कर्णभाषिण्यः अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।
कर्णभाषिण्यः (Ear phone )
अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।
औद्योगिककर्मसु गृहकर्मसु च निमग्नेषु सन्दर्भेषु तथा यानचालनसमयेषु अपि निरन्तरं कर्णभाषिण्यः उपयोगं कुर्वन्तः जनाः सन्ति। अधुनातनकाले आबालवृद्धं जनाः वयोभेदं विना चलदूरवाण्याः दासायन्ते। एतस्याः अधिकोपयोगः जनान् श्रवण-भाषण-वैकल्यं प्रति नीयते इति अनुशीलनानि सूचयन्ति। भारतीय-भाषण-श्रवणसंस्थायाः नूतनप्रतिवेदने एव विषयमिदं परामृष्टम्। १९-२५ वयस्केषु ४१% तथा २६-६०, वयस्केषु६९% इति क्रमेण श्रवणविकलताः वर्धिताः इति अध्ययनानि सूचयन्ति।