मनुष्याणाम् आयुः वर्धयितुं तथा च वार्धक्यं न्यूनीकर्तुम् उपायः संसिद्धः।
मसाच्चुसेट्स्> मनुष्याणां जर्जरादिकं न्यूनीकर्तुं शक्यम् औषधं प्रत्यभिज्ञातम् इति वैज्ञानिकाः वदन्ति। अमेरिक्कस्य हार्वार्ड् विश्वविद्यालयस्य वैज्ञानिकाः एव एवं वदन्ति। विशेष-औषधाणां षण्णां यथाविधिसंयोगेन नूतनस्य औषधस्य निष्पत्तिः समभवत्। जुलै मासस्य १२ तमे दिनाङ्के प्रकाशिते एजिङ् इति शोधपत्रिकायामेव औषधमधिकृत्य उल्लेखनं प्रकाशितम्। मूषिके वानरे च औषधस्य फलप्राप्तिरभवत्। अनेन औषधेन नेत्रयोः दर्शनक्षमता अपि वर्धते। अपि च वार्धक्य-सहजाः रोगाः अपि अनेन निराकर्तुं शक्यते।