महात्मागान्धिनः वल्लभायि पटेलस्य जनिप्रदेशौ महानगरे कारिते।
अहम्मदाबादः> महात्मागान्धिनः जन्मग्रामः पोर्बन्दर नामकः, तथा च सर्दार् वल्लभायिपटेलस्य जन्मग्रामः नडियादश्च महानगररूपेण [Corporation] उद्धर्तुं गुजरालसर्वकारेण निश्चितम्। इदानीम् एते नगररूपेणैव [Municipality] वर्तेते।
पोर्बन्दरं, समीपस्थां छायानगरसभां च संयोज्य महानगरं रूपवत्करिष्यति। २०११ जनसंख्यागणनामनुसृत्य ६. ३२लक्षं जनाः तत्र वसन्ति। खेडजनपदस्य नडियादः समीप्रदेशैः सह संयोज्य महानगररूपेण परिवर्त्यमाने ४. ७५ लक्षं भविष्यति जनसंख्या।
अनेन गुजराते महानगराणां संख्या १७ भविष्यति। इदानीं ८ महानगराणि सन्ति। राज्ये सप्त नगराणि महानगराणि कारयितुं आयव्ययपत्रे प्रख्यापितमासीत्। पोर्बन्तरं नदियादं च अभिव्याप्य ९ नूतनानि महानगराणि भविष्यन्ति।