उत्तराखण्डे समान-नीतिन्याय-संहितायै राष्ट्रपतेः अङ्गीकारः।
नवदिल्ली> उत्तराखण्ड राज्यसर्वकारेण समान-नीतिन्याय-संहितायै कृतं विधेयकं राष्ट्रपतिना मात्रा द्रौपदी मुर्मुवर्यया हस्ताक्षरीकृतम्। अनेन राष्ट्रे नागरिकसंहिता प्रवृत्तिपथमारूढं प्रथमं राज्यं भवति उत्तराघण्ड:।