपुत्रानदी आप्लुतोदका स्यन्दति। ६६,००० हेक्टरपरिमिता कृषिभूमिः जलौघे मज्जिता। २९६ दुरन्तसमाश्वासकेन्द्राणि उद्घाटितानि। 

  उत्तरखण्डे कठोरवृष्टिकारणात् पञ्च जनानां जीवहानिरजायत। एषु द्वौ हैदराबादतः बदरीनाथमन्दिरदर्शनाय प्रस्थितौ द्विचक्रयानयात्रिकौ इति सूच्यते। मार्गमध्ये शिलापातेनैव मरणम्। राज्ये गतपञ्चदिनैः अतिवृष्टिरनुवर्तते। ११५ वीथिषु यातायातस्थगनं सञ्जातम्। उत्तरभारते दिनद्वयमपि वृष्टिरवुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन सूचितम्।

 छिन्नग्रहं प्रतिरोद्धुम् ऐ एस् आर् ओ संस्थायाः उद्यमः। 

बङ्गलुरु> छिन्नग्रहाः भूमेः भीतिजनकाः वर्तन्ते इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेन डो एस् सोमनाथेनोक्तम्। पृथिव्याः समीपे वर्तमानः 'अपोफिस'नामकः छिन्नग्रहः २०२९ तमे वर्षे तथा  २०३६ तमे  वर्षे च भूमिसमीपे सञ्चरिष्यति। ३७० मीटर् व्यासयुक्तः अयं अत्यन्तं दुर्घटनाकारणमिति सूच्यते। एनं प्रतिरोद्धुं भारतीय बहिराकाश गवेषण संस्थया अपि प्रयत्नं क्रियते।

Saturday, July 6, 2024

भारतीयाः उत भारतवंशजाः २६ जनाः अस्मिन् निर्वाचने ब्रिटीष् संसदं प्रति चिताः।
 प्रथमतया केरलीयः सदस्यः च। 
          लण्टनं> ब्रिटनस्य संसद् निर्वाचने भारतीयाः उत भारतवंशजाः २६ जनाः अस्मिन् निर्वाचने ब्रिटीष् संसदं प्रति चिताः सन्ति। इदंप्रथमतया कश्चन केरलीयः चितः। लेबर् पार्टी स्थानाशिरूपेण स्पर्धितवान् कोट्टयं जनपदीयः सोजन् जोसफः एव चितः। डामियन् ग्रीन् नामकं कण्सर्वेटीव् दलीयं १७७९ संख्याकेन सम्मतिदानैन सः पराजितवान्। २१ संवत्सरैः सोजन् जोसफः ब्रिटनमधिवसति।

 ब्रिटने 'लेबर् पार्टी' प्रशासनपदे।

केयर् स्टामरः प्रधानमन्त्री। 

नियुक्तप्रधानमन्त्री केयर् स्टामरः। 

      लण्टनं> ब्रिटने १४ संवत्सराणि यावत् अधिकारपदं वहन्तं 'कण्सर्वेटीव् पार्टी' इति राजनैतिकदलं पराभूय लेबर् पार्टी दलः अधिकारपदं प्राप। पार्टिनेता मानवाधिकारप्रवर्तकः नीतिज्ञश्च केयर् स्टामरः प्रधानमन्त्री भविष्यति। आहत्य ६५० स्थानेषु ६४९ स्थानानां फलप्रख्यापनं कृते सति ४१२ स्थानानि 'लेबर् पार्टी'दलेन उपलब्धानि। कण्सर्वेटीव् पार्टीदलेन १२१ स्थानानि प्राप्तानि। 

  वर्तमानीनप्रधानमन्त्री कण्सर्वेटीव्दलनेता  भारतवंशजः ऋषि सुनकः त्यागपत्रं समर्पितवान्। नित्योपयोगवस्तूनां मूल्यवर्धनं, देशान्तराधिवासः, 'ब्रक्सिट्' इत्यस्य विफलता इत्यादीनि  ऋषि सुनकप्रशासनस्य कण्सर्वेटीव् दलस्य च पराभवे कारणानि अभवन्।

Friday, July 5, 2024

 उपराष्ट्रपतिः श्वः केरलं प्राप्नोति। 

नवदिल्ली> उपराष्ट्रपतिः जगदीप धन्करः दिनद्वयात्मकस्य सन्दर्शनाय शनिवासरे केरलं प्राप्नोति। ऐ ऐ एस् टि संस्थायाः [Indian Institute of Space science & Technology] १२ तमे  दीक्षान्तसमारोहे मुख्यातिथिरूपेण भागं स्वीकर्तुमेव तस्य आगमनस्य प्रधानोद्देश्यः।

  श्वः प्रभाते १०. ५५ वादने उपराष्ट्रपतिः अनन्तपुरं विमाननिलयं प्राप्स्यति। राज्यसर्वकारेण प्रदास्यमानं स्वीकरणं स्वीकृत्य ऐ ऐ एस् टि संस्थां गमिष्यति। रविवासरे सः दिल्लीं प्रत्यागमिष्यति।

 कालट्यां शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति।

   कालटी> आदिशङ्कर-भगवद्पादानां जन्मभूमौ शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति। श्रृङ्गेरि शङ्करमठस्य अनुबन्धमठः भवति योगानन्देश्वर-सरस्वतीमठः। अस्य मठस्य अधिपतिना श्री शङ्करभारती महास्वामिना श्रीशङ्कराय स्वीकृता  शङ्करज्योतिः इति नामाङ्गितं पुरातनगृहं लोकाय समर्पयिष्यते।

श्रीशङकरभगवत्पादैः विरचितानां ग्रन्थानां सन्देशः तथा तेषां वैभवं च जनानां मनसि निवेशयितुम् इदं पुरातनगृहं वेदिकारूपेण वर्तिष्यते।

   लोकार्पणस्य अनुबन्धतया एकदिनात्मकः आध्यात्मकशिबिरः आयोक्ष्यते। 'मनसः स्वरूपं व्यापारञ्च' इति विषये आयेक्ष्यमाणः शिबिरः  प्रवर्तननिरतान् वैज्ञानिकान् उद्दिश्य भवति। राष्ट्रस्य विविधभागेभ्यः वैज्ञानिकाः गवेषकाः समाजस्य विविधभागेभ्यः प्रमुखाः मनीषिणः च शिबिरेऽस्मिन् भागं स्वीकरिष्यन्ति। जूलै मासस्य षष्टदिनाङ्के भवति कार्यक्रमः।


 विश्वविजयिनः स्वदेशं प्रत्यागतवन्तः। 

राष्ट्रस्य महदुज्वलस्वीकरणम्। 

भारतसंघाय मुम्बय्यां प्रदत्तं स्वीकरणम्। 

नवदिल्ली> टि - २० क्रिकेट् विश्वकिरीटधारी भारतसंघः ह्यः प्रभाते राष्ट्रराजधानिं प्राप। १३ संवत्सरेभ्यः परं विश्वचषकेन सह  इन्दिरागान्धी अन्ताराष्ट्रविमाननिलये पादस्पर्शं कृतवान्  भारतनायकः रोहित शर्मा  संघेन सह सहस्राणाम् आराधकानां स्नेहोज्वलं स्वीकरणं स्वीकृतवान्। तदनन्तरं ते प्रधानमन्त्रिणः प्रेमानुमोदनानि स्वीकर्तुं लोककल्याणमार्गस्थं प्रधानमन्त्रिणः वासमन्दिरं प्राप्तवन्तः। दलाङ्गैः साकं परिशीलकः राहुल द्राविडः, बी सि सि ऐ अध्यक्षः रोजर् बिन्निः, कार्यदर्शी जय् षा इत्येते चासन्। 

मुम्बई> मुम्बय्यां आरबसमुद्रस्य तीरस्थे मरैन् ड्रैव् मार्गस्य पार्श्वयोः तथा वाङ्घटे क्रीडाङ्कणे च अन्यः नीलवर्णाङ्कितः  महाजनसमुद्रः उत्साहारववीचिभिस्सह प्रतीक्षन्ते स्म। न केवलं मार्गे समीपस्थेषु व्यापारमन्दिरेषु वासमन्दिराणां वरान्तासु वृक्षशिखरेषु च प्रियताराणाम् एकमात्रदर्शनाय जनाः वयःभेदं विना सज्जाः तिष्ठन्ति स्म। 

  सायंसन्धायाः पूर्णतायां सविशेषरीत्या सज्जीकृतस्य बस् यानस्य अन्तः सर्वेभ्यः दर्शनसौविध्यं प्रदत्तवन्तः भारतसंघाङ्गाः क्रीडाङ्कणं प्रविश्य प्रदक्षिणं कृतवन्तः। जनाः आनन्दारवान् उद्घोषितवन्तः।

Thursday, July 4, 2024

 वृष्टेः सुखदायकशैत्यवेलायां गुरुवायुपुरे गजानां सुखचिकित्सा समारब्धा।

   हस्त्यायुर्वेदविधिप्रकारेण निर्मितं औषधमिश्रितभोज्यमेव सुखचिकित्साकाले गजानां विशेषखाद्यम्। विधिवत् भक्ष्यक्रमः, व्यायामः, विशेषस्नानं च मासैकं यावत् अनुवर्तते। गुरुवायुपुरेशस्य बालकृष्णस्य १५ प्रियगजाः गजदुर्गस्य उत्तरभागस्थे अङ्कणे सुखचिकित्सार्थं श्रेणीभूय स्थिताः। सन्तुलिताहाराः संमिश्र्य निर्मितानि भोज्यगोलकानि प्रत्येकं गजाय प्रददात्। दृश्यमिदं साक्षात्कर्तुं बहवः गजप्रेमिणः च सन्निहिताः आसन् ।

 उत्तरप्रदेशे धर्मीयसत्संगे बहुजनसम्मर्देन १२३ जनाः मृताः।

दुर्घटना हात्रस जनपदे भोले बाबा इत्यस्य 'व्यक्तिदेवस्य' आत्मीयप्रभाषणमध्ये। 

हात्रस्> उत्तरप्रदेशस्थे हात्रस् जनपदे कुजवासरे आयोजिते  कस्मिंश्चित् धर्मीयसत्संगे दुरापन्नेन बहुजनसम्मर्देन १२३ जनाः मृत्युमुपगताः। अनेके आहताः। फुलरि ग्रामे भोले बाबा इत्यनेन स्वप्रख्यापित'व्यक्तिदेवेन' आयोजिते आत्मीयप्रभाषणमध्ये आसीदियं दुर्घटना। 

  प्रभाषणस्य अन्ते बाबां द्रष्टुं तस्य पादमूलस्थमृत्स्वीकरणाय च जनाः साहसपूर्वं धावित्वा तत्समीपमागच्छन् इति श्रूयते। तत्फलेन सम्मर्देनैव जनाः दुरन्तमापतिताः। 

  दुर्घटनानन्तरं भोले बाबा निलीनः वर्तते। मुख्यमन्त्री योगी आदित्यनाथः दुरन्तस्थानं सन्दर्श्य न्यायविचारान्वेषणं प्रख्यापितम्।

 न्याय. मुहम्मद मुषताखः केरलस्य प्रवर्तमानः मुख्यन्यायाधिपः।

कोच्ची> केरलस्य उच्चन्यायालयस्य प्रवर्तमानः मुख्यन्यायाधिपरूपेण [Acting Chief Justice] न्यायमूर्तिः मुहम्मद मुष्ताखः नियुक्तः। इदानींतन मुख्यन्यायाधिपः न्यायमूर्तिः ए जे देशायिवर्यः अचिरेण विरम्यते। तत्थाने एवास्य नियुक्तिः। 

  केरले कण्णूर पुरीयः अयं २०१४ तमे वर्षे उच्चन्यायालये उपन्यायमूर्तिरूपेण नियुक्तः। ततः २०१६ तमे स्थिरनियुक्तिरभवत्।

Wednesday, July 3, 2024

 भारत-दक्षिणाफ्रिक्का वनिता क्रिकेट निकषस्पर्धायां भारतस्य विजयः। 

निकषस्पर्धायां विजयीभूतं भारतस्य महिलादलम्। 

चेन्नै> चैन्नैयां सम्पन्ने महिलानां क्रिकटनिकषस्पर्धायां दक्षिणाफ्रिक्कां विरुध्य भारतस्य दशद्वारकविजयः। निकषस्पर्धायाः चरणद्वयेSपि  दश ताडकान् बहिर्नीतवती स्नेहा राणा श्रेष्ठक्रीडकारूपेण चिता।

  प्रथमे चरणे कन्दुकताडनं चितेन भारतदलेन ६०३/६ इति क्रमे विरामघोषणं [Declare] कृतम्। ततः  २६६ धावनाङ्कानां   सम्पादनेनैव दक्षिणाफ्रिक्कायाः दश क्रीडकाः निष्कासिताः। ततः अनुक्रमक्रीडां  [Follow on] कृत्वा ३७३ धावनाङ्कान् समपादयत्। तदा जातं ३७ धावनाङ्काः इति भारतस्य विजयलक्ष्यं ताडकनष्टं विना प्राप च।

 इस्रायेलेन कारागृहीताः ५४ पालस्तीनीयाः विमोचिताः। 

खान् यूनिस्> इस्रायेलसैन्येन सप्त मासेभ्यः पूर्वं निगृह्य कारागृहे निक्षिप्ताः ५४ पालस्तीननागरिकाः विमोचिताः। गासास्थस्य महतः आतुरालयस्य अल् शिफा नामकस्य निदेशकः मुहम्मद अबु सेल्मियः अपि विमोचितेषु अन्तर्भवति। युद्धबन्धितैः कारागृहाणि पूरितानि इत्यत एव एतेषां  मोचनस्य हेतुरिति श्रूयते।

Tuesday, July 2, 2024

 जलपाते अवतीर्णेषु दशसु पञ्च गिरिजलप्रपाते निमज्य मृत्युंगताः। 

लोणावालदुरन्ते निपतिताः। 

पूणे> महाराष्ट्रे पूणेसमीपस्थे लोणावाला जलप्रपातुं द्रष्टुमागतेषु विनोदयात्रिकेषु पञ्च जनाः गिरिजलप्रपाते निमज्य मृत्युमुपगताः। 

  १८ अङ्गयुक्तेषु  यात्रिकेषु एकपरिवारीयाः दश जनाः जलप्रपाते अवतरितवन्तः। तस्मिन् समये जलप्रवाहः मन्दमासीत्। किन्तु झटित्येव तत्र वृष्टिकारणेन महान्  गिरिजलप्रवाहः सञ्जातः। दश जनाः एकीभूय एकत्र स्थितवन्तः अपि जवे जलप्रवाहे निपतिताः। त्रयः तीर्त्वा रक्षां प्रापुः। द्वौ तीरस्थैः रक्षितौ। 

  हडपसर सय्यद् नगरवासी सहिस्त लियाखत् अन्सारी [३६] , तस्य चत्वारि अपत्यानि च मृत्युवशं प्रापुः।