यष्टिक्रीडा - भारतम् एष्यावीरः। चाम्प्यन्स् चषकप्राप्तौ भारतदलस्य आह्लादः।
चेन्नै> 'एषियन् चाम्प्यन्स् होक्की' नामकस्य यष्टिक्रीडाप्रतिद्वन्द्वस्य अन्तिमे चरणे मलेष्याराष्ट्रं ४ - ३ इति प्रकारैः लक्ष्यकन्दुकैः पराजित्य भारतं विजयकिरीटम् अलङ्करोति स्म। अन्तिमस्पर्धायाः अन्तिमवेलापर्यन्तं भारतं मलेष्यायाः ३ - १ इति पुरोगामित्वे आशङ्काकुममवर्तत। किन्तु तृतीयपादस्य अन्तिमकाले प्राप्तानि त्रीणि लक्ष्यकन्दुकानि भारतस्य विजयलब्धये सहायकानि अभवन्।
भारतस्य चतुर्थं वीरताकिरीटं भवत्येतत्। एष्यन् गयिंस् नामकक्रीडायै भारतस्य आत्मविश्वासं वर्धते च।