विरतवेतनपरिष्करणाय केन्द्रसर्वकारः।
नवदिल्ली> २००४ तमे वर्षे विधत्तां राष्ट्रिय विरतवेतनाभियोजनां [National Pension Scheme] परिष्कर्तुं केन्द्रप्रशासनेन उद्यमते। औद्योगिककालस्य अन्तिमचरणे यत् वेतनं स्वीकृतं तस्य ४०% विरतवेतनरूपेण लभ्यमानरीत्या अभियोजनां परिष्कर्तुमेव प्रशासनस्य प्रक्रमः। सार्वजनिक निर्वाचनात् पूर्वमेव एतस्मिन् विषये निर्णयः भविष्यति।
विपक्षदलीयप्रशासकराज्येषु पूर्वतनविरतवेतनाभियोजना विधत्ता अस्ति। आगामिनिर्वाचने एन् पि एस् नामिकाभियोजनया प्रत्याघातः न भूयादिति केन्दसर्वकारः इच्छति।