ताइवानदेशे प्रचण्ड: भूकम्प:
-युवराजभट्टराई -
ताइवान् देशे समागते प्रचण्डे भूकम्पे न्यूनान्न्यूना: नवजना: मृता:, सप्तशताधिका: जनाश्च व्रणिताः इति सूच्यन्ते। भूकम्पमापनयन्त्रेण 7.4 वेगमित: तीव्रतायुत: भूकम्प: अद्य ताइवानदेशस्य पूर्वीये तटे समागत:, येन तस्मिन् क्षेत्रे सुनामीति सामुद्रिक-झञ्झावातस्य जाग्रत् सूचना प्रख्यापिता वर्तते। यूनाइटेड स्टेट्स जियोलॉजिकल् सर्वे (USGS) इति संस्थया प्रोदितं यत् भूकम्पस्य तीव्रता 7.4 वेगयुत: अवर्तत यस्य केन्द्रं ताइवान-देशस्य हुआलिएन-नगरात् अष्टादश-किलोमीटर-मिते दक्षिणे 34.8 दशमलवोत्तराष्टाधिकचतुस्त्रिंशत् किलोमीटर् मितायां गहनतायाम् आसीत्। ताइपे-नगर्या: भूकम्प-विज्ञान-केन्द्रस्य निदेशकेन "वू चिएन फू" इत्यमुना प्रतिपादितं यत्, भूकम्प: समस्ते ताइवान-देशे, समीप-द्वीपेषु च जनैः भृशं समनुभूत:। एष: भूकम्प:
मुख्यबिन्दव:
ताइवान देशे आगतेन भीषण-भूकम्पेन अधुना यावत् नवजना: पञ्चत्वं प्राप्ता: इति सूच्यन्ते।
7.4 तीव्रतान्वित: एष: भूकम्प: विगतेषु 25 वर्षेषु सर्वाधिक: प्रचण्ड: भीषणतमश्च भूकम्प: प्रतिपाद्यते। सुरक्षाधिकारिभि: सूच्यते यत् भूकम्प-कारणेन 800 मिता: जना: व्रणिताः सन्ति।
आपदुद्धारकर्मिण: ध्वंसावशेषेषु निरुद्धजनानाम् अन्वेषणपूर्वकम् उद्धारं कुर्वन्त: सन्ति। एतादृशानां अवरुद्धानां संख्या 100 प्राया भवितुं शक्नोति।