लूणा - २५ भग्नम् ; रष्यायाः चान्द्रदौत्यं पराजितम्।
मोस्को> ४७ संवत्सरेभ्यः परं रूसराष्ट्रेण आगस्ट् ११ तमे दिनाङ्के चन्द्रपर्यवेषणाय विक्षिप्तं लूणा - २५ नामकं चन्द्रयानं गतदिने भग्नमभवत्। भारतस्य चन्द्रयानं ३ इत्यस्य विक्षेपणानन्तरं विक्षिप्तं लूणा - २५ भारतयानस्यावरोहणात् पूर्वमवरोहणं कारयितुम् आसीत् रष्यायाः प्रयत्नः। सार्धपञ्चदिनैः चन्द्रस्य भ्रमणपथं प्रापितस्य रूस् यानस्य चन्द्रप्रयाणमार्गमध्ये आसीत् तस्य भग्नता।