लोकसभानिर्वाचनं - मतगणना श्वः।
निष्क्रमणाधिष्ठितगणनायाम् एन् डि ए दलाय शासनपदप्रतीक्षा।
नवदिल्ली> एप्रिल् मासस्य १९ तमे दिनाङ्तः जूण् १ पर्यन्तं सप्तचरणैः सम्पन्नस्य लोकसभानिर्वाचनस्य मतगणना आभारतं श्वः प्रातः अष्टवादने आरप्स्यते। प्रथमा फलसूचना अर्धहोरानन्तरं लब्धुं शक्यते।
विविधाभिः संस्थाभिः सञ्चालितेषु निष्क्रमणाधिष्ठितमतगणनेषु [Exit Poll] भाजपा दलेन नेतृत्वमावहन् एन् डि ए दलः भूरिशस्थानानि सम्पाद्य नरेन्द्रमोदिनः नेतृत्वे पुनरपि प्रशासनं रूपीकरिष्यतीति प्रोच्यते।