केरलेषु तुलामासीयवर्षाकालः समारब्धः। पञ्चदिनानि यावत् मेघगर्जनेन सह वर्षा अनुवर्तिष्यति।
केरलेषु तुलामासीयवर्षाकालः समारब्धः इति केन्द्रवातावरणमन्त्रालयेन आवेदितम्। दक्षिण-पूर्व वङ्गसमुद्रस्य मध्यवङ्गसमुद्रस्य च उपरि जातस्य न्यूनमर्दस्य तथा कोमारिन् मण्डलस्य उपरि रूपीकृतस्य चक्रवातावर्तिन्यः च प्रभावेन एव तुलावर्षा सञ्जाता। अतिशक्ता वर्षा भवेत् इत्यतः गिरिप्रदेशेषु निवसन्तः जनाः जाग्रता पालनीया इति मन्त्रालयेन आवेदितम्।