रोशनबलूनीकवे: "छन्दप्रसून"-काव्यसंग्रहस्य
भव्यलोकार्पणं समभवत्।
वार्ताहर:-कुलदीपमैन्दोला। नैनीतालम्।
त्रिदिवसीय: "शिक्षकाणां राष्ट्रियशैक्षिक: एवं सांस्कृतिकमहोत्सव:" पार्वतीप्रेमाजगाती -सरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे SCERT इत्यस्य पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा. डी. एन्.भट्ट:, डा.प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक: डा.श्रीशडोभाल: समुपस्थिता: अभवन्। काव्यपाठात् पूर्वं अ.उ.रा.इ.का.नौगांवखालविद्यालयस्य हिन्दीप्रवक्ता रोशनबलूनी इत्यस्य चतुर्थपुस्तकस्य "छन्द-प्रसून" इत्यस्य भव्यलोकार्पणं सञ्जातम्।
अवसरेस्मिन् प्रसिद्धसंगीतशिक्षक: व हिन्दीसाहित्यभारती-उत्तराखंडस्य महामंत्री श्री दिनेशचन्द्रपाठक:, श्री मुकेशबहुगुणा, शैलनटस्य अध्यक्ष: श्री राजीवशर्मा, डा०प्रकाशचमोली, नंदनराणा नवल:, चित्रापाठक:, शिवांगीपाठक:, मुशबीरगिलानी, डा०राजेन्द्र-उपाध्याय:, हर्षिता जोशी, आरती रावतपुंडीर:, सरोजडिमरी आदिभिस्सह २३ राज्यानां 450 शिक्षका: रंगकर्मिण:, सांस्कृतिककर्मिण:, पत्रकारबान्धवा: महोत्सवे उपस्थिता: आसन् ।
शुभावसरेस्मिन् महाराष्ट्रस्य पूर्वराज्यपाल: एवं पूर्वमुख्यमंत्री-उत्तराखण्डस्य, श्रद्धेयभगतसिंहकोश्यारी रोशनबलूनीद्वारा स्वपुस्तकेन "छन्द-प्रसून" - उपहारेण समलंकृतम्। महोत्सवस्य प्रथमदिवसे रात्रौ एव काव्यपाठ: सञ्जात:, यत्र देशस्य 20 कवीनां कवितापाठ: गुञ्जितोभवत्। दूनविश्वविद्यालयत: प्रो. प्रसिद्धरंगकर्मिण: डा.राकेशभट्टवर्यस्य निर्देशने "नंदाराजजातयात्रा" इत्यस्यापि नाट्यमंचनं सञ्जातम्।