नियन्त्रणरेखायाः समीपप्रदेशेषु सञ्चारिणां प्रवाहः।
काश्मीरः इदानीं सञ्चारिणां स्वर्गभूमिः अभवत्। अनुकूलवातावरण - ऋतुकालः इत्येतत् अपरिगणयन् अनिशं सदा बहवः विनोदसञ्चारिणः काश्मीरेषु आगच्छन्तः सन्ति। समीपकाले काश्मीरस्य नियन्त्रणरेखायाः समीपस्थाः बहवः प्रदेशाः सर्वकारस्य पर्यटनविभागस्य च नेतृत्वे पर्यटकानां कृते उद्घाटितमासीत्। इदानीं स्वदेशीय-विदेशीयानां पर्यटकानां सान्निध्येन एते प्रदेशाः सम्पन्नाः अभवन्।