पश्चिमवंगे अक्रमाः अनुवर्तन्ते।
मरणानि १६।
कोल्कोत्ता> पश्चिमवंगे पञ्चायतनिर्वाचनानुबन्धतया जातानि अक्रमप्रवर्तनानि दिनत्रयानन्तरमपि अनुवर्तन्ते। इतःपर्यन्तं १६ जनाः विविधप्रदेशेषु प्रचलिते संघट्टने हताः। राज्यारक्षकदलं केन्द्रसेना च निस्सहायतामनुभवति।
परन्तु, ६९७ मतदानस्थानेषु अद्य पुनर्मतदानं विधास्यतीति निर्वाचनाधिकारी राजीवसिन्हेन निगदितम्। गतदिने सायं राज्यपालः सि वि आनन्दबोसः दिल्लीं प्रस्थितः अस्ति। सः गृहमन्त्रिणं अमितशाहं सन्दृश्य राज्यस्य अवस्थां बोधयिष्यतीति सूच्यते।