निज्जरस्य हत्या - पृष्ठतः ऐ एस् ऐ इति सूच्यते।
नवदिल्ली> कानडास्थः खालिस्थान् आतङ्कवादिनेता हरदीपसिंह निज्जरः इत्यस्य हत्यायाः पृष्ठतः ऐ एस् ऐ नामक पाकिस्थानीयगुप्तचरसंघटनम् इति आवेदनं बहिरागतम्। भारत-कानडसम्बन्धं शिथिलीकर्तुं पूर्वासूत्रणेन कृतं भवति निज्जरवधमिति सूच्यते।
निज्जरवधस्य आसूत्रणं स्पष्टीकृत्य अमेरिकावार्तापत्रिकया 'वाषिङ्टण् पोस्ट्' इत्यनया वार्ता प्रसिद्धीकृता। गुरुद्वारस्य सुरक्षाक्यामरायाम् आलिखितानि वधसम्बन्धदृश्यानि च बहिर्नीतानि। एतदवलम्ब्य राष्ट्रियमाध्यमैरपि वार्ताः प्रकाशिताः।