अपभाषणप्रकरणम् - राहुलगान्धिनः मध्यकालसंरक्षणार्थना निरस्ता।
अहम्मदाबादः> कोण्ग्रसदलनेतारं राहुलगान्धिनं विरुध्य अपभाषणप्रकरणे सः अपराधीति विहितस्य सूरत् न्यायालयस्य विधेः उपरि गुजरातस्य उच्चन्यायालयः ग्रीष्मकालविरामानन्तरं विधिघोषणं करिष्यति। तावत्पर्यन्तं मध्यकालाश्वासविध्यर्थं राहुलस्य निवेदनमपि नीतिपीठेन निरस्तम्। मेय् ८ तमदिनाङ्कतः जूण् मासस्य तृतीयदिनाङ्कपर्यन्तं गुजरातस्य उच्चन्यायालयस्य विरामकालः भवति।
उपधान्यायालये समर्पितानि प्रकरणविषयकवस्तुतापत्राणि उपस्थापयितुं न्यायमूर्तिः हेमन्त प्राच्छकः निरदिशत्।