इस्रायेले विपक्षिनेतारं संयुज्य आपत्कालीनसर्वकारः समायोजितः।
टेल् अवीव्> हमाससः अप्रतीक्षितम् आक्रमणानन्तरम् इस्रायेल् राष्ट्रे प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना आपद्कालीनः सर्वकारः प्रतिष्ठितः। विपक्षिदलस्य ब्लू आन्ट् वैट् इत्यस्य नेतृणा बेन्नि गान्ट्सेन सह मिलित्वा आसीत् नूतन सर्वकारस्य ज्ञापनम्। इस्रायेलस्य भूतपूर्व-प्रतिरोधमन्त्री आसीत् बेन्नि गान्ट्सः।