भारतस्य दक्षिणान्तं यावत् वन्दे भारत रेल्; केरलाय द्वे याने; घोषणा अस्मिन् मासे २४ दिनाङ्के।
- राणिमोल् एन् एस्
तिरुवनन्तपुरम् > केरलाय वन्दे भारतश्रेण्यां रेल् यानद्वयम् अनुमतम्। अस्मिन् मासे २४ दिनाङ्के केरलासंदर्शनवेलायां नरेन्द्रमोदिना विषयेSमिन् घोषणा करिष्यति। 'युवम्' कार्यक्रमस्य उद्घाटनार्थमेव स: केरलम् आगमिष्यति। कार्यक्रमस्य सन्दर्भे प्रधानमंत्रिण: प्रथमं वीथीदर्शनं कोच्चीनगरे भविष्यति। कोच्ची नाैसेनास्थानत: तेवरा सेक्रेड् हार्ट् महाविद्यालयस्य क्रीडाङ्कणपर्यन्तमेव वीथीदर्शनं निश्चितम्। कोच्चुवेल्यां वन्देभारतस्य यातायातसुविधा: सज्जा: सन्ति। तिरुवनन्तपुरत: कण्णूर् पर्यन्तमेव वन्देभारतस्य सेवा। एरणाकुलत: तिरुवनन्तपुरपर्यन्तं होरायां ७५,९०,१०० कि. मी. इति अस्य वेग:। नगरेषु प्रमुखकेन्द्रेषु यानस्य स्थगनानि भविष्यन्ति।