तृतीयतममोदीसर्वकारस्य प्रथमशतदिनपरियोजनायाः आविष्काराय प्रधानमन्त्रिणा नरेन्द्रमोदिना मन्त्रिभ्यः निर्देशो दत्तः।
नवदिल्ली> २०२४ संवत्सरे अनुशासनम् अनुवर्तिष्यते इति दृढविश्वासः नरेन्द्रमोदिना प्रकटितः। तदर्थं प्रथमशतदिनानि यावत् कर्मपरियोजनायाः रूपरेखां सज्जीकर्तुं मन्त्रिभ्यः निर्देशः अदात्। अद्य प्रातःकाले समायोजिते मन्त्रिणां सभाकार्यक्रमे कार्यमिदं सूचितमिति प्रतिवेदनमस्ति।