दक्षिणाफ्रिकायां सख्यसर्वकारः।
रामफोसः राष्ट्रपतिः।
केप् टौण्> त्रिशत् संवत्सराणामनन्तरं दक्षिणाफ्रिकायां सख्यसर्वकारः शासकपदं प्राप्स्यति। आफ्रिकन् नाशणल् कोण्ग्रस् राजनैतिकदलस्य [ए एन् सि] नेतृत्वे रूपवत्कृतस्य विपुलसख्यस्य 'राष्ट्रिय ऐक्य सर्वकारस्य' नेतृरूपेण ए एन् सि नेता सिरिल् रामफोसः [७१] चितः। आगामिनि सप्ताहे प्रिटोरियायां समायोत्स्यमाने समारोहे रामफोसः सत्यशपथं कृत्वा नूतनसर्वकारं नेष्यति।