भारतं विश्वचषकस्पर्धायाः अन्तिमपादं प्राविशत् ; प्रतियोगी आस्ट्रेलिया।
कोच्ची> विश्वचषकक्रिकट् स्पर्धायाः अन्तिमचरणे भारतं आस्ट्रेलियां प्रति स्पर्धिष्यते। बुधवासरे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे न्यूसिलान्टं ७० धावनाङ्कैः भारतं पराजितवत्। अत्यधिकं विशिष्टे अस्मिन् प्रतिद्वन्द्वे ११७ धावनाङ्कान् प्राप्तवान् विराट् कोहली ५० शतकोपलब्धिरिति अपूर्वविजयं प्राप्तवान्। तथा च सच्चिन् टेण्टुल्करस्य एकस्यां विश्वचषकपरम्परायां अत्यधिकधावनाङ्कान् प्राप्तवानिति उपलब्धिरपि तेन लब्धम्।
ह्यः सम्पन्ने द्वितीयचरणे आस्ट्रेलिया दलेन दक्षिणाफ्रिकादलं पराजितम्। रविवासरे अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे अन्तिमस्पर्धा भविष्यति।