कोविड् वैराण्वपेक्षया १०० गुणितः शक्तियुक्तः अणुः आगच्छति।
कोविड् वैराण्वपेक्षया शक्तियुक्तः पक्षिज्वरः मानवेभ्यः भीषां जनयति इति वैज्ञानिकाः पूर्वसूचनां प्रसारयन्तः सन्ति। H5N1 इति पक्षिज्वरस्य विभेदेन एव वैज्ञानिकाः चिन्ताकुलाः जाताः। रोगबाधितेभ्यः ५०% जनाः मृतिं पतिष्यन्ति इत्यस्ति प्रतिवेदनम्। पक्षिणः तथा जन्तवः च अनेन वैराणुना बाधित्वा मृतिं यास्यन्ति।