संसदः शैत्यकालसम्मेलनं श्वः आरप्स्यते।
नवदिल्ली> भारतीयसंसदः शैत्यकालसम्मेलनं श्वः आरभ्य डिसम्बरस्य २२ तम दिनाङ्के समाप्स्यति। १९ दिनेषु १५ उपवेशनानि स्युः।
इस्रयेल - पालस्तीनविषये भारतस्य यथातथमतमधिकृत्य संसदि चर्चा आवश्यकी इति ह्यः सम्पन्ने सर्वदलीयोपवेशने विपक्षीयनेतृभिः अर्थितम्। सर्वकारेण आयोज्यमानस्य नूतनदण्डनीति-प्रमाणनियमस्य हिन्दीनामकरणं कृतमिति दक्षिणराज्यानि विरुध्य विवेचनमिति च तैरुक्तम्। संसदीयनियमान्तर्गतेभ्यः चर्चेभ्यः सन्नद्ध इति सर्वकारेण निगदितम्।
सर्वदलीयोपवेशने रक्षामन्त्री राजनाथसिंहः आध्यक्ष्यमावहत्।