जपाने भूकम्पः - ४ मरणानि।
टोकियो> नववत्सरदिने जपाने दुरापन्ने शक्ते भूकम्पे चत्वारः जनाः मृतिं प्राप्तवन्तः इति सूच्यते। जपानस्य समुद्रतीरे इषिकाव प्रदेशे संवृत्तेन मापिन्यां ७. ६ अङ्कितेन भूचलनेन १. २ मीटर् पर्यन्तं तरङ्गाेन्नतिः जाता।
प्रथमभूकम्पानन्तरं ९० मिनिट् परिमितसमयाभ्यन्तरे बहूनि अनुस्यूतचलनानि जातानि। तेषु २१ चलनानि मापिन्यां ४ तीव्रतामङ्कितानि। तत्रत्याः अणुनिलयाः सुरक्षिताः इति जपानप्रशासनेन निगदितम्।