तृतीयविश्वमहायुद्धं नातिदूरे इति पुतिनः।
मोस्को> तृतीयविश्वमहायुद्धं नातिदूरे इति रष्यस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन निगदितम्। निर्वाचनविजयानन्तरं जनान् अभिसंबुध्य भाषमाणः आसीत् सः। जनाः तस्मिन् विश्वासम् अर्पयित्वा साह्यं दत्तवन्तः इत्येतदेव विजयस्य निदानम् इति सः अवोचत् । तदर्थं सः जनेभ्यः धन्यवादान् व्याहरत्। रष्यस्य नाट्टो सैनिकसख्यस्य च मिथः विरोधः वर्धते चेत् तृतीयविश्वमहायुद्धं भवेत् इति सः उक्तवान्।