लष्करभीकरः हन्स्ल अद्न नामकः निहतः।
कराची> जम्मु काशमीरस्थे उधंपुरे २०१५ बि एस् एफ् वाहनव्यूहं प्रति कृतस्य आक्रमणस्य सूत्रधारः हन्स्ल अद्न नामकः पाकिस्थाने अज्ञातस्य भुषुण्डिप्रहारेण निहतः इति सूच्यते।
मुम्बई भीकराक्रमणस्य आसूत्रकः लष्कर् नेता हाफिस् सयीद् इत्यस्य अनुयायी भवत्येषः। अस्मिन् वर्षे पाकिस्थाने दुरूहावस्थायां हतः १२तमः भीकरः भवति हन्स्ल अद्नः। उधंपुरे आक्रमणेन द्वौ बि एस् एफ् भटौ मृत्युं प्राप्तवन्तौ आस्ताम्।