पि एस् एल् वि - सि ५६ इत्यस्य विक्षेपणं विजयकरम्।
चेन्नै> भारत बहिराकाश गवेषणसंस्थायाः [I S R O] वाणिज्य विक्षेपणसौविध्यस्य पि एस् एल् वि - सि ५६ नामकस्य उपग्रहवाहकस्य विक्षेपणं विजयकरम् अभवत्। श्रीहरिक्कोट्टास्थात् सतीष् धवान् बहिराकाशकेन्द्रात् अद्य प्रभाते विक्षिप्तेन उपग्रहवाहकेन सिङ्गप्पुरस्य भौमनिरीक्षणोपग्रहः तथा षट् लघूपग्रहाः च भ्रमणपथं प्रापिताः।
सिङ्गप्पुरस्य ३६१. ९ किलोपरिमितं भारयुक्तस्य डि एस् - सार् नामकोपग्रहस्य विक्षेपणमासीत् तत्र मुख्यम्। विक्षेपणानन्तरं २२ तमे निमिषे डि एस् - सार् निश्चितं भ्रमणपथं प्राप्तम्। २५ तमे निमिषे इतरे उपग्रहाश्च भ्रमणपथं प्रापितवन्तः।