ड्रोण् आक्रमणं रूसदेशेनैव कृतम्। आरोपणं निषिध्य युक्रेन्देशः।
शोभा के . पी .
कीव् : ड्रोण् आक्रमणेन राष्ट्रपतिः व्लादिमिर् पुतिनस्य वधं कर्तुं प्रयतितवन्तः इति रूसदेशस्य आरोपणं निषेधति युक्रेन्देशः। युक्रेन् देशस्य राष्ट्रपतिः व्लादिमिर् सेलनस्की महोदयस्य प्रवक्ता मिहाई लो पोदोल्याक् महोदयेन उक्तम् - ड्रोण् आक्रमणेन पुतिनं लक्ष्यं न कृतं , रूसदेशः भवति एतस्य आक्रमणस्य पृष्ठतः इति।
युक्रेन्देशविरुद्धं महत् आक्रमणं कर्तुं रूसदेशस्य स्वस्य पद्धतिः एव एतत् आक्रमणं इति मिहाई लो आरोपितवान्। युक्रेन्देशः प्रतिरोधात्मक युद्धमेव कुर्वन् अस्ति। रूसदेशस्य अन्तः प्रदेशेषु आक्रमणं न करिष्यति इति युक्रेनदेशेन सूचितम्। तादृश आक्रमणेन किमपि सैनिक लक्ष्यं प्राप्तुमपि न शक्यते इति मिहाई लो अवदत्।