प्रशासनरूपीकरणाय राष्ट्रपतिः मोदिनम् आमन्त्रयत्। प्रशासनरूपीकरणाय मोदिवर्ये राष्ट्रपतिभवने प्राप्ते।
शपथवाचनं श्वः सायं राष्ट्रपतिभवने।
नवदिल्ली> गतदिने प्राचीनसंसदीयभवनस्य केन्द्रमण्डपे समायोजिते एन् डि ए सख्यस्य उपवेशने नरेन्द्रमोदिवर्यः नेतृरूपेण चितः। अनन्तरं सायं सख्यनेतृभिः साकं राष्ट्रपतिभवनं प्राप्तवान् नरेन्द्रमोदी प्रशासनरूपीकरणाय अधिकारवादमुन्नीतवान्। ततः सर्वकाररूपीकरणाय राष्ट्रपतिः द्रौपदी मुर्मुः मोदिनमामन्त्रयच्च।
नूतनसर्वकारस्य शपथवाचनं रविवासरे सायं ७. १५ वादने राष्ट्रपतिभवने सम्पत्स्यति।