केरले कोविड्बाधिताः दशसहस्रम् अतीताः।
अनन्तपुरी> केरलराज्ये किञ्चित्कालविरामानन्तरं कोविड्बाधा प्रवर्धते। राज्यस्वास्थ्यविभागस्य गणनामनुसृत्य अद्यावधौ १०,६०९ जनाः कोविड्बाधिताः वर्तन्ते। गतदिने १८०१ जनाः कोविड्बाधिताः अभवन्। पञ्चसु जनपदेषु परिशोधने भावात्मकतामानं प्रतिशतं पञ्चाधिकं जातम्। एतत्तु आशङ्काजनकमिति विश्वस्वास्थ्यसंघटनस्य मतम्।
सोमवासरे राज्यस्वास्थ्यमन्त्रिणः नेतृत्वे अवलोकनोपवेशनं सम्पत्स्यति। मुखावरणं अवश्यं करणीयमिति आदेशः प्रतीक्षते।