'साफ्' पादकन्दुकस्पर्धायां भारतस्य नवमः किरीटप्राप्तिः। साफ् किरीटं प्राप्तवत् भारतदलं नायकस्य सुनिल् छेत्रिणः नेतृत्वे।
'पेनाल्टी षूटौट्' क्रियाविधिना कुवैट् दलं पराजितम्।
बङ्गलुरु> 'साफ्' पादकन्दुकवीरतास्पर्धापरम्परायाः अन्तिमे चरणे कुवैट् दलं पराजित्य भारतं विजयपदं प्राप। भारतस्य नवमः किरीटप्राप्तिः भवत्येषः। 'पेनाल्टी षूटौट्' नामके लक्ष्यकन्दुकविक्षेपणे ५ - ४ रीत्या लक्ष्यकन्दुकानि सम्प्राप्य एव भारतं विजयीभूतम्।
निश्चिते स्पर्धाकाले एकैकं लक्ष्यकन्दुकं सम्प्राप्य उभे राष्ट्रे समस्थितिम् अपालयताम्। अधिकसमयश्च लक्ष्यकन्दुकरहिते प्राप्ते पेनाल्टी षूटौट् आनिवार्यमभवत्। तत्र भारतस्य लक्ष्यकन्दुकस्तम्भपालकः गुरुप्रीतसिंहः रक्षकोSभवत्।