मणिप्पुरविषये आराष्ट्रं प्रतिषेधः व्याप्यते ; प्रजासंसदीयसभा स्तम्भिता।
नवदिल्ली> मणिपुरराज्ये अनुवर्तमानस्य वंशीयकलहस्य अंशतया मेय् मासस्य षष्ठे दिनाङ्के महिलाद्वयं लैंगिकातिक्रमविधेयं भूत्वा नग्नरूपेण वीथ्यां प्राचलितमिति विषये राष्ट्रे सर्वत्र प्रतिषेधाः प्रचलन्ति। उपर्युक्तघटनायाः 'वीडियो' चित्राणि द्वित्रिदिनेभ्यः पूर्वमासीत् समाजमाध्यमेषु प्रचरितम्।
केन्द्र-राज्यसर्वकारौ निस्संगतां भजेते इत्यरोप्य विपक्षदलैः महिलासंघटनैः च सर्वत्र प्रतिषेधकार्यक्रमाः आयोजिताः। गतदिने भारतप्रजाप्रतिनिधिसभायाः सभाद्वयमपि [राज्यसभा लोकसभा च] स्तम्भितम्। विषयेSस्मिन् प्रधानमन्त्रिणः विशदीकरणप्रस्तावः आवश्यक इति विपक्षदलैः अपेक्षितम्।