महिलाविधेयकं राष्ट्रपतिना अनुमोदितम्।
नवदिल्ली> अस्मिन् मासे भारतजनसंसद्सभायाः मण्डलद्वयेनापि अङ्गीकृतं महिलाविधेयकं - नारीशक्ति वन्दनाधिनियम नामकं - राष्ट्रपतिना द्रौपदी मुर्मु महाभागया अनुमोदितम्। लोकसभा विधानसभा त्रिस्तरीयपञ्चायतसभाः इत्येतेषां प्रतिनिधिषु ३३ प्रतिशतं महिलारक्षकत्वं व्यवस्थापयितुमेवायं नियमः। किन्तु कदा प्रवृत्तिपथमानेतव्यमिति निश्चयः न कृतः।