'बिपोर् जोय्' गुज्रालं प्रति; केरले वर्षाकालः दुर्बलः अभवत्।
अनन्तपुरी> आरबसमुद्रे सञ्जातः अतितीव्रः चक्रवातः बिपोर् जोय्' नामकः गुजरातराज्यस्य कच् सौराष्ट्रप्रदेशं प्रति सञ्चरति। १५ तमे दिनाङ्के गुज्रालस्य माण्डवी तथा पाकिस्थानस्य कराच्ची प्रदेशयोः मध्ये १५०किमी शीघ्रतया भूतलं स्प्रक्ष्यतीति पर्यावरणविभागेन निगदितम्। भूतलस्पर्शानन्तरं दुर्बलो भूत्वा न्यूनमर्दरूपेण रूपान्तरं भविष्यति।
गुज्रालस्य कच्, द्वारका, पोर्बन्तर्, जामनगरं,राजकोट्, मोर्बि इत्यादिषु जनपदेषु अतिशक्ता वर्षा भविष्यति।