निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः। निवाचनायोगेन निर्देशः प्रकाशितः।
नवदिल्ली> २०२४ तमस्य निर्वाचनसन्दर्भे निर्वाचनायोगेन पूर्वनिर्देशः प्रकाशितः। निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः इत्यस्ति आदेशः। स्थानाशिनः तेषां पर्यटनकाले शिशून् ग्रहीतुं उत्साहं प्रदर्शयन्ति। किन्तु इदानीं तस्मात् प्रवर्तनात् ते स्थानाशिनः दूरंपालनीयाः इति निर्वाचनायोगेन स्थानाशिनः आदिष्टाः। शिशवः प्रचारणवेलायां भागं न स्वीकुर्वन्ति इति राजनैतिकदलैः पालनीयाः ।