मुम्बैनगरे अतिवृष्टिः। गमनागमनं स्थगितम्। उन्मूलितवृक्षेण पेषयित्वा एकः मृतः।
मुम्बै नगरे ह्यः दुरापन्नया अतिवृष्ट्या जनजीवनं प्राबाधत। नगरे विविधयानमार्गेषु जलसञ्चयरूपीकरणेन गमनागमनं निरुद्धम्। उन्मूलितवृक्षपतनेन जाते अपघाते एकः मृतिमुपगतः इति मुम्बैदेशस्य नगरसभाकार्यालयेन आवेदितम्। मुम्बैनगरे कुजवासरे१०४ मि .लि. वृष्टिः अलभत।