केरले द्वौ नूतनमन्त्रिणौ शपथवाचनं कृतवन्तौ।
गणेशकुमाराय गमनागमनं ; रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणं च।
रामचन्द्रन् कटन्नप्पल्ली [वामतः], के बि गणेशकुमारश्च राज्यपालस्य समक्षे शपथं कुर्वतः। |
अनन्तपुरी> केरलस्य मन्त्रिसभां प्रति नूतनौ द्वौ मन्त्रिणौ शपथवाचनं कृत्वा प्रवेशमकुरुताम्। के बि गणेशकुमारः, रामचन्द्रन् कटन्नप्पल्लि इत्येतावेव नूतनमन्त्रिणौ।
मुख्यमन्त्रिणः पिणरायि विजयस्य अन्येषां मन्त्रिणां च सान्निध्ये राज्यपालः आरिफ् मुहम्मद खानः शपथवाचनं कारितवान्। वर्तमानमन्त्रिणोः आन्टणि राजु, अहमद देवर्कोविल् इत्यनयोः पूर्वनिश्चितं स्थानत्यागमेव नूतनमन्त्रिणोः मन्त्रिसभाप्रवेशस्य हेतुः।
के बि गणेशकुमाराय गमनागमनविभागः रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणविभागश्च लभते।