काश्मीरे सेनायाः प्रतिप्रहरः - द्वौ भीकरौ निहतौ।
श्रीनगरं> जम्मु काश्मीरे स्थानद्वये द्वौ भीकरौ निहत्य भारतसेनया स्वसैनिकानां वीरमृत्यवे प्रतिप्रहरः आरब्धः। रजौरि बारामुल्ला इति प्रदेशद्वये एकैकः भीकरः सेनया हतः।
भारतस्य रक्षामन्त्री राजनाथसिंहः रजौरीं पूञ्च् च सन्दर्श्य सेनाधिकारिभिः सह चर्चां कृतवानासीत्। तदनन्तरं भीकरानुद्दिश्य तीव्रमन्वेषणं सेना सि आर् पि एफ्, काश्मीर् आरक्षकबलं इत्येते मिलित्वा आरब्धवन्तः।