भारतस्य आर्थिकक्षेत्रं चीनात् वृद्धिं प्राप्स्यतीति यू एन् प्रवचनम्।
न्यूयोर्क्> भारतस्य आर्थिकमण्डलं अस्मिन् वर्षे चीनात् वृद्धिं प्राप्स्यतीति संयुक्तराष्ट्रसंघस्य प्रवचनम्। भारतस्य आर्थिकवृद्धिः ५. ८ प्रतिशतमिति यू एन् संस्थायाः अर्धसंवत्सरीयावेदनपत्रे प्रतीक्षते। चीनस्य ५. ३ प्रतिशतमिति प्रवदति। आविश्वस्तरे २. ३% आर्थिकवृद्धिः प्रतीक्षते।
अमेरिकाराष्ट्रस्य २. ५%, यूरोप् राष्ट्रसख्यस्य ०.९% च आर्थिकवृद्धिः प्रतीक्षते। धनाभिवृद्धिः, वृद्धिमानस्य अधिकता, अनिश्चितावस्थाः इत्यादयः आगोलार्थिकवृद्धेः प्रतिबन्धाः इति आवेदनपत्रे निरीक्ष्यते।