उज्जयिन्यां विराट् संस्कृतसम्मेलनस्य आयोजनं जातम् ।
-डॉ.दिनेश चौबे, उज्जयिनी
संस्कृतभारती,उज्जयिनी इत्यस्य तत्वावधाने मंगलवासरम् उज्जैन अभियांत्रिकीमहाविद्यालये, विराट्जनपदसंस्कृतसम्मेलनस्य आयोजनम् अभवत् सम्मेलने नगरस्य सर्वे संस्कृतज्ञ: , संस्कृतानुरागिण: कार्यकर्तारा: च बहु संख्यायाम् उपस्थिता: आसन्। कार्यक्रमस्य शुभारंभ: सरस्वतीपूजनेन दीपदीपेन सह जात:। मुख्यातिथिरूपेण उपस्थित: आसीत् मध्यक्षेत्रस्य संगठनमंत्री: श्रीप्रमोदपंडितवर्य: महोदय: स्वउद्बोधने उक्तवान् यत् संस्कृतभाषा प्रत्येकस्य भारतीयस्य रक्ते विद्यमानम् अस्ति प्रवहति च संस्कृतं नहि भारतस्य अपितु सम्पूर्णं विश्वस्य भाषा अस्ति। बहवः जनाः ये संस्कृत वक्तुं समर्था: न सन्ति। किंतु ते संस्कृतम् अवजानन्ति अस्य तात्पर्यमिदम् अस्ति यत् संस्कृतभाषा तेषां रुधिरे प्रवहति। केवलम् आवरणम् दूरी करणीयम् अस्ति।
विशिष्टातिथिरूपेण उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य कुलपति: आचार्यविजयकुमार: सीजीवर्य: उपस्थितः आसीत्। महोदयेन उक्तं यत् संस्कृतभाषा भारतं पुनः विश्वगुरुरूपेण प्रतिष्ठापितुं महत्वपूर्णां भूमिकां निर्वहति ।भारतीयज्ञानपरंपराया: सम्प्रति संस्कृतमाध्यमेन संपूर्णविश्वे प्रचार प्रसारं च क्रियते। अस्मिन अवसरे कालिदाससंस्कृतअकादमी निदेशक: डॉ.गोविंदगन्धेेवर्य: अपि उपस्थितः आसीत् । महोदयेन संस्कृतस्य संवर्धनम् उन्नयनं तथा च तस्य प्रचारं प्रसारं कर्तुं आवाहनं कृतम् ।सदैव कटिबद्ध: भूत्वा संस्कृतमाध्यमेन लोकस्य हितं कुर्वन्तु इति तस्य चिन्तनम् आसीत्। कार्यक्रमस्य अध्यक्षता उज्जैनी,अभियांत्रिकी महाविद्यालयस्य प्राचार्ययेण श्रीजीकेश्रीवास्तव महोदयेन कृता । संस्कृतभाषायां निहितं ज्ञानविज्ञानेन सामान्य जनानां परिचय: भवेत् तथा जागरूकताभियानस्य आयोजनं करणीयम् इति। कार्यक्रमस्य संचालनं श्रीहेमंतपंड्यामहोदयेन आभारप्रदर्शनञ्च धर्मदासबैरागी विभागप्रमुखेन कृतम्।अस्मिन् अवसरे छात्रै: संस्कृतगीतं, संस्कृतनाटिका, संस्कृतनृत्यम् प्रस्तुतम्। संस्कृतप्रदर्शनी अपि प्रदर्शिता कार्यक्रमे डॉ. उपेंद्रभार्गव:, डॉ.रमेशशुक्ल:,डॉ.मनोजद्विवेदी डॉ.दिनेश चौबे, डॉ.अमिताभ शुक्ल: श्रीमुकेशभाला, श्रीसुभाष कुमावत: उपस्थिता: आसन्। कल्याणमंत्रेण सह कार्यक्रमस्य समापनं जातम्।